स्थान-संस्कारः

साधारण-स्थान-संस्कारविषयो ऽन्यत्रोक्तः

  • छदेन+आछादिता भूमिः।

कुण्ड-लक्षणम्

  • कुण्डे भौतिक-विचारो ऽन्यत्र
  • द्रव्यम्
    • अपक्व-मृदा सृष्टं स्याद् इति शिष्टाः। (पक्व-मृदा तु पाकाग्नये कुण्डम्।)
    • अकस्मात्-स्पर्श-पीडादि सम्भवेल् लोह-कुण्डतः।

होम-कुण्डस्य स्थण्डिलस्य वा संस्कारः

  • भावः
  • परिमाणम्
    • स्थण्डिलम् इषुमात्रम् इत्य् आश्वलायनः
    • १०००-आहुतीभ्यो ऽधिकाश्चेत् कुण्डम्, तच्च शुल्बसूत्रोक्तम्
  • वीक्षणम्, प्रोक्षणम्, दर्भैस् ताडनम् त्रिः
  • हुम् इति कवच-मन्त्रेण+अभ्युक्षणम्
  • परि-समूहनम्
    • प्रोक्षणात् परं हस्तेन मार्जनम् - मेखलाभ्यः (कुण्डं परितः सोपानेभ्यो) ऽवशेषस्य निरसनाय।
  • अग्निं ध्यात्वा पीठपूजा

परिस्तरणम्

  • भावः - आसन-परिकल्पनम् - दर्भैः परिस्तरणम् (“नि च सत्सि बर्हिषि”)
  • प्रत्येकस्मिन् दिशि ३+ दर्भा इति केचित्।
  • सू०, प्रदक्षिणम्॥ पुरस्तादुदग्वोपक्रमः॥
    तथापवर्गः॥ … प्रागग्रैर्दभैरग्निं परिस्तृणाति॥१२॥ प्रागुदगग्रैर्वा॥१३॥ दक्षिणाग्रैः पित्र्येषु ॥ दक्षिणाप्रागग्रैर्वा ॥

परिधि-निर्माणम्

  • स्थविष्ठं (=स्थूलम्) पश्चाद् उदगग्रं मध्यं निधाय।
  • ततोऽणिष्ठं दीर्घं प्रागग्रमग्नेर्दक्षिणतो निधाय।
  • ततोऽपि ह्रसिष्ठं कृशं प्रागग्रमग्नेरुत्तरतो निधाय।
  • परिधीनन्योन्यसंसृष्टान् कृत्वा
  • मध्यमं परिधिं दक्षिण हस्तेनोपस्पृश्य,

होमकुण्डस्य उल्लेखनम् ( रेखाकर्षणम्)

  • आयुधम्
    • वज्रस्य प्रतिनिधिरसाव् इति भावः
    • “तत्राङ्गुष्ठानामिकाभ्यां सङ्गृहीतेन शकलेन दर्भेण वा”
    • स्फ्यः काष्ठख्ड्गम्
  • “दक्षिणारम्भं प्राचीस्तिस्रो रेखाः” | पश्चिमतः पूर्वाग्रास् तिस्रो रेखाः
    • नमोवचनम् - “मध्ये प्रजापतिः, दक्षिणे यमः, उत्तरे सोमः”
  • “पश्चिमारम्भं उदीचीस्तिस्रो रेखाश्च लिखित्वा” | दक्षिणत उत्तराग्रास् तिस्रो रेखाः
    • नमोवचनम् - “मध्ये रुद्रः, पश्चिमे विष्णुः पूर्वे इन्द्रः”
  • अग्निचक्रलेखनम् वा
  • तत्र तं न्यस्य, अद्भिरवोक्ष्य, शकलं नैऋत्यां निरस्य, आप उपस्पृश्य
  • अथावोक्षणतोयशेषं उत्तरतः पूर्वतो वा उत्सिचेत्। अथान्यदुदकं पात्रस्थं तत्रैवापदध्यात्।

होमकुण्डापनयनम्

  • हविषस् सुष्ठु पाको नयनं वऽग्निनाा सुनिश्चितस् स्यात्।
    • ततो कुण्डे समिधाम् उचितो विन्यासः।
      • ज्वाला यथा काष्ठानि परितस् तिष्ठेयुस् तथा लघुशकलानां ज्वलतां विन्यासः।
  • परिस्तरण-दर्भाणां प्रतिग्रहः।
    • देवलोकं हविषा सह यातीति भावना
  • अन्ते होमकुण्डं जागरूकतया बहिर् नय।