भोजनस्याग्नौ दानम्, अग्रस्य ब्राह्मणायादौ दानम्
- यस्याग्नौ न क्रियते यस्यचाग्रं न दीयते न तद्भोक्तव्यम् (आप.ध.२१५१३)
- विधिर् वैश्वदेवकल्प उक्तः
शरीरस्थितिः
- उपविष्टस् स्यात्
- आर्द्र-पाणि-पाद-मुखस् स्यात्
- वामकनिष्टिकया भोजनपात्रस्पर्श आभोजनान्तं वा प्राणादिभ्य आहुतीर् यावद् वा ।
अन्नस्य प्रणामः
अग्र्य-मन्त्राः
- ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् | ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना ॥
- अन्नपूर्णे सदापूर्णे ॰
- अहं वैश्वानरो भूत्वा ॰
प्राणाग्निहोत्रम्
परिषेचनम्
- दक्षिण-हस्ते जलं धरन् आहार-परिषेचनं कूर्वन्
- ‘सत्य त्वा+ऋतेन परिषिञ्चामि (अन्ननीरे सत्यर्ते +इव कल्पयन् दिने)
- ‘ऋत त्वा सत्येन परिषिञ्चामि’ (रात्रौ)।
अग्निर्वा ऋतम् , असावादित्यः सत्यम् ; अग्निमेव तत आदित्येन सायं परिषिञ्चति ; अग्निनादित्यं प्रातः सः यावदग्निहोत्रौ भवतः तावदस्य लोकस्य नार्तिः न रिष्टिः । - कृष्णयजुर्वेदे ब्राह्मणम्। परिषेचनम् राक्षसबाधानिवृत्त्यर्थम् - हविस्स्तेयो मा भूदिति।
पूर्वम् आपोऽशनम्
- (जलमुद्दिश्य) ‘अम्रुतोपस्तरणमसि’ (हस्तात् जलपानं।)।
प्राणाहुतयः
मृगमुद्रया दन्तं अस्पृशन् मन्त्रोच्चारणपूर्वकं ईषदन्नसमर्पणम्
- न्यासः (ब्रह्मा ऋषिः अनुष्टुप्-छन्दः वैश्वानराग्निर्देवता (digestive fire))।
- ॐ प्राणाय स्वाहा॥ (life-breath)
ॐ अपानाय स्वाहा॥ (excretion)
ॐ व्यानाय स्वाहा॥ (circulation)
ॐ उधानय स्वाहा॥ (breathing)
ॐ समानाय स्वाहा॥ (digestion)
ॐ भ्रह्मणे स्वाहा॥
ॐ ब्रह्मणि मम आत्मा अमृतत्वाय॥ इति हृदयस्य स्पर्शो वामहस्तेन विशिष्टजलेन प्रक्षालितेन।
प्रतिकवलम् आहुतिभावना
- मन्त्राः
- नमो (इष्टदेवा)य
- प्राणे सन्निविष्टोऽहम् अमृतं जुहोमि इत्यादिः।
- सुशरीरवन्त उद्दिश्य
- वृकोदराय स्वाहा। कर्णार्जुनाभ्यां स्वाहा। स्कन्दाय स्वाहा। हनुमते स्वाहा। इत्यादिः।
उत्तरम् आपोऽशनम्
- ‘अमृत+अपिधामसि’ (lid) इति वदन् हस्तात् जल-पानम्।
उत्तर-मन्त्राः
- प्राणे सन्निविष्टेन मया ऽमृतं हुतम् इत्यादिः।