उपवीतपरिवर्तनम्

धारणम्

  • दक्षिणहस्ते यज्ञोपवीत-ब्रह्म-ग्रन्थिः स्याद् अधोवर्ती,
    यथा धृतः सम्यक् स्यात्।
    तत्र ग्रन्थौ गोमुखं दक्षिणमीक्षेत।
  • यज्ञोपवीत-धारण-मन्त्र-न्यासः (ब्रह्मा ऋषिः त्रिश्टुप् छन्दः त्रयीविद्या देवता)।

“यज्ञोपवीतम् परमं पवित्रं,
प्रजापतेर् यत् सहजम् पुरस्तात्।
आयुष्यम् अग्र्यम् प्रतिमुञ्च शुभ्रम्,
यज्ञोपवीतम् बलम् अस्तु तेजः॥” (पार. गृ.सू. 2.2.11)

  • आचमनम्। गृहस्थश् चेद् एकम् अन्यद् यज्ञोपवीतम् ईदृशं एव धारयेत्।

पुरातनयज्ञोपवीतनिष्कासनविधिः

उपवीतं छिन्नतन्तु,
जीर्णं कश्मल-दूषितम्।
विसृजामि पुनर् ब्रह्मन्,
वर्चो दीर्घायुर् अस्तु मे।

  • दूषितं यज्ञोपवीतं विसृजतु वृक्षमूल-सदृशे स्थले।