स्रोतः - स्थानेश्चर आचार्यः।
प्रामुख्यम्
प्रश्नः -
मन्त्राणां जपेन न्यास-तर्पणार्हणादिभिश् च देव-साक्षात्कारो भवतीति प्रसिद्धम्।
नाम, मन्त्रा देवेषु ध्यानं सम्पादयन्तीति फलितं खलु?
एवं तर्हि, ध्यानम् प्रधानम्, मन्त्रो गौणः, मन्त्रोपदेशप्रकारादिकं ततोऽपि गौणम्।
नाम, ध्याने प्रतिभा-विशेषेण सुलभतरे सति,
गौणांशानाम् उपेक्षायां न महती क्षतिः।
अपीदं सम्यग् अधिगतम्?
स्थानेश्वरो ऽत्र -
अत्र मतभेदा भवन्ति।
इदानिन्तनास् तु किं कुर्वन्तीति न गणनार्हाः।
वैदिकदृष्ट्या मन्त्राणां ध्यानतः प्राधान्यम्।
आगमिकदृष्ट्या अपि तथैव।
अन्यथा पुरश्चरणविधानं व्यर्थम्।
यदि ध्यान एव प्रधानः देवता एव प्रधाना
तर्हि मन्त्रा गौणाः निष्प्रयोजनाश्च भवेयुः।
पुनश्च यदि मन्त्रा देवता-सान्निध्य-हेतवस्
तर्हि तेऽपि ख्रिस्तु-प्रेयर्-वत् स्वयम् असमर्था
बालाह्वन-शब्द-वत् तेषामपि शक्तिः
परेषाम् आह्वान एव क्षीणाकांक्षा भवेयुः।
अत अहं “हार्ड्कोर” मीमांसा-मतम् अवलम्ब्य
“मन्त्रो वै देवता” इत्य् अनुशीलयन् भवन्तं पुरश्चरणे प्रेरयामि।
पुरश्चरणम् अनत्यल्प-कल्पना-शक्तिमताम् अपि प्रयोजनायेति,
(मन्त्रजातं) देवता-शरीरत्वेन सादरं सङ्ग्राह्यम्
इति च सुगृहीतम् 🙏
यद्यपि वेदेषु मानस-जपस्य प्रायो विधानं न ज्ञातम्,
उपांषुजपस् तु दृश्यत एव।
पुरश्चरणस्यापि न वेदेषु व्यवस्था यथा तन्त्रेषु,
परन्तु तत्रापि नित्यपारायणस्य त्वस्त्येव व्यवस्था।
काम्य-प्रयोगः
काम्य-प्रयोगस्य प्रायो निषेधः साधकानां कृते।
परन्तु विना पुरश्चरणं काम्यप्रयोगो न भवति, यदि प्रयुज्यते चेद् अपि।
मन्त्र-दानम्
एवम् आचरितम् - समाहितमना आचार्यो दक्षिणदिशि शिष्याभिमुखो दक्षिणामूर्तिं ध्यायति। ततः शिष्यं पित्रोर् ध्याने ऽनुज्ञाप्राप्तौ च चोदयति। ततो बहुवारं मन्त्रं वादयति। ततः पुरश्चरण-निर्देशं ददाति।
पुरश्चरण-निर्देशः
मन्त्रोपदेशात् परं दिनत्रयम् १०८ वारम् उच्चैर् दक्षिणकर्णेन शृण्वन् जपेत्।
दिनत्रयानन्तरं हृदि मनसा जपप्रयासः कार्यः
(कपोले न तावत्। प्रगतस्थिताव् उदरे भवति। लेखनकल्पनम् अपि शक्यम्। )।
पुनश् च क्वचिन् मध्ये मध्ये उच्छैः स्वरेण पठनीयो यदि चित्तविक्षेपो भवेत्।
पुनश् च सप्ताहान्ते शक्यते चेत् पञ्चशतं वा सहस्रसङ्ख्याकं वा देव्या जपः वर्धनीयः।
न शक्यते चेत् यावत्कालपर्यन्तम् अष्टोत्तरशतम् एव जपः कार्यः।
अटनादिसमये यदि जपो विधीयते तस्य सङ्ख्यागणना पुरश्चरणाद्यर्थम् न भवति।
पुनश् च जीवन-रक्षणार्थं यानादिचालन-समये जपो न कार्यः;
यतः मन्त्र-जपः यदा मनसि धारयितुं शक्यते तदैव कार्यः।
नाम-जपादिकम् तु सर्वदैव बहिर् विक्षेपेऽपि शक्य-कार्यः वामनकृतः संवित्-प्रकाशः पठनीयः।
दशांश-होमादौ
विषयान्तरे भाषमाणः कश्चनाभ्यागतो ऽवदत् - “जपेन साकं दशांशं होमस् तर्पणं च कार्यम्” इति। अपि नित्यजपरीत्याऽभ्यस्यमान-नवार्ण-विषये तथा कृते किञ्चन गणनीयम् प्रयोजनम्? (यथाकथञ्चिद् गृह्यसूत्रोक्त-दर्श-पूर्णमास-स्थापिपाकाभ्यां जुहोमि - तन्त्रेणाज्याहुतीः काश्चिद् दातुं शक्यम् …)
दशांश-हवन-विधिः शास्त्रसम्मतः।
परन्त्व् अस्मिन् काले, पुरापि,
द्रव्य-व्यवस्थानासमर्थाश् छात्रा यतयो मुनयश् च
नाग्निविधिं कर्तुम् अर्हाः।
अस्मत्कृते च गुरूपदेशः -
हवनं यथाशक्यम्,
परन्तु, हवन-तर्पण-मार्जन-निमित्तको जप एव विधातव्यः
इत्य् उपदेशः। अस्माभिश् च तथैव पाठ्यते।