आहुति-तन्त्रम्

आहुतिषु साधारणं तन्त्रम्

प्रधान-दर्वी-पूरणम्

  • उदाहरणं सृक्
  • वामहस्ते स्रुचं स्थापयित्वा
  • आज्यम् स्रुवेण वा ओदनसदृशं हविः हस्तेन वा पूरयित्वा
  • स्थालीपाके सिद्धम् उदाहरणम् एतेषाम् - उपादानम्
  • दक्षिणहस्तेन गृहीतेन प्रधान-दर्व्या जुहोति

द्रव्य-त्यागः

  • भावः
    • गृहीतृ-देवताकल्पनम् स्यात्
  • मन्त्राः
    • यत् तूष्णीं जुहोति, तत् प्रजापतये भवति।
  • आज्येतर-हवींषि भिन्न-भिन्न-स्थानेषु स्पर्शं विना स्युः। विशिष्य स्विष्टकृदाहुतिः।
    • प्रयोजनम्
      • अनेन धूमोऽपि न्यूनः।
      • अग्नि-नाशो ऽपि विरलतया
  • चमस-वर्तन-दिशा
    • वामम् वर्तनम् दैवाहुतिषु
    • दक्षिणं वर्तनम् पित्राहुतिषु

श्रौते विस्तृत-प्रक्रिया

  • “अमुकाय देवाय ब्रूही"ति अध्वर्योः प्रैषः
  • हविरादानं प्रधानदर्व्याम् अध्वर्युणा + होत्रा मन्त्रवचनम्
  • ततः कुण्डोपान्ते स्थितेन अध्वर्युणा “आश्रावय” इति वचनम्
  • ततो अग्नीधा स्फ्यपाणिना “अस्तु श्रौषट्” इति वचनम्
  • ततः होत्रा “ए यजामहे”-इत्यादि-देवतामन्त्रवचनम् उच्च-वौषट्-अन्तम्।
  • तत आहुतिर् अध्वर्युणा
  • ततो यजमानेन त्यागवचनम्, स्वाशीर्वचनम्
  • ततः ब्राह्मणस्यानुमन्त्रणम्

स्मार्ते सङ्कुचित-प्रक्रिया

  • मन्त्रान् उचितान् वदन् स्वाहेत्यर्पयेद्धविषम्। अन्तिम-हविर्दाने तु वषट्कारः।

प्रकीर्णविषयाः

  • आहुति-गणनार्थं जपमाला
  • समिधस् समर्पणम्
    • अज्ये ऽभिघार्य अथवा ऽग्रभागम् निमज्ज्याग्नौ स्थापनम्
    • क्षीणश् चेदग्निः अधिकं लिप्ता स्यात् समित्
  • देवता-क्रमः तान्त्रिकहोमेषु
    • अमुक-देवता-परिवाराय आहुतयः।
    • प्रधानाहुतयः