पौष्टीक-कर्माणि

जयाद्य्-अभ्यातान-राष्ट्रभृतानि

  • हेतुः - अभिचार-प्रत्याभिचारौ
  • अभ्यातानान्ते पित्राहुतौ जपे वा प्राचीना वीतिर् इति हिरण्यकेशी।
  • लघुविधिः - जयहोम एव।

प्राजापत्यम्

  • प्रजापते न त्वदेतान्यन्यो ॰
  • सङ्क्षेपेण- व्याहृतिभिर् वा।

व्याहृतिहोमः

  • ॐ भूस् स्वाहेत्यादिना - भूर्-भुवस्-सुवर्लोकपालेभ्य आहुतिः।
    • ते अग्नि-वायु-सूर्याः।

स्विष्टकृत्

  • कदा स्विष्टकृद्धोम इष्यते?
    • यदा प्रधानाहुत्य्+उपदेशे न सा ऽन्तर्भूता।
  • अग्नये स्विष्टकृते आहुतिः। स रुद्र इति सायणनिभाः।

परिधिप्रहरणम्

क्रमः - उत्तरादारभ्य प्रदक्षिणम्।

संस्रावः

  • संस्रावः स्रुचा स्वाहाकारेण। वसुभ्यो रुद्रेभ्य आदित्येभ्यस् संस्रावभागेभ्य इदन्न ममेति त्यागः।
  • वसोर् धारा। संस्राव एवैष इति कश्चित्।
    • धारारूपेण घीमर्पयता “शञ्च मे” इत्यादिर् वाच्यः।

पूर्णाहुतिः

  • अवशिष्ट-प्रधान-द्रव्यस्य, सर्वैः स्पृष्टस्य नारिकेलस्य वा
  • मन्त्रमुक्त्वा नारिकेलकपालं स्थापयेत्।