जयाद्य्-अभ्यातान-राष्ट्रभृतानि
- हेतुः - अभिचार-प्रत्याभिचारौ
- अभ्यातानान्ते पित्राहुतौ जपे वा प्राचीना वीतिर् इति हिरण्यकेशी।
- लघुविधिः - जयहोम एव।
प्राजापत्यम्
- प्रजापते न त्वदेतान्यन्यो ॰
- सङ्क्षेपेण- व्याहृतिभिर् वा।
व्याहृतिहोमः
- ॐ भूस् स्वाहेत्यादिना - भूर्-भुवस्-सुवर्लोकपालेभ्य आहुतिः।
- ते अग्नि-वायु-सूर्याः।
स्विष्टकृत्
- कदा स्विष्टकृद्धोम इष्यते?
- यदा प्रधानाहुत्य्+उपदेशे न सा ऽन्तर्भूता।
- अग्नये स्विष्टकृते आहुतिः। स रुद्र इति सायणनिभाः।
परिधिप्रहरणम्
क्रमः - उत्तरादारभ्य प्रदक्षिणम्।
संस्रावः
- संस्रावः स्रुचा स्वाहाकारेण। वसुभ्यो रुद्रेभ्य आदित्येभ्यस् संस्रावभागेभ्य इदन्न ममेति त्यागः।
- वसोर् धारा। संस्राव एवैष इति कश्चित्।
- धारारूपेण घीमर्पयता “शञ्च मे” इत्यादिर् वाच्यः।
पूर्णाहुतिः
- अवशिष्ट-प्रधान-द्रव्यस्य, सर्वैः स्पृष्टस्य नारिकेलस्य वा
- मन्त्रमुक्त्वा नारिकेलकपालं स्थापयेत्।