नित्य-कर्माणि भगवद्-आज्ञया यथाशक्त्य् अनुष्ठेयानि।
किञ्चाशक्यं कर्म शास्त्रं नोपदिशेत्।
“स्नानं सप्तविधम् प्रोक्तम्” इत्यादौ मानसिकस्नानान्तो ऽवकाशश् शास्त्रेण दत्तः, येन सन्दर्भानुसारेणानुकल्पग्रहणं शक्यम्।
मन्ये न केवलम् एतत् स्नान-विषयकम्,
अपि तु यस्य कस्यचिद् अपि नित्य-कर्मण उपलक्षणम्।
भीष्मेण युद्धभूमौ मृदा ऽर्घ्यं दत्तं स्मरन्ति।
वैकल्यम्
“अविधिना कृतम् अकृतम् एव” इति केचिद् आचक्षते।
अन्ये तु शिष्टाः केचन “कृतस्य करणं नास्ति हुतस्य हवनं तथा” इति न्यायान्तरं सञ्चारयन्ति, येन कर्मवैकल्यम् अभ्युपेत्य, विकलांशपूरणमात्रं सप्रायश्चित्तं विदधति।