प्रमाण-स्रोतः
प्रमाण-वाक्यानि
- आपस्तम्बः - “खादिरं पालाशं वैकविंशति-दारुम् +++(तेष्वाघारौ २, परिध्यर्थाः ३, अनूयाज-समिच्च १)+++ इध्मं करोति ६”
- होमीय-समिल्-लक्षणं मत्स्य-पुराणे - “प्रादेश-मात्राः सशिखाः सवल्काश् च पलासिनीः । समिधः कल्पयेत् प्राज्ञः सर्व्व-कर्म्मसु सर्व्वदा ॥”
- लक्षणान्तरं यथा, छन्दोग-परिशिष्टम् । “नाङ्गुष्ठाद् अधिका न्यूना समित् स्थूलतया क्वचित् । न निर्म्मुक्त-त्वचा चैव न सकीटा न पाटिता ॥”
स्थूलता
- कात्यायनः - तर्जनीव स्थूला।
- अपरार्कः - नाङ्गुष्ठाद् अधिकाः कार्या समित् स्थूलतया क्वचित्
- “नाङ्गुष्ठादधिका न्यूना समित् स्थूलतया क्वचित् ।” इति क्वचित्।
- इध्म-परिमाणय् इतोऽपि
- २-प्रादेश-मात्रम् इति कात्यायनः। प्रादेश-मात्रम् इति बोधायनः।
- प्रादेशात् नाधिका नोना न तथा स्याद्विशाखिका । न सपत्रा न निर्वीर्य्या होमेषु च विजानता ॥" इति संस्कारतत्त्वम् ॥
अत्र दोषो यथा
- “विशीर्णायुःक्षयं कुर्य्याद्बिदला पुत्त्रनाशिनी । ह्स्वा नाशयते पत्नीं वक्रा बन्धुविनाशिनी ॥
कृमिदष्टा रोगकरी विद्वेषकरणी द्विधा । पशून् मारयते दीर्घा स्थूला चार्थविनाशिनी ॥” इति तन्त्रम् ॥ - तस्य निषिद्धलक्षणं यथा, – “विशीर्णा विदला ह्रस्वा वक्राः स्थूला द्विधा- कृताः । कृमिदष्टाश्च दीर्घाश्च समिधो नैव कारयेत् ॥”
- “नाङ्गुष्ठादधिका न्यूना समित् स्थूलतया क्वचित् । न निर्म्मुक्तत्वचा चैव न सकीटा न पाटिता ॥ प्रादेशात् नाधिका नोना न तथा स्याद्द्विशाखिका । न सपत्रा न निर्वीर्य्या होमेषु च विजानता ॥” इति संस्कारतत्त्वम्
- अपाटिता अद्विशिखाः स्युः
स्रोतो-वृक्षः
- जैमिनीयाः- खादिरः पालाशो वेध्मस्, तदलाभे विभीतक+++(=Terminalia bellirica)+++-तिल्वक+++(=Symplocos racemosa)+++-बाधक-निम्ब-राजवृक्ष+++(=आरग्वध)+++-शल्मल्य्+++(=ಬೂರುಗದ ಮರ, silk-cotton)+++-अरलु+++(=Bignonia Indica)+++-दधित्थ+++(=wood-apple)+++-कोविदार+++(=Bauhinia variegata)+++-श्लेष्मातक+++(=Cordia latifolia)+++-वर्जं सर्ववनस्पतीनाम् इध्मः
- अत्र वनस्पतिशब्देन विभीतकादयो ऽपि गृहीताः खलु। विभीतकस्य तु पुष्पाणि भवन्त्य् एव। तेनात्र सुश्रुतोक्त-वनस्पति-शब्दार्थो (“अपुष्पाः फलवन्तो वनस्पतयः” इति) न ग्राह्यः।
- नवग्रहाणां समिधो यथा - “अर्कः पलाशः खदिरस् त्व् अपामार्गोऽथ पिप्पलः । उदुम्बरः शमी दूर्व्वाः कुशाश्च समिधः क्रमात् ॥” इति संस्कार-तत्त्वे याज्ञवल्क्य-वचनम् ॥
गुणाः
- ऋजु-प्रायता
- उचितलम्बता - प्रादेशमात्रम्, समप्रायता इध्मे
- अविशीर्णता अनिर्वीर्यता अकृमिदष्टता
- अनिर्मुक्तवल्काः
- अनतिस्थूलता
- अङ्गुष्ठाद् अपि न्यूना स्यात्
- अन्यूनस्थूलता
- अङ्गुलीव स्यात्
अभावे प्रतिनिधयः
- दर्भो वा दर्भद्वयं वा। इत्याचारः। प्रामाण्यम् अन्वेष्टव्यम्
समित्-प्राप्तिः
- स्वयं सङ्ग्रहणम् उत्तमम् इति स्मृतिरत्नम्।
- विपणेभ्यः
- भारतेषु
- बेङ्गळूरुनगरे २०रु = २०समिधः
- भारतेषु
- सङ्ग्रहणम्
- पतिता वृक्षमूलेषु
- भूरिवृष्टिप्रदेशेषु - यत्र भूम्यसमत्वाद् वा वृक्षच्छायाया वा गुप्ता मूलप्रदेशाः
- तक्षणम्
- pruning shears = 1in pruners > saw इत्यादेर् उपयोगेन सूक्ष्मकर्म।
- स्थूलकर्तनम् हस्ताभ्याम्
बॆङ्गळूरुनगरे क्रयणम्
- They sell in units of cuts (25-30 samits, though some lying / confused shopkeepers may claim 40/ 50).
- shops
- shops in 8th cross Malleswaram
- bhadrayya, rAjAjinagar
- Reviews
- cost 20 per cut in 2019. No significant price difference between bhadrayya and malleshvaram.
- The samits I got from malleshvaram were markedly inferior compared to what I got from bhadrayya in previous years - older, dusty, some with worm holes and partially shredded barks.