स्रोतः
कारणम्
अस्य च कुल-व्यापित्वे कारणम् आह हारीतः ।
प्रेताभिभूतत्वाच् छावम् आशौचं,
जीवे वृद्धि-योगेन कुलस्य भवति ।इति । जायमान-म्रियमाण्योः सम्बन्धिनां सन्तोष-दाऽसन्तोष-दाभ्यां
वृद्धि-क्षय-योगाद् वा
कुल-व्याप्य् आशौचं भवतीत्यर्थः।
काणे-ग्रन्थे विस्तारो ऽत्र ।
अशौचहेतौ ज्ञाते सत्य् एवाशौचम्।
सम्बन्ध-कलनम्
- सगोत्रत्वम्
- तत्-पत्न्यो ऽपि गृह्यन्ते।
- सापिण्ड्यम्
- ७-पूरुषम् इति प्रायेण- “सपिण्डतातु पुरुषे सप्तमे विनिवर्तते”। ४-पूरुषम् इति केचित्।
- समानोदकत्वम्
- “समानोदकभावस्तु निवर्तेता चतुर्दशात् । जन्मनाम्नोः स्मृतेर् एके तत्परं गोत्रमुच्यते ।”
- बन्धुत्वम्
- भिन्न-गोत्र-सपिण्डा इति याज्ञवल्क्यः।
- आत्म-बन्धुः
- आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः। आत्ममातुलपुत्राश्च विज्ञेयां आत्मबान्धवाः ॥
- पितृ-बन्धुः
- पितुः पितृष्वसुः पुत्राः पितुर्मातृष्वसुः सुताः । पितृर्मातुलपुत्राश्च विज्ञेयाः पितृबान्धवाः।
- मातृ-बन्धुः
- मातुः पितृष्वसुः पुत्रा मातुर्मातुष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेयाः मातृबान्धवाः॥
- पुत्रत्वम्, श्वरुरत्वम्, जामातृत्वम्, दौहितृत्वम्, मातामहत्वम् …
- उपनयनादिना आचार्यत्वम्/शिष्यत्वम् , वैदिक-गुरुत्वम्, सब्रह्मचारित्वम्
- मित्रत्वम्
जाताशौचम्
(मृताशौचे प्रसूतिवत्। )
मृताशौचम्
अनुपनीतस्य अविवाहिताया अपेक्षया नास्त्य् आशौचाचारः - पित्रोर् मृतयोर् अन्तरा।
-
गर्भ-पात-भेदाः
- ४ मासेषु - स्रावः। दिन-त्रयाशौचम् मातुः। पितुः स्नानम्।
- ५-६ मासेषयोः - पातः। मासान् यावद् आशौचम् मातुः। पितृ-सपिण्डयोः ३ दिनानि।
- ७- - प्रसूतिः, प्रसवः। १० दिनानाम् आशौचं सपिण्डेभ्यः। समानोदकानाम् ३ दिनानि। सगोत्राणाम् १ दिनम्। मातृ-भिन्नानां स्नानात् परम् अस्पृश्यता न भवति।
-
आब्रह्मचर्य-मृतौ
- जननाशौचावधौ जननाशौचं यावद् एव मृताशौचम्।
- दन्तोद्भवात् प्राक् - पित्रोर् दिनत्रयाशौचम् पुत्रे, दिनं दुहितरि। सपिण्डानां स्नानम् एव।
- दन्तोद्भवाद् अनन्तरम्, चौलात् प्राक् - पित्रोर् दिनत्रयाशौचम्। सपिण्डानां दिनम् (पुत्रश् चेत्)।
- चौलात् परम्, उपनयनात् प्राक् - सपिण्डानां दिनत्रयाशौचम्। समानोदकानां स्नानम् एव।
-
उपनयनात् परम् - सपिण्डानां १० दिनानि। समानोदकानां ३ दिनानि।
-
कन्या-मृतौ
- ३ वर्षेभ्यः परम्, वाग्-दानात् प्राक् - पित्रोर् दिनत्रयाशौचम्। सपिण्डानां दिनम् (त्रि-पूरुषम्)।
- वाग्-दानात् परम्, विवाहात् प्राक् - सपिण्डानां वरस्य च दिन-त्रयम्।
- विवाहात् परम् - सपिण्डानां १० दिनानि। पित्रोः पक्षिणी (रात्रिः, दिनं, रात्रिः); स्वगृहे चेद् ३ दिनानि। भ्रातुः - पक्षिणी, दिनं वा; समान-गृहे मृतिश् चेद् दिन-त्रयम्।
-
विवाहिताया अपेक्षया
- पित्रोः - १०-दिनेभ्यः प्राक् - ३ दिनानि। ततो वर्षं यावत् - पक्षिणी।
- उपनीत-भ्रातुः - पक्षिणी, दिनं वा। समान-गृहे मृतिश् चेद् दिन-त्रयम्।
- पितामहे, तद्-भ्रातरि - स्नानम्।
-
श्वशुर-मृतौ
- समीपे सति - ३ दिनानि। अन्यथा - पक्षिणी।
-
श्याल-मृतौ
- उपनयनात् परम्, समान-ग्रामे - १ दिनम्। अन्यथा स्नानम् ।
-
जामातृ-मृतौ
- १ दिनम्/ स्नानम्। समान-गृहे मृतश् चेत् - ३ दिनानि।
-
मातुल–तत्-पत्नी–मृतौ, मातृ/पितृ–भगिनी–मृतौ
- पक्षिणी, दिनं वा। समान-गृहे मृतश् चेत् - ३ दिनानि।
-
भागिनेय-मृतौ
- मातुलस्य सपत्नीकस्य ३ दिनानि पुंसि। सनानम् एवान्यथा।
-
मातामह-मृतौ
- समान-ग्रामे मातामह एव चेत् ३ दिनानि। अन्यथा पक्षिणी।
-
दौहित्र-मृतौ
- उपनयनं यावत् पुंसि - पक्षिणी। ततः ३ दिनानि।
- स्त्रियां नास्त्य् आशौचम्।
-
दत्तक-मृतौ
- सर्व-पितॄणां ३ दिनानि। सपिण्डानां १ दिनम्।
- सगोत्र-सपिण्डश् चेत् - १० दिनानि।
- समानोदकश् चेत् - ३ दिनानि।
-
दत्तक-पुत्र-पौत्र-मृतौ, तत्-सपिण्ड-मृतौ
- सर्व-सपिण्डानां १ दिनम् आशौचम्।
-
दत्तकापेक्षया
- पितृ-मृतौ ३ दिनानि
- सपिण्ड-मृतौ १ दिनम्।
-
आत्म/पितृ/मातृ-बन्धु-मृतौ
- उपनीतः, समानगृहे मृतो वा चेत् ३ दिनानि। अन्यथा १ दिनम्।
- विवाहिता चेत् १ दिनम्। अन्यथा स्नानम्।
-
आत्म-बन्ध्व्-अपेक्षया मृतौ
- “आत्म/पितृ/मातृ-बन्धु-मृतौ” इत्यत्र यथा।
-
आचार्य-मृतौ
- समानग्रामे ३ दिनानि। अन्यथा १ दिनम्; वेद-मन्त्र-गुरुश् चेत् पक्षिणी।
-
आचार्य-पत्नी-पुत्र-मृतौ, वेदाङ्ग-शिक्षक-मृतौ, शिष्य-सब्रह्मचार्य्-आदि-मृतौ
- १ दिनम्
-
यति-मृतौ
- सपिण्डानां स्नानम्।
-
राज-मृतौ
- १ दिनम् रात्रं वा।
-
आपस्तम्बो ऽत्र ।
02 मातुश् च योनिसम्बन्धेभ्यः ...{Loading}...
मातुश् च योनि-संबन्धेभ्यः पितुश् (स्वेन साकं) चासप्तमात् पुरुषाद्
यावता वा संबन्धो ज्ञायते
तेषां प्रेतेषूदकोपस्पर्शनं
(मृतान्) गर्भान्(=बालान्) परिहाप्यापरिसंवत्सरान् २
अतिक्रान्ताशौचम्
- वार्तायां १० दिनेषु प्राप्तायाम् - सपिण्डानां १० दिनेषु शिष्टानि यावत्। पितृ-पत्न्यादेर् मृतौ त्व् अस्थि-सङ्ग्रहात् प्राक् १० दिनानि।
- ततः परं - सचेल-स्नानमात्रम्। हेतोः वर्षात् पूर्वं दिनत्रयम् इति केचित्।
दीर्घता-व्यत्यासः ब्राह्मणे
साधारणतया १० दिनानि।
अधीत-वेदादाव् अल्पतराणि दिनानि क्वचिद् उक्तानि।
काणे-ग्रन्थे विस्तारो ऽत्र ।
आप्त-सम्बन्धिनि १२ दिनानि।
क्रियाः
- निषिद्धाः - देवादि-कर्माणि कानिचित्, दानम्, आहार-दानम्, स्पर्शः
शुद्धिः
- चौलम्, श्वेत-तिल-लेपः, स्नानम्
- वस्त्रोपवीतादि-परिवर्तनम्
- शान्त्य्-उदक-प्रोक्षणम्, ब्राह्मणार्हणम्
- सामवेदिषु वामदेव्य-गानम्। यजुर्वेदिषु - ‘ṛcam vācam prapadye’ इत्यादि १७। ऋग्वेदिषु गायत्र्या सह Ṛg. X. 9. 4, VII, 35, 1, V. 47. 7।
आप्त-सम्बन्धे
05 भार्यायाम् परमगुरुसंस्थायाञ् चाकालम् ...{Loading}...
भार्यायां परम-गुरु(=आचार्य-मातृ-पितृ)-संस्थायां (=मरणे) च (परेद्युर्) +आकालम् (२४ होराणाम्) अभोजनम् ५
इत्य् आपस्तम्बः।
सद्यश्-शौचम्
ब्रह्मचारी, दीक्षितः, दाता, कृच्छ्रादौ वर्तमानः, यतिः, नैष्ठिकः, राजा -
एते कर्म न त्यजेयुः। नास्त्य् आशौचम्। (Manu V. 82, Yāj. III. 25, Viṣṇu 22.45. )
काणे-ग्रन्थे विस्तारो ऽत्र ।
वेदान् अधीयाने गृहस्थेऽपि ब्रह्म-चारिवद् वेदाध्ययन-विषयक आशौचाभाव इति विश्वासः।