भूत-शुद्धौ कोशाः

कल्पद्रुमः

भूतशुद्धिः, स्त्री,
(भूतानां देहारम्भक-पृथिव्य्-आदि-पञ्चभूतानां शुद्धिः शोधनम् ।)
पूजादौ बीज-विशेष-द्वारा
वाम-कुक्षि-स्थित-पाप-पुरुष-दहन-पूर्व्वक-शरीर-शोधनम् ।
तत्-प्रयोगो यथा-

रम् इति जलधारया वह्निप्राकारं विचिन्त्य
स्वाङ्के उत्तानौ करौ कृत्वा
सोऽहमिति जीवात्मानं हृदय-स्थं दीप-कलिकाकारं
मूलाधार-स्थ-कुल-कुण्डलिन्या सह
सुषुम्ना-वर्त्मना
मूलाधार-स्वाधिष्ठान-मणिपुरकानाहत-विशुद्धाज्ञाख्य–षट्-चक्राणि भित्त्वा
शिरोऽवस्थिताधोमुख-सहस्र-दल-कमल-कर्णिकान्तर्गत-परमात्मनि संयोज्य
तत्रैव पृथिव्य्-अप्-तेजो-वाय्व्-आकाश-
गन्ध-रस-रूप-स्पर्श-शब्द-
नासिका-जिह्वा-चक्षुस्-त्वक्-श्रोत्र–
वाक्-पाणि-पाद-पायूपस्थ–
प्रकृति-मनो-बुद्ध्य्-अहङ्कार-रूप-
चतुर्-विंशति-तत्त्वानि लीनानि विभाव्य

यम् इति वायु-बीजं धूम्र-वर्णं वाम-नासा-पुटे विचिन्त्य
तस्य षोडष-वार-जपेन
वायुना देहम् आपूर्य्य
नासा-पुटौ धृत्वा
तस्य चतुःषष्टि-वार-जपेन कुम्भकं कृत्वा
वाम-कुक्षि-स्थ-कृष्ण-वर्ण-पाप-पुरुषेण सह देहं संशोष्य
तस्य द्वा-त्रिंशद्-वार-जपेन दक्षिण-नासया वायुं रेचयेत्

दक्षिण-नासा-पुटे रम् इति वह्नि-बीजं रक्त-वर्णं ध्यात्वा
तस्य षोडश-वार-जपेन
वायुना देहम् आपूर्य्य
नासा-पुटौ धृत्वा
तस्य चतुःषष्टि-वार-जपेन कुम्भकं कृत्वा
पाप-पुरुषेण सह देहं मूलाधारोत्थित-वह्निना दग्ध्वा
तस्य द्वात्रिंशद्-वार-जपेन
वाम-नासया भस्मना सह वायुं रेचयेत्

ठम् इति चन्द्र-बीजं शुक्ल-वर्णं वाम-नासायां ध्यात्वा
तस्य षोडश-वार-जपेन
ललाटे चन्द्रं नीत्वा
नासापुटौ धृत्वा
वम् इति वरुण-बीजस्य चतुः-षष्टि-वार-जपेन
तस्माल् ललाट-स्थ-चन्द्राद् गलित-सुधया मातृका-वर्णात्मिकया
समस्त-देहं विरचय्य
लम् इति पृथ्वी-बीजस्य द्वात्रिंशद्-वार-जपेन
देहं सुदृढं विचिन्त्य
दक्षिणेन वायुं रेचयेत् ।

मात्रासंख्यया वा ॥ * ॥+++(=??)+++

तदुक्तं गौतमीये ।

संक्षेप-भूत-शुद्धिर् यथा - पुरश्चरणचन्द्रिकायाम् -

“अथवान्य-प्रकारेण
भूत-शुद्धिर् विधीयते । धर्म्मकन्द-समुद्भूतं
ज्ञान-नाल-सुशोभनम् ॥
ऐश्वर्य्याष्ट-दलोपेतं
परं वैराग्य-कर्णिकम् ।
स्वीय-हृत्-कमले ध्यायेत्
प्रणवेन विकासितम् ॥ कृत्वा तत्-कर्णिका-संस्थं
प्रदीप-कलिका-निभम् । जीवात्मानं हृदि ध्यात्वा
मूले सञ्चिन्त्य कुण्डलीम् । सुषुम्नावर्त्मनात्मानं
परमात्मनि योजयेत् ॥”

इति तन्त्रसारः ॥

वाचस्पत्ये

भूतशुद्धि

भूतशुद्धि स्त्री०
भूतानां देहारम्भक-पृथिव्य्-आदीनां
शुद्धिर् भावना विशेषात् शोधनम् ।
तन्त्रादौ प्रसिद्धे देहारम्भक-चतुर्-विंशति-तत्त्वानां
भावना-विशेषेण संस्कारेण देव-रूपता-सम्पादने ।
भूत-शुद्धि-प्रकारस् तन्त्रसारे उक्तो, यथा गौतमीये

ततो हंस इति बीजं
हृदयम् आनीय
कुल-कुण्डलिनीं पृथिव्यादीनि च यथास्थाने स्थापयेत्
विशेषतस् तु शक्ति-विषये ।

हंस इति जीवादिकं परम-शिवे संयोज्य सोऽहमिति मन्त्रेण स्थाने नयेत्
तन्त्रान्तरे

“सोऽहम् एवं समाभाष्य
जीवं हृदि समानयेत्” ।

शूद्रे तु विशेषो वाराहीतन्त्रे

“हंसाख्यं न स्मरेत् शुद्रो
भूतशुद्धौ कदाचन ।
स्वरणान् नरकं याति
दीक्षा च विफला भवेत्” ।

शारदायाम्

“जीवं तेजोमयं ध्यात्वा
नमो मन्त्रेण योजयेत्” ।

भूत-शुद्धि-पद-व्युत्पत्तिम् आह विशुद्धेश्वरे

“शरीराकार-भूतानां
भूतानां यद्-विशोधनम् ।
अव्यय-ब्रह्म-संयोगात्
भूत-शुद्धिर् इयं मता”

वराहीये

“मूलाधारात् ततो बीजं
ब्रह्ममार्गेण देशिकः ।
हंसेन पुष्कर-स्थाने
परमात्मनि योजयेत्” ।

ब्रह्ममार्गः सुषुम्णा ।

त्रिपुरा-सार-समुच्चये

“संयोज्य बीजम् अथ दुर्गममध्यनाडी-मार्गेण पुष्कर-निविष्ट-शिवे सुसूक्ष्मे” ।

ज्ञानार्णवे

“प्राणप्रतिष्ठया पश्चात्
जीवं देहे निधापयेत् ।
मुखवृत्तं समुच्चार्य्य
हंसस् तु विपरीतकः ।
उद्धरेत् परमेशानि!
विद्येयं त्र्यक्षरी मता ।
प्राण-प्रतिष्ठा-मन्त्रोऽयं
सर्व-कर्माणि साधयेत् ।
तेनैव विधिना देवि!
स्थिरीकुर्य्यान्निजां तनुम्” ।

तारादौ विशेषस्तत्रैव दृश्यः ।

Ramakrishna Math - A Concise Encyclopaedia of Hinduism

Pūjā or worship of a deity, whether in a temple or at home, is an elaborate ritual. This पूजा can be based either on the Vedic traditions or on the tāntric.

One of the preliminary processes in a tāntric पूजा is ‘bhūtaśuddhi’ or purification of the elements, making up the body of the worshipper.

The worshipper has to raise his own self, the jīvātman, first to the feet of the Lord (Paramaśiva or परमात्मन्) dwelling in the सहस्रार or thousand petalled lotus in the head. Then, uttering the मन्त्र yaṁ, has to imagine that the dross in his body has dried up. This should be followed by the burning up this dross through the मन्त्र raṁ. The drossless body is then to be bathed in ambrosia, uttering the मन्त्र vaṁ and completely regenerated by the मन्त्र laṁ. This purified and regenerated body is now fit to worship the Lord.

This whole process is called ‘bhūtaśuddhi.’