भूत-शुद्धिर् गौतमीये

“सुषुम्नावर्त्मना “सोऽहम्”
इति मन्त्रेण योजयेत्
सहस्रारे शिव-स्थाने
परमात्मनि देशिकः ॥

धूम्र-वर्णं ततो वायु-
बीजं षड्-बिन्दु-लाञ्छितम् ।
पूरयेद् इडया वायुं
सुधीः षोडश-मात्रया ॥
मात्रया तु चतुःषष्ट्या
कुम्भयेच् च सुषुम्नया ।
द्वात्रिंशन्-मात्रया मन्त्री
रेचयेत् पिङ्गलाख्यया ॥

पूरयेद् अनया चैव
सञ्चिन्त्य नील-मारुतम् । रक्त-वर्णं वह्नि-बीजं
त्रि-कोणं स्वस्तिकान्वितम् ॥
तेन पूरक-योगेन
मात्रया षोडशाख्यया ।
चतुःषष्ट्या मात्रया च
निर्दहेत् कुम्भकेन च ।
वाम-पार्श्व-स्थितं पाप-
पुरुषं कज्जल-प्रभम् ।
ब्रह्म-हत्या-शिरस्कञ् च
स्वर्ण-स्तेय-भुज-द्वयम् ॥
सुरा-पान-हृदा युक्तं
गुरु-तल्प-कटि-द्वयम् ।
तत्-संसर्गि-पद-द्वन्द्वम्
अङ्ग-प्रत्यङ्ग-पातकम् ॥
उपपातक-रोमाणं
रक्त-श्मश्रु-विलोचनम् । खड्ग-चर्म्म-धरं क्रुद्धम्
एवं कुक्षौ विचिन्तयेत् ॥ मूलाधारोत्थितेनैव
वह्निना निर्दहेच् च तम् । एवं संदह्य परितो
द्वात्त्रिंशन्-मात्रया ततः ॥ भस्मना सहितं मन्त्री
रेचयेद् इडया पुनः ।

वामनाड्यां चन्द्र-बीजं (ठं)
कुन्देन्दु-युत-स-प्रभम् / कुन्देन्वयुतसन्निभम् ॥
भालेन्दु-राजे संयोज्य
ततः षोडश-मात्रया ।
सुषुम्नया चतुः-षष्टि-
मात्रया तोय-बीजकम् (वं)॥
ध्यात्वा ऽमृतमयीं वृष्टिं
पञ्चाशद्-वर्ण-रूपिणीम् । तया देहं विचिन्त्यैवं
मनसा पिङ्गलाध्वना ॥
द्वात्रिंशन्-मात्रया मन्त्री
लं-बीजेन दृढं नयेत्

स्वस्थाने हंस-मन्त्रेण
पुनस्तेनैव वर्त्मना ॥
जीवं तत्त्वानि चानीय
स्वस्थाने स्थापयेत् ततः ।
इति कृत्वा भूतशुद्धिं
मातृका-न्यासम् आचरेत् ॥ *