अग्नि-प्रतिष्ठापनम्
अग्नि-प्राप्तिः
श्रोत्रियागाराद् वा।
- औपासनाग्नेः देवकार्येषु, परगृहाणां कृते पाकाग्निः
- सुमङ्गल्या
- तैजसेन वा मृण्मयेन पात्रेणाच्छादितेन
- अङ्गाररूपो निर्धूमः
बहिर् ज्वालन-तन्त्रम्
- मूलाधारे लक्ष्मी-हयग्रीवयोर् वा प्रजापति-सरस्वत्योर् वा संयोगेन जायमानो ऽग्निस्तम्भ आज्ञाचक्रं याति। एवं वाग्भिः कल्पयति। योऽग्निप्रकारश् चितस् तस्यैवैवं कल्पनं स्यात्।
- उचितमन्त्राः
- रम् इत्यग्निबीजम्
- मथनम्
- पत्नीयजमानाभ्यां क्रियते चेद् उत्तमम्
- शङ्कुपरिवर्तनम्
- https://youtu.be/_TzhAOX5gh8?list=PL63uIhJxWbgizlNgwxhytJg3Ud11xukGu&t=1822
- अग्निलोहघर्षणेन विकीर्णवर्त्तिका-ज्वालनम्
- अग्निलोहदण्डं दृढं गृहीत्वा दृढम् अधोदिशं लोहान्तरेण छुरिकनिभेन ताडनीयो द्विस् त्रिर् वा।
नैरृतेभ्यो ऽग्नि-कल्पनम्
- हुम् इति कवचमन्त्रेणाग्निम् आछद्य क्रव्यादांशम् आदाय
- नैरृत्यां दिशि दीपस्थापनम् फट्कारेण सह, ज्वलत्कूर्चक्षेपो वा।
- मन्त्रः
- मूलं + हुम् फट्
- मन्त्रः
- तत्परितः प्रोक्षणम्
कुण्डे अग्निज्वालनम्
- ज्वलनद्रव्य-स्थापनं कुण्डे
- कार्पास-पट्टिर् आज्येन तैलेन वा सुलिप्ता, यस्यास् सीमा अलिप्ता (ज्वालनसौकर्याय)
- गोमयम् आज्यलिप्ताधोधारम्
- यथाऽत्र दर्शितम् - https://youtu.be/hfNwSsXsQgo?t=431
- घनसारो ऽधमः - अनवीकार्य इति हेतुना
- बहिर् ज्वालितम् अग्निं कुण्डे वर्तमान इन्धने क्षिपेत्।
- अग्निम् इद्ध्वा लौकिकेन्धनैः
- अग्नेर् उपरि तम्बूरूपं सृजेत् काष्ठखण्डैः। न हि साक्षाज् ज्वलद्द्रव्यस्योपरि पतेत्।
- अग्नेः परितः खण्डत्रयेण चुल्लीं वा सृजेत्।
- अग्नि-प्रकारचयनम् स्थूलम्
- क्रव्यादाग्नेर् अपकर्षणम्, जातवेदस आह्वानम्। मारणादिप्रयोगे ऽन्यथा।
- औपासने विवाहसाक्षी यो ऽग्निस् सः।
- मन्त्रः
- व्याहृतिभिः प्रायेण
अग्नि-संस्कारः
- लघुविधिः
- “भूर्भुव॒स् सुवः॒ स्वाहा॑” इति ८ वारम् आज्य+अर्पणम्
- विस्तृत-विधिः
- लक्ष्म्या वा वाग्देव्या वा गर्भे वर्धमानम् अग्निं कल्पयन् - “अस्य होमाग्नेः जातकर्म कल्पयामि नमः”
- एवमेव नामकरणम् उचितनाम्ना (यथा - सिंहाग्निः), अन्नप्राशनम्, चौलम्, उपनयनम्, समावर्तनम्, विवाहः। मारणेष्वेवान्त्येष्टिः
- सर्वप्रायश्चित्तहोमस् तत इति हरदत्तः
अग्नेर् आराधनम्
- अग्नेः स्तुतिः।
- चत्वारि शृङ्गा …
- प्राङ्मुखीकरणम् च
- पूर्वे प्राक्तोयस्थापनम्।
- मन्त्रः - एष हि देवः प्रदिशो नु सर्वाः …
- सप्तभ्यो जिह्वाभ्यः आहुतयः - ईशान-पूर्व-आग्नेय-नैरृत्य-पश्चिम-वायव्य-दिक्षु मध्ये च
- हिरण्या-कनका-रक्ता-कृष्णा-सुप्रभा-अतिरक्ता-बहुरूपाः
- अक्षताभिर् आराधनम् कुण्डस्य नानास्थानेषु
अग्निपोषणम्
- यदि क्षीणस् स्यादग्निः, तद्बोधनं चिन्त्यम् शीघ्रम्।
- क्षीणतासंज्ञाः
- ज्वाला-न्यूनता
- ज्वाला-नाशः
- धूमस्याधिक्यम्
- ज्वाला-सत्त्वे
- इन्धन-संयोजनम्
- हेतुः - दीर्घतराय सानुषङ्घाय होमायादावेव पर्याप्तेन्धनानि कल्पयितुं कठिनानि। ततो मध्ये काले काले संयोजनायेन्धनानि प्रोक्षितानि सिद्धानि स्युः।
- आज्य-प्रयोगः
- धूमोद्गमस्थानय् आज्यदानम्
- अज्यलिप्तसमिधाधानेन वा।
- इन्धन-संयोजनम्
- ज्वालाभावे
- धमनम्
- साधनानि
- balloon pump
- वेणुधमन्या
- blower-यन्त्रेण
- अञ्जल्याधारेण मुखवायुप्रेषणम्
- व्यजनम् त्रिः
- साधनानि
- धमनम्
- मन्त्राः
- उत्तिष्ठ पुरुष हरितपिङ्गल लोहिताक्ष! सर्वकर्मणि साधय मे। देहि दापय स्वाहा!
- ज्वालिनी-मुद्रया सह “चित्पिङ्गल हन हन! दह दह! पच पच! सर्वज्ञाज्ञापय स्वाहा!”
अग्नि-नियन्त्रणम्
- कुण्डाद् बहिर् अङ्गारः पतितश् चेत् प्रतिक्षेपो वा ऽद्भिः शमनम् वा तस्योचितम्। (दृष्टम् आचारे)
धूम-निवारण-तन्त्रम्
- अत्रापीक्षताम् wood-stove तन्त्राणि।
- उचितेन्धन-चयनम्
- अध-उपवेषणम्
- यत ऊर्ध्वम् याति धूमः
- विद्युत्-व्यजनम्
उपस्थानम् प्रतिग्रहणञ्च
अग्नये ऽन्तिमाहुतिः
- सप्तवते अग्नये आहुतिः।
रक्षायाः भस्मतिलकस्य धरणम्।
- घृतलिप्त-चमसेन भस्मस्य ग्रहणम् ज्वलति वह्नौ
- मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो ऽव॑धीर्ह॒विष्म॑न्तः॒ सद॒मित्त्वा॑ हवामहे ॥
- अथवा घृतलिप्तान् परिस्तीर्ण-दर्भान् ज्वालयित्वा
- बिन्दु-स्थापनम्
- ललाटे मेधावी भूयासम्
- वक्षसि तेजस्वी भूयासम्
- दक्षिणांसे वर्चस्वी भूयासम्
- वामांसे ब्रह्म्वर्चस्वी भूयासम्
- कण्ठे आयुष्मान् भूयासम्
- ग्रीवापृष्ठतः- अन्नादो भूयासम्
- मूर्ध्नि स्वस्ति भूयासम्
अग्नेर् उपस्थानम्
- यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासम् इत्यादिः - अनेन हस्ताव अभिताप्य हृदयस्पर्शः
- अग्नये नमउक्तिः
- अग्ने नय सुपथा ॰
- अभिवाद्य नमस्कुरु
- प्रदक्षिणापूर्वक-साष्टाङ्गनमस्कारः।
- अक्षता क्षेपेण ज्वालायाम्।
- “ॐ गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर। यत्र ब्रम्हादयो देवा: तत्र गच्छ हुताशन ||”