पात्र-प्रयोगः

द्रव्य-व्यवस्थापनम्

  • उत्तरेणाग्निं पात्रसादनार्थं प्रागग्रान् दर्भान् संस्तीर्य।
  • तेषु द्वन्द्वं न्यञ्चि अधोबिलानि (देवसंयुक्तानि) पात्राणि सादयति।
  • सकृदेव मनुष्यसंयुक्तानि ॥
    • मनुष्यद्वारा संयुक्तानि अश्मवासोमेखलादीनि सकृदेव क्रियाभ्यावृत्तिपरिहारेण प्रयुनक्ति, पात्रबहुत्वेऽप्युपायेन ।
      केचित्मनुष्यसंस्कारकर्मसु दर्व्यादीन्यपि सकृदेवेति ॥१७॥
  • एकैकशः पितृसंयुक्तानि ॥
    • पितृकर्मार्थानि दर्व्यादीनि स्वधापात्रादीनि
  • क्रमः पश्चिमतः - उच्यन्ते मुख्यपात्राणि – प्रधानदर्वी आज्यस्थालीं च, प्रोक्षणीपात्रं प्रणीतापात्रं च, इतरदर्वीम् इध्मं च दक्षिणोदं(?) च

पात्र-प्रोक्षणम्

प्रोक्षणी-संस्कारः

  • भावः - यज्ञियवस्तुप्रोक्षणार्थम्
  • उदगग्राभ्यां पवित्राभ्याम् अन्तर्हितायां वैकङ्कत्यां स्रुचि जलम् आनीय
  • ताभ्यां त्रिर् उत्पूय प्रोक्षणीजलम्
    • पुरा जलशोधनमेवमक्रियत
  • प्रोक्षेत्

इध्म-संस्कारः

  • २१ काष्ठानि दर्शपूर्णमासयोः
    • “इनकी संख्या 21 है। इनमें पन्द्रह सामिधेनी ऋचाओं के समय अगिन् में फेंक दी जाती हैं, तीन का उपयोग परिधि के रूप में होता है, 2 का दो आघारों के लिए एवं एक का अनुयाज के लिए, आप.श्रौ.सू. 1.5.6 भाष्य;”
  • इध्मं च विस्रस्य
  • त्रिः प्रोक्षणम्

यज्ञपात्र-प्रोक्षणम्

  • उत्तानानि पात्राणि कृत्वा
  • उत्तानेन सपवित्रहस्तेन त्रिः अद्भिरद्भिः प्रोक्ष्य

अग्न्यवलम्बी पात्र-संस्कारः

  • अग्निप्रतिष्ठापनात् परम्, भिन्नज्वालनयन्त्राग्निना वा

आज्य-संस्कारः

  • पुनर्विलापः
    • तत्र भावः
      • उपरिवर्ति-मालिन्यनिष्कासनम् सरलतरं स्यादिति
    • पूर्वमेव विलीनमप्याज्यं होमार्थं “विलाप्य”,
    • पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरूप्य
  • उद्द्योतनम्
    • तत्र भावः
      • अशुद्धिदर्शनं साधु स्यादिति
    • उदीचो ऽङ्गारान् निरूह्य तेष्वधिश्रित्याऽज्यपात्रम्
    • तृणेन ज्वलताऽवद्योत्य = अधोगामिन्या दीप्त्या द्योतयित्वा
    • द्वे दर्भाग्रे अनियतायामे छित्वा, ऽद्भिस्संस्पृश्य, ते युगपदाज्ये प्रक्षिपेत्
    • उल्मुकम् (=अङ्गारम्?) आदायाज्ये प्रदक्षिणं त्रिः पर्यग्नि कृत्वा
    • समन्ततोऽग्निमावर्त्य तदुदगवतारयेत् ।
    • ततोऽङ्गारान् पूर्व निरूढान्<प्रत्यूह्य> पुनरायतनस्थाग्निना संयोज्य ।
  • उत्पवनम्
    • तत्र भावः
      • मालिन्य-निष्कासनम्
    • (प्रोक्षणीसंस्कारे प्रयुक्ते एव पवित्रे प्रयोक्तुम् योग्ये
    • उदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय
    • ततस्ते <पवित्रे अनुप्रहृत्य> आचारानुकूलं प्रहृत्य - यदि ग्रन्थिस्स्यात्तदा विस्रस्य, ते अद्भिससंस्पृश्य, प्रागग्रे अग्नौ प्रहरेदित्यर्थः

दर्वी-शोधन-संस्कारः

  • येन जुहोति तदग्नौ प्रतितप्य,

    • तत्र भावः - मालिन्य-निष्कासनं सरलं स्यादिति
  • दभैः संमृज्य

  • पुनः प्रतितप्य

  • प्रोक्ष्य

  • निधाय

  • दर्भानद्भिः संस्पृश्य (दर्वीम् च दर्भैरिति केचित्)

  • दर्भान् अग्नौ प्रहरति॥

  • अग्नेः, पात्राणाम्, ब्राह्मणानाञ्च अक्षता-पुष्प-क्षेपेण पूजनं क्वचित्।