अनुज्ञाङ्गम्
किम् नाम+अग्निमुखम्?
- परिभाषा १
- अग्निमुखं नाम - अग्नेस् समासाधानादारभ्याज्यभागात् परं प्राजापत्याहुतिं यावत्।
- तान्त्रिकहोमेष्व् अपि वैदिकाग्निमुखं योग्यम् इत्याचारज् ज्ञायते।
- परिभाषा २
- अग्निमुखाहुतिर् बहुधा क्रियमाणा ऽऽज्यभागान्ते कृते
भ्रान्तिर्मा भूदिति वयम् अनुज्ञाङ्ग-शब्देन प्रथमार्थे व्यवहरामः।
कति स्युर् अनुज्ञाङ्गानि?
- वैदिक-तान्त्रिककर्मभ्यो पृथगग्निमुखानि स्युर् इति केचित्।
- अनेक-होमानाम् एकस्मिन्नेवाग्नौ करणे प्रत्येकस्य पृथक् पूर्वोत्तरपरिषेचने इच्छन्ति नैके। तेन सहाघाराव् आज्यभागौ चाऽपि क्वचित् यदि तद् युक्तम्।
अदित्यादिभ्यो ऽनुज्ञा ऽग्निपरिषेचनम् च।
- अदि॒तेऽनु॑मन्यस्व। अनु॑म॒तेऽनु॑मन्यस्व। सर॑स्व॒तेऽनुमन्यस्व। दे॒व सवि॒तः प्र॑सुव।
- अग्नेरेव, न परिधेः परिषेचनम्
- चित्रम् - http://i.imgur.com/Z1cz3wC.png
अनुज्ञातृभ्यो धन्यताभिव्यक्तिः
होमान्ते क्रियते।
- अदिते ऽन्वमंस्थाः …
- चित्रम् - http://i.imgur.com/Z1cz3wC.png
इध्मम् आधाय
- समित्-स्थापनक्रमः साधारणः “विधौ स्थूल-टिप्पन्य” इत्यत्र+उक्तः
- १५ समिधाम् इध्मम् (प्रोक्षितम्) आदधाति
- “इध्मम् आधासये ब्रह्मन्!” - “आधत्स्व!”
- कश्चिदत्र समिधाधानम् इच्छति।
- अस्य सङ्क्षेपः
- एकस्यैव समिधो दानम्
आघाराव् अघारयति दर्शपूर्णमासवत् तूष्णीम्
- २ समिध्+आघाराव् आदौ देयौ
- स्रुचा
- १ - (प्रजापतये स्वाहा इति मनसि) उत्तरं परिधिसन्धिमन्ववहृत्य वायुकोणाद् अग्निकोणं यावत् दीर्घधारा दर्व्याः
- २ - (इन्द्राय स्वाहा इति मनसि) दक्षिणं परिधिसन्धिमन्ववहृत्य नैर्ऋत्य-कोणाद् ऐशानकोणं यावत् दीर्घधारा दर्व्याः
अन्वाधानम् क्वचित्
- पाणौ समिध्-द्वयं गृहीत्वा
- सङ्कल्पो यथा - पूर्वाङ्गे …। प्रधाने - प्रजापतिं मनुम् इन्द्रं चैकैकयाऽऽहुत्या यक्ष्ये। उत्तराङ्गे …।
- ततस् समिधोर् अर्पणम्
आज्यभागौ = चक्षुषीहोमः
- स्रुचा
- “समम् पूर्वेण” = आघारहोमे यावद् दत्तं घृतम्, तावदेवात्राऽपि स्यादिति?
- उत्तरार्धपूर्वार्धे - अग्नये स्वाहा
- दक्षिणार्धपूर्वार्धे - सोमाय स्वाहा
- ततो मुखाहुतिर् अग्नय इति केचित्। न तथा - प्राजापत्यम् एव प्रायश्चित्त इति कश्चित्।
- एतद् क्वचित्कम् इति केचित्
कदेश्यते?
- यथोपदेशमिति +ऋजूत्तरम्। क्वचिद् गृह्यसूत्रटीकाकारा विवदन्ति - “अस्मिन् कर्मणि जयादयो भवन्ति नवे"ति।
- स्थालीपाकतन्त्रे प्रयुक्ते
- अग्नीतरदेवतायै दीयते चेद् आज्यम् इति केचित् गृह्यसूत्रावेक्षणेन
- अज्यातिरिक्ताहुतयो दीयन्ते चेद् इति नरेन्द्रार्यः
- आहुतिदानक्षेत्रपरिधि-ज्ञापनार्थम् इति केचित्
आरम्भप्रभृतिकृत-दोष-प्रायश्चित्तम्
- प्रजापतये व्याहृतिभिः
- केचिदत्र व्याहृतिहोमम् अपीच्छन्ति
विघ्नोपशमनम्
- दिक्पालकनमनम् होमकुण्डं परितो ऽक्षतानाम् अर्पणेन क्षेपेण वा।
- विघ्ननिवारणम्
- विघ्नविनाशकदेवायाहुतिः।