मन्त्रवचनम्

  • यज्ञकर्मण्यजपन्यूङ्खसामसु (एकश्रुतिः)। इति पाणिनिः।
  • “उपांशु यजुर्वेदेन ९” इत्य् आपस्तम्बः। निगदः - ऋक्-साम-भिन्नाः ये स्फुटम् उच्यन्ते।
  • आश्वलायनगृह्यसूत्र-नारायण-वृत्तौ - “गृह्यकर्मणि सर्वत्र जप+अनुमन्त्रण+अभिमन्त्रण+उपस्थानमन्त्र-करणमन्त्रा उपांशु प्रयोक्तव्या”।

अभिप्रायान्तरम्

नागेशभट्टस्याभिप्रायो ऽत्र -

(साधारण-यजुष्षु) एकश्रुतौ धर्माधिक्यं बोध्यम् ।
‘वैकल्पिकेष्व् आदितो ऽवधारणम्’ इति न्यायात्
संकल्प-काले एतद्-अन्यतरोल्लेख आवश्यकः ।

यज्ञ-शब्देन यजति-चोदना-चोदितानाम् एव ग्रहणम्
इति स्मार्तेषु स्थालीपाकोपाकर्मादि-प्रयोगेषु नैकश्रुत्यम्।

नात्र “उपांशु यजुर्वेदेन” इत्य् आपस्तम्बोक्तिर् विचारितेति दोषः।