साधारण-स्थान-संस्कारविषयो ऽन्यत्रोक्तः।
- छदेन+आछादिता भूमिः।
कुण्ड-लक्षणम्
- कुण्डे भौतिक-विचारो ऽन्यत्र।
- द्रव्यम्
- अपक्व-मृदा सृष्टं स्याद् इति शिष्टाः। (पक्व-मृदा तु पाकाग्नये कुण्डम्।)
- अकस्मात्-स्पर्श-पीडादि सम्भवेल् लोह-कुण्डतः।
होम-कुण्डस्य स्थण्डिलस्य वा संस्कारः
- भावः
- परिमाणम्
- स्थण्डिलम् इषुमात्रम् इत्य् आश्वलायनः
- १०००-आहुतीभ्यो ऽधिकाश्चेत् कुण्डम्, तच्च शुल्बसूत्रोक्तम्
- वीक्षणम्, प्रोक्षणम्, दर्भैस् ताडनम् त्रिः
- हुम् इति कवच-मन्त्रेण+अभ्युक्षणम्
- परि-समूहनम्
- प्रोक्षणात् परं हस्तेन मार्जनम् - मेखलाभ्यः (कुण्डं परितः सोपानेभ्यो) ऽवशेषस्य निरसनाय।
- अग्निं ध्यात्वा पीठपूजा
परिस्तरणम्
- भावः - आसन-परिकल्पनम् - दर्भैः परिस्तरणम् (“नि च सत्सि बर्हिषि”)
- प्रत्येकस्मिन् दिशि ३+ दर्भा इति केचित्।
- सू०, प्रदक्षिणम्॥ पुरस्तादुदग्वोपक्रमः॥
तथापवर्गः॥ … प्रागग्रैर्दभैरग्निं परिस्तृणाति॥१२॥ प्रागुदगग्रैर्वा॥१३॥ दक्षिणाग्रैः पित्र्येषु ॥ दक्षिणाप्रागग्रैर्वा ॥
परिधि-निर्माणम्
- स्थविष्ठं (=स्थूलम्) पश्चाद् उदगग्रं मध्यं निधाय।
- ततोऽणिष्ठं दीर्घं प्रागग्रमग्नेर्दक्षिणतो निधाय।
- ततोऽपि ह्रसिष्ठं कृशं प्रागग्रमग्नेरुत्तरतो निधाय।
- परिधीनन्योन्यसंसृष्टान् कृत्वा
- मध्यमं परिधिं दक्षिण हस्तेनोपस्पृश्य,
होमकुण्डस्य उल्लेखनम् ( रेखाकर्षणम्)
- आयुधम्
- वज्रस्य प्रतिनिधिरसाव् इति भावः
- “तत्राङ्गुष्ठानामिकाभ्यां सङ्गृहीतेन शकलेन दर्भेण वा”
- स्फ्यः काष्ठख्ड्गम्
- “दक्षिणारम्भं प्राचीस्तिस्रो रेखाः” | पश्चिमतः पूर्वाग्रास् तिस्रो रेखाः
- नमोवचनम् - “मध्ये प्रजापतिः, दक्षिणे यमः, उत्तरे सोमः”
- “पश्चिमारम्भं उदीचीस्तिस्रो रेखाश्च लिखित्वा” | दक्षिणत उत्तराग्रास् तिस्रो रेखाः
- नमोवचनम् - “मध्ये रुद्रः, पश्चिमे विष्णुः पूर्वे इन्द्रः”
- अग्निचक्रलेखनम् वा
- तत्र तं न्यस्य, अद्भिरवोक्ष्य, शकलं नैऋत्यां निरस्य, आप उपस्पृश्य
- अथावोक्षणतोयशेषं उत्तरतः पूर्वतो वा उत्सिचेत्। अथान्यदुदकं पात्रस्थं तत्रैवापदध्यात्।
होमकुण्डापनयनम्
- हविषस् सुष्ठु पाको नयनं वऽग्निनाा सुनिश्चितस् स्यात्।
- ततो कुण्डे समिधाम् उचितो विन्यासः।
- ज्वाला यथा काष्ठानि परितस् तिष्ठेयुस् तथा लघुशकलानां ज्वलतां विन्यासः।
- ततो कुण्डे समिधाम् उचितो विन्यासः।
- परिस्तरण-दर्भाणां प्रतिग्रहः।
- देवलोकं हविषा सह यातीति भावना
- अन्ते होमकुण्डं जागरूकतया बहिर् नय।