अग्निः

अग्नि-प्रतिष्ठापनम्

अग्नि-प्राप्तिः

श्रोत्रियागाराद् वा।

  • औपासनाग्नेः देवकार्येषु, परगृहाणां कृते पाकाग्निः
  • सुमङ्गल्या
  • तैजसेन वा मृण्मयेन पात्रेणाच्छादितेन
  • अङ्गाररूपो निर्धूमः

बहिर् ज्वालन-तन्त्रम्

  • मूलाधारे लक्ष्मी-हयग्रीवयोर् वा प्रजापति-सरस्वत्योर् वा संयोगेन जायमानो ऽग्निस्तम्भ आज्ञाचक्रं याति। एवं वाग्भिः कल्पयति। योऽग्निप्रकारश् चितस् तस्यैवैवं कल्पनं स्यात्।
  • उचितमन्त्राः
    • रम् इत्यग्निबीजम्
  • मथनम्
  • अग्निलोहघर्षणेन विकीर्णवर्त्तिका-ज्वालनम्
    • अग्निलोहदण्डं दृढं गृहीत्वा दृढम् अधोदिशं लोहान्तरेण छुरिकनिभेन ताडनीयो द्विस् त्रिर् वा।

नैरृतेभ्यो ऽग्नि-कल्पनम्

  • हुम् इति कवचमन्त्रेणाग्निम् आछद्य क्रव्यादांशम् आदाय
  • नैरृत्यां दिशि दीपस्थापनम् फट्कारेण सह, ज्वलत्कूर्चक्षेपो वा।
    • मन्त्रः
      • मूलं + हुम् फट्
  • तत्परितः प्रोक्षणम्

कुण्डे अग्निज्वालनम्

  • ज्वलनद्रव्य-स्थापनं कुण्डे
    • कार्पास-पट्टिर् आज्येन तैलेन वा सुलिप्ता, यस्यास् सीमा अलिप्ता (ज्वालनसौकर्याय)
    • गोमयम् आज्यलिप्ताधोधारम्
    • घनसारो ऽधमः - अनवीकार्य इति हेतुना
  • बहिर् ज्वालितम् अग्निं कुण्डे वर्तमान इन्धने क्षिपेत्।
  • अग्निम् इद्ध्वा लौकिकेन्धनैः
    • अग्नेर् उपरि तम्बूरूपं सृजेत् काष्ठखण्डैः। न हि साक्षाज् ज्वलद्द्रव्यस्योपरि पतेत्।
    • अग्नेः परितः खण्डत्रयेण चुल्लीं वा सृजेत्।
  • अग्नि-प्रकारचयनम् स्थूलम्
    • क्रव्यादाग्नेर् अपकर्षणम्, जातवेदस आह्वानम्। मारणादिप्रयोगे ऽन्यथा।
    • औपासने विवाहसाक्षी यो ऽग्निस् सः।
  • मन्त्रः
    • व्याहृतिभिः प्रायेण

अग्नि-संस्कारः

  • लघुविधिः
    • “भूर्भुव॒स् सुवः॒ स्वाहा॑” इति ८ वारम् आज्य+अर्पणम्
  • विस्तृत-विधिः
    • लक्ष्म्या वा वाग्देव्या वा गर्भे वर्धमानम् अग्निं कल्पयन् - “अस्य होमाग्नेः जातकर्म कल्पयामि नमः”
    • एवमेव नामकरणम् उचितनाम्ना (यथा - सिंहाग्निः), अन्नप्राशनम्, चौलम्, उपनयनम्, समावर्तनम्, विवाहः। मारणेष्वेवान्त्येष्टिः
  • सर्वप्रायश्चित्तहोमस् तत इति हरदत्तः

अग्नेर् आराधनम्

  • अग्नेः स्तुतिः।
    • चत्वारि शृङ्गा …
  • प्राङ्मुखीकरणम् च
    • पूर्वे प्राक्तोयस्थापनम्।
    • मन्त्रः - एष हि देवः प्रदिशो नु सर्वाः …
  • सप्तभ्यो जिह्वाभ्यः आहुतयः - ईशान-पूर्व-आग्नेय-नैरृत्य-पश्चिम-वायव्य-दिक्षु मध्ये च
    • हिरण्या-कनका-रक्ता-कृष्णा-सुप्रभा-अतिरक्ता-बहुरूपाः
  • अक्षताभिर् आराधनम् कुण्डस्य नानास्थानेषु

अग्निपोषणम्

  • यदि क्षीणस् स्यादग्निः, तद्बोधनं चिन्त्यम् शीघ्रम्।
  • क्षीणतासंज्ञाः
    • ज्वाला-न्यूनता
    • ज्वाला-नाशः
    • धूमस्याधिक्यम्
  • ज्वाला-सत्त्वे
    • इन्धन-संयोजनम्
      • हेतुः - दीर्घतराय सानुषङ्घाय होमायादावेव पर्याप्तेन्धनानि कल्पयितुं कठिनानि। ततो मध्ये काले काले संयोजनायेन्धनानि प्रोक्षितानि सिद्धानि स्युः।
    • आज्य-प्रयोगः
      • धूमोद्गमस्थानय् आज्यदानम्
      • अज्यलिप्तसमिधाधानेन वा।
  • ज्वालाभावे
    • धमनम्
      • साधनानि
        • balloon pump
        • वेणुधमन्या
        • blower-यन्त्रेण
        • अञ्जल्याधारेण मुखवायुप्रेषणम्
        • व्यजनम् त्रिः
  • मन्त्राः
    • उत्तिष्ठ पुरुष हरितपिङ्गल लोहिताक्ष! सर्वकर्मणि साधय मे। देहि दापय स्वाहा!
    • ज्वालिनी-मुद्रया सह “चित्पिङ्गल हन हन! दह दह! पच पच! सर्वज्ञाज्ञापय स्वाहा!”

अग्नि-नियन्त्रणम्

  • कुण्डाद् बहिर् अङ्गारः पतितश् चेत् प्रतिक्षेपो वा ऽद्भिः शमनम् वा तस्योचितम्। (दृष्टम् आचारे)

धूम-निवारण-तन्त्रम्

  • अत्रापीक्षताम् wood-stove तन्त्राणि
  • उचितेन्धन-चयनम्
  • अध-उपवेषणम्
    • यत ऊर्ध्वम् याति धूमः
  • विद्युत्-व्यजनम्

उपस्थानम् प्रतिग्रहणञ्च

अग्नये ऽन्तिमाहुतिः

  • सप्तवते अग्नये आहुतिः।

रक्षायाः भस्मतिलकस्य धरणम्।

  • घृतलिप्त-चमसेन भस्मस्य ग्रहणम् ज्वलति वह्नौ
    • मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तो ऽव॑धीर्ह॒विष्म॑न्तः॒ सद॒मित्त्वा॑ हवामहे ॥
  • अथवा घृतलिप्तान् परिस्तीर्ण-दर्भान् ज्वालयित्वा
  • बिन्दु-स्थापनम्
    • ललाटे मेधावी भूयासम्
    • वक्षसि तेजस्वी भूयासम्
    • दक्षिणांसे वर्चस्वी भूयासम्
    • वामांसे ब्रह्म्वर्चस्वी भूयासम्
    • कण्ठे आयुष्मान् भूयासम्
    • ग्रीवापृष्ठतः- अन्नादो भूयासम्
    • मूर्ध्नि स्वस्ति भूयासम्

अग्नेर् उपस्थानम्

  • यत्ते अग्ने तेजस्तेनाहं तेजस्वी भूयासम् इत्यादिः - अनेन हस्ताव अभिताप्य हृदयस्पर्शः
  • अग्नये नमउक्तिः
    • अग्ने नय सुपथा ॰
    • अभिवाद्य नमस्कुरु
  • प्रदक्षिणापूर्वक-साष्टाङ्गनमस्कारः।
  • अक्षता क्षेपेण ज्वालायाम्।
    • “ॐ गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर। यत्र ब्रम्हादयो देवा: तत्र गच्छ हुताशन ||”