स्थानेश्वर-निर्देशो ऽत्र ।
प्रकार-भेदः
मन्त्र-स्मृतेर् व्यत्यासः
अध उच्यमाना नियमाः पृथक्-कृत-कर्मण्य् एवान्वेति।
मन्त्र-स्मृति-मात्रात् तद् भिद्यते।
नित्य-जपाद् भेदः
मन्त्रसाधने हि द्वाव् उपायौ - यावज्जीवं नियतो जपः, पुरश्चरण-रूपश्च।
ऐहिके काम्यप्रयोगे तु
पुरश्चरणं विना नाधिकारः।
आमुष्मिक-मात्रार्थे
पुरश्चरणं विनाऽपि
नित्य-जप-मात्रेण निर्वाह
इति स्थितिः ॥
इति भास्कर-रायः॥
शरीर-स्थितिः
अन्यत्र -
न च क्रमन् न च हसन्
न पार्श्वम् अवलोकयन् ।
न पदा पदम् आक्रम्य
न चैव हि तथा करौ ।
हस्तौ
कृत्वोत्तानकरौ प्रातः
सायं चाधोमुखौ करौ ।
मध्ये स्कन्ध-भुजाभ्यां तु
जप एवम् उदाहृतः ।
अङ्गुलीर् न वियुञ्जीतकिञ्चिदाकुञ्चिते तले ।
अङ्गुलीनां वियोगे तु
छिद्रे तु स्रवते जपः ।
नाधोरत्निर् नान्यमनाः
न च व्यत्यस्त-पत्-करः ।
वेषः
अपवित्रकरोऽशुद्धः
प्रलपन् न जपेत् क्वचित् ।
अ-प्रावृत-करो वापि
शिरसि प्रावृतोऽपि च ॥
खण्ड-वस्त्रावृतस्यैव
वस्त्रार्धालम्भिनस् तथा ।
उत्तरीय-व्यतीतस्य
समस्ता निष्फलाः क्रियाः ॥
नारदीये श्रीमद्-अष्टाक्षर-ब्रह्म-विद्यायां -
सङ्ख्याताद् अपि साहस्रः
सोर्ध्वपुण्ड्रतनोर् जपः ॥
मनःस्थितिः
मनः प्रहर्षणं शौचं
मौनं मन्त्रार्थचिन्तनम् ।
अव्यग्रत्वम् अनिर्वेदो
जपसम्पत्ति-हेतवः ।
निष्ठीवं जृम्भणं कोधो
निद्रालस्य-क्षुधा-मदः ।
पतित-श्वाऽन्त्यजालोकाः
दशैते जपवैरिणः ॥
स्थानम्
सावित्र्यादिक्रियास् सर्वा
आदित्याभिमुखश् चरेत् ।
देवालयसमीपे तु
तम् एवाभिमुखश् चरेत् ।
जप-स्थानान् न निर्गच्छेत्
देवतासन्निधौ क्वचित् ।
प्रदक्षिण-नमस्कारं
न कुर्याद् देवतालये ॥
न्यासः
मन्त्राणां करन्यासः, ततो ऽङ्गन्यासः प्रशस्तः।
ननु शरीरस्थ-जीवस्य जप्य-मन्त्रेशेन +ऐक्यं साध्यतेतरां तेन।
पाञ्चरात्रिकास् तत्राश्रमभेदेन सृष्टि-स्थिति-संकार-न्यासान् दिशन्ति।
सङ्ख्यानम्
असंख्यातात् तु संख्यातः
सहस्रगुण ईरितः
जयाख्य-संहितायां -
जपन्तु द्विविधं कुर्याद्
अक्षसूत्र-करार्पितम् ।
उच्चता
श्रीमद्-अष्टाक्षर-विधाव् एवमुक्तम् –
क्रिया-यागाच् छतगुणो
जप-यज्ञः प्रकीर्तितः ।
उच्चाच् छतगुणो ज्ञेयः
उपांशुश् चेत् स्मृतस्सदा ।
उपांशोर् मानसः प्रोक्तः
सहस्रं गुणतोऽधिकः ॥
इति ।
आतिथ्यादि
श्रीमद्-अष्टाक्षर-विधाव् एवमुक्तम् –
जपमध्ये गुरुर् वापि
वैष्णवो यस् समागतः ।
सम्भाषणादि-पूजान् तु
तस्य कृत्वानुमान्य च ।
अनुज्ञाप्य ततः कृत्वा
जपशेषं समाहितः ।सर्वस्य प्रभवो यस्मात्
विष्णुपादाश्रया नराः ।
तन्-मूलतः क्रियास् सर्वाः
सफलास्तु भवन्ति हि ॥