समित्-लक्षणम्

प्रमाण-स्रोतः

  • संस्काररत्नमालायाम् अत्र
  • स्मृतिमुक्ताफले ऽत्र
  • काणेग्रन्थे ऽत्र
  • वाचस्पत्यम्, कल्पद्रुमः।

प्रमाण-वाक्यानि

  • आपस्तम्बः - “खादिरं पालाशं वैकविंशति-दारुम् +++(तेष्वाघारौ २, परिध्यर्थाः ३, अनूयाज-समिच्च १)+++ इध्मं करोति ६”
  • होमीय-समिल्-लक्षणं मत्स्य-पुराणे - “प्रादेश-मात्राः सशिखाः सवल्काश् च पलासिनीः । समिधः कल्पयेत् प्राज्ञः सर्व्व-कर्म्मसु सर्व्वदा ॥”
  • लक्षणान्तरं यथा, छन्दोग-परिशिष्टम् । “नाङ्गुष्ठाद् अधिका न्यूना समित् स्थूलतया क्वचित् । न निर्म्मुक्त-त्वचा चैव न सकीटा न पाटिता ॥”

स्थूलता

  • कात्यायनः - तर्जनीव स्थूला।
  • अपरार्कः - नाङ्गुष्ठाद् अधिकाः कार्या समित् स्थूलतया क्वचित्
  • “नाङ्गुष्ठादधिका न्यूना समित् स्थूलतया क्वचित् ।” इति क्वचित्।
  • इध्म-परिमाणय् इतोऽपि
  • २-प्रादेश-मात्रम् इति कात्यायनः। प्रादेश-मात्रम् इति बोधायनः।
    • प्रादेशात् नाधिका नोना न तथा स्याद्विशाखिका । न सपत्रा न निर्वीर्य्या होमेषु च विजानता ॥" इति संस्कारतत्त्वम् ॥

अत्र दोषो यथा

  • “विशीर्णायुःक्षयं कुर्य्याद्बिदला पुत्त्रनाशिनी । ह्स्वा नाशयते पत्नीं वक्रा बन्धुविनाशिनी ॥
    कृमिदष्टा रोगकरी विद्वेषकरणी द्विधा । पशून् मारयते दीर्घा स्थूला चार्थविनाशिनी ॥” इति तन्त्रम् ॥
  • तस्य निषिद्धलक्षणं यथा, – “विशीर्णा विदला ह्रस्वा वक्राः स्थूला द्विधा- कृताः । कृमिदष्टाश्च दीर्घाश्च समिधो नैव कारयेत् ॥”
  • “नाङ्गुष्ठादधिका न्यूना समित् स्थूलतया क्वचित् । न निर्म्मुक्तत्वचा चैव न सकीटा न पाटिता ॥ प्रादेशात् नाधिका नोना न तथा स्याद्द्विशाखिका । न सपत्रा न निर्वीर्य्या होमेषु च विजानता ॥” इति संस्कारतत्त्वम्
  • अपाटिता अद्विशिखाः स्युः

स्रोतो-वृक्षः

  • जैमिनीयाः- खादिरः पालाशो वेध्मस्, तदलाभे विभीतक+++(=Terminalia bellirica)+++-तिल्वक+++(=Symplocos racemosa)+++-बाधक-निम्ब-राजवृक्ष+++(=आरग्वध)+++-शल्मल्य्+++(=ಬೂರುಗದ ಮರ, silk-cotton)+++-अरलु+++(=Bignonia Indica)+++-दधित्थ+++(=wood-apple)+++-कोविदार+++(=Bauhinia variegata)+++-श्लेष्मातक+++(=Cordia latifolia)+++-वर्जं सर्ववनस्पतीनाम् इध्मः
    • अत्र वनस्पतिशब्देन विभीतकादयो ऽपि गृहीताः खलु। विभीतकस्य तु पुष्पाणि भवन्त्य् एव। तेनात्र सुश्रुतोक्त-वनस्पति-शब्दार्थो (“अपुष्पाः फलवन्तो वनस्पतयः” इति) न ग्राह्यः।
  • नवग्रहाणां समिधो यथा - “अर्कः पलाशः खदिरस् त्व् अपामार्गोऽथ पिप्पलः । उदुम्बरः शमी दूर्व्वाः कुशाश्च समिधः क्रमात् ॥” इति संस्कार-तत्त्वे याज्ञवल्क्य-वचनम् ॥

गुणाः

  • ऋजु-प्रायता
  • उचितलम्बता - प्रादेशमात्रम्, समप्रायता इध्मे
  • अविशीर्णता अनिर्वीर्यता अकृमिदष्टता
  • अनिर्मुक्तवल्काः
  • अनतिस्थूलता
    • अङ्गुष्ठाद् अपि न्यूना स्यात्
  • अन्यूनस्थूलता
    • अङ्गुलीव स्यात्

अभावे प्रतिनिधयः

  • दर्भो वा दर्भद्वयं वा। इत्याचारः। प्रामाण्यम् अन्वेष्टव्यम्

समित्-प्राप्तिः

  • स्वयं सङ्ग्रहणम् उत्तमम् इति स्मृतिरत्नम्
  • विपणेभ्यः
    • भारतेषु
      • बेङ्गळूरुनगरे २०रु = २०समिधः
  • सङ्ग्रहणम्
    • पतिता वृक्षमूलेषु
    • भूरिवृष्टिप्रदेशेषु - यत्र भूम्यसमत्वाद् वा वृक्षच्छायाया वा गुप्ता मूलप्रदेशाः
  • तक्षणम्
    • pruning shears = 1in pruners > saw इत्यादेर् उपयोगेन सूक्ष्मकर्म।
    • स्थूलकर्तनम् हस्ताभ्याम्

बॆङ्गळूरुनगरे क्रयणम्

  • They sell in units of cuts (25-30 samits, though some lying / confused shopkeepers may claim 40/ 50).
  • shops
    • shops in 8th cross Malleswaram
    • bhadrayya, rAjAjinagar
  • Reviews
    • cost 20 per cut in 2019. No significant price difference between bhadrayya and malleshvaram.
    • The samits I got from malleshvaram were markedly inferior compared to what I got from bhadrayya in previous years - older, dusty, some with worm holes and partially shredded barks.