शमी-गर्भोऽश्वत्थः

कात्यायनस्मृतेः -

संसक्तमूलो यः शम्याः स शमीगर्भ उच्यते
अलाभे त्वशमीगर्भादुद्धरेदविलम्बितः ३

भागवते -

स्थाली-स्थानं गतोऽश्वत्थं शमी-गर्भं विलक्ष्य सः । तेन द्वे अरणी कृत्वा उर्वशी-लोक-काम्यया ॥

श्रीधरः :

ततः स्थाली-स्थानं गतः सन् शम्या गर्भे जातम् अश्वत्थं विलक्ष्य अस्मिन्न् असाव् अग्निर् अस्तीति विशेषेण लक्षयित्वा तेनाश्वत्थेन द्वे अरणी कृत्वाऽग्निं ममन्थेति शेषः । शमी-गर्भाद् अग्निं ममन्थ इति श्रुतिः ॥४४॥

अपरा व्याख्या -

तदर्थं विचार्याग्निस्थालीप्रदानेऽभिप्रायं ज्ञात्वाऽग्निस्थालीस्थानं गतः । तत्र सः पुरूरवाः शमीगर्भं शमीवृक्षेणाधिष्ठितमश्वत्थं विलक्ष्य विशेषतो दृष्ट्वा स्थाली शमी जाताऽग्निस्त्वश्वत्थो जात इति विज्ञाय शमीगर्भमश्वत्थं छित्वा तेन शमीगर्भाश्वत्थेन द्वेऽरणी कृत्वोत्तराधरारणिभेदेन निधाय । अरणिं ममन्थेति शेषः ॥ ४६ ॥

अन्यत्र -

शमी के वृक्ष पर उगे हुए (शमीगर्भ) पीपल के वृक्ष की पूर्वमुख या उत्तरमुख या ऊपर को फैली हुई शाखा को पीछे की ओर ताके बिना काटकर उस लकडी से अरणियों का निर्माण किया जाता है।