लक्षण-प्राप्त्य्-आदिविषयो ऽन्यत्र।
आहरणम्
उचितदिनानि
हारितो माघे नभस्य् (श्रावणे) च +अमावास्ये प्रशंसति।
अत्र +आर्तवमास उच्यते ऽयनारम्भसमीपवर्ती।
तत्र सौरमासम् अनुसरन्ति द्राविडाः।
माघे नभस्य् अमा या स्यात् तस्यां दर्भोच्चयो मतः।
अयातयामास् ते दर्भाः नियोज्यास् स्युः पुनः पुनः॥
मन्त्रः
विरिञ्चिना सहोत्पन्न
परमेष्ठि निसर्गज।
नुद सर्वाणि पापानि
दर्भ स्वस्तिकरो मम॥