विषयः
दक्षिण-भू-कटाहेय् आर्षैः कर्म कथम् कार्यम्
इत्यत्र स्वाभिप्रायः प्रस्तूयते - परिष्कारान् प्रार्थयामहे।
कर्म-भूमिः (द्रष्टुं नोद्यम्)
“भारताद् बहिर् न कर्मोचिता भूमिर्” इति वादम् उपेक्षामहे।
आर्यावर्त-लक्षणान्य् अन्यत्रापि लभ्यानि बहूनि।
भारत-पर-शास्त्र-वाक्यान्य् उपलक्षणत्वेन ग्राह्याणि।
ननु बलि-द्वीपो ऽपि चातुर्-वर्ण्यादि-धर्म-युक्तो दक्षिण-कटाह-स्थो दृश्यते।
उत्तर-कटाहाचाराः
प्राचीना ऋषयः पूर्वजाश् च
+उत्तर-कटाहे (northern hemisphere) ऽवसन्,
यत्र +उत्तरायणे हि दिनानि लम्बानि,
Coriolis effect इति प्रदक्षिणक्रमो वायौ जले च दृश्यते।
तैस् तद्-अनुरोधेन धर्माचारा उक्ताः।
तद् यथा -
- देव-कर्मसु -
- दर्भा प्राग्-अग्रा उदग्-अग्राश् च स्युः।
उपक्रमोपसंहारौ प्राचि उदीच्यां वा स्याताम् ।
भू-प्रवणताऽपि तथा।
प्रदक्षिणं कर्म कार्यम्। - उत्तरायणे कार्यम्।
विधि-प्राप्ति-कालीनान्य् एव विषुवारब्ध+उत्तरायण-नक्षत्राणि ग्राह्याणि।
पूर्वाह्णे कार्यम्।
- दर्भा प्राग्-अग्रा उदग्-अग्राश् च स्युः।
- पितृकर्मसु
- दर्भा प्राग्-अग्रा दक्षिणाग्राश् च स्युः।
उपक्रमोपसंहारौ दक्षिणे स्याताम् ।
प्रसव्यं कर्म कार्यम्। - दक्षिणायने कार्यम्, अपराह्णे च।
- दर्भा प्राग्-अग्रा दक्षिणाग्राश् च स्युः।
उत्तरायण-शब्दार्थः (द्रष्टुं नोद्यम्)
अवधेयम् - यथा तिलक-बालगङ्गाधरेण प्रतिपादितम् -
उत्तरायण-शब्दस्य विषुवारम्भः काल इत्य् अर्थोऽपि क्वचिद् वर्तते,
यद्य् अपि लोके ऽन्यत्र च विषुवमध्यः काल इत्य् अर्थः।
अग्निर्ज्योतिरहःशुक्लः षण्मासा उत्तरायणम्।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥
इत्यादिषु तत्-तत्-कालाभिमानि-देवता ह्य् उत्तरायण-शब्द-वाच्येति ब्रह्म-सूत्र-निश्चयः।
दक्षिण-कटाहाचाराः
दक्षिण-भू-कटाहे वसद्भिः कथम् आचरणीयम्
यत्र +दक्षिणायने हि दिनानि लम्बानि,
Coriolis effect इति प्रसव्य-क्रमो वायौ जले च दृश्यते।
- देव-कर्मसु
- दर्भा प्राग्-अग्रा दक्षिणाग्राश् च स्युः।
उपक्रमोपसंहारौ प्राचि दक्षिणायां वा स्याताम् ।
भू-प्रवणताऽपि तथा।
प्रसव्यं कर्म कार्यम्। - दक्षिणायने कार्यम्।
विधि-प्राप्ति-कालीनान्य् एव विषुवारब्ध-दक्षिणायन-नक्षत्राणि ग्राह्याणि। पूर्वाह्णे कार्यम्।
- दर्भा प्राग्-अग्रा दक्षिणाग्राश् च स्युः।
- पितृ-कर्मसु
- दर्भा प्राग्-अग्रा उदग्-अग्राश् च स्युः।
उपक्रमोपसंहाराव् उत्तरे स्याताम् ।
प्रदक्षिणं कर्म कार्यम्। - उत्तरायणे कार्यम्, अपराह्णे च।
- एवं श्रौत-कर्मणि दक्षिणाग्निर् उत्तरे स्याद् वेति चिन्तनीयम्??
- दर्भा प्राग्-अग्रा उदग्-अग्राश् च स्युः।
देश-काल-भेदेन +ऋतवः परिवर्तन्ते।
तत आर्तवान्य् आचरणानि परिणमन्ति।
शरीर-गतादि-नियमेषु तु भेदो न वर्तेत
- देव-पितॄषि-तीर्थानि तान्य् एव।
- उपवीत-भेदास् त एव।
- नैरृत्यां दिश्य् उक्तानि तत्रैव कार्याणि??
प्रकृत्या सम्बन्धस्य रक्षणम्
Better to just move festival timings (eg. daxiNAyana = deva-karma-time in SH) - but on what basis?
Just throw away theory of sun being in deva-naxatra as having been relevent to some past time-place?
If they felt need to connect ritual direction and solar direction - we should too.
What happens in ritual reflects what happens in the nature - connection is critical.
So, clear understanding of theory is a goal in itself,
with ritual adjustments logically following.
दिग्-आदि-सापेक्षता कुतः?
In each hemisphere - when you perform deva-karmas (eg. AdhAna, upanayana in spring) => when sun is in deva-naxatras => what’s deva-yAna. Sun defines.
संज्ञा-स्थिरता
Can’t call south as north - already fixed relative to east.
There’s a traditional tropical-lunar calendar (small following in nepAL) which says it’s bhAdrapada on Jul 11 2024 (rather than AShADha). Folks haven’t taken to it despite “uttarAyana” now being absurd.
Equator
equator is fuzzy zone - there things can be north-like given proximal influence.
bali-dvIpa is in southern hemisphere close to equator - I suppose they might have north-like practices?