पवित्रवस्तूनि यदा विसृज्यन्ते,
तदा यथा तद्-अवमाननं न स्यात्,
तथा विसृजेत्।
यथाहुः -
उपवीतं भिन्नतन्तु जीर्णं कश्मलदूषितम्।
विसृजामि जले ब्रह्मवर्चो दीर्घायुरस्तु मे॥(इति जीर्णमुपवीतं जले विसृज्य आचामेत्॥)
इत्य् अनन्तरामशास्त्री।
तत्तत्कर्मसमाप्तौ सायं सन्ध्यायां व्याहृतीभिर्बन्धनसूत्रं विस्रस्य नद्यां तटाकादौ वा त्यजेत्॥
इति प्रतिसरबन्धप्रकरणे मुद्दु-श्रौती।