पद्मपुराणाद् इति -
गुरोरभावे विप्रेन्द्र
मन्त्रग्रहणमुच्यते ॥
कृष्णपक्षे चतुर्दश्यां
दक्षिणामूर्तिसंनिधौ ।
तालपत्रे मनुं लिख्य
स्थापयेच्च तदग्रतः ॥ …(१)
संपूज्य दक्षिणामूर्तिम्
उपचारैः प्रयत्नतः ।
पायसं विनिवेद्याथ
प्रणमेद् दण्डवत् ततः ॥ ..(२)
तालपत्रं समालोक्य
पठेद् अष्टोत्तरं शतम् ।
एवं गृहीतो मंत्रः स्याद्
गुरोर् अपि विशिष्यते । ..(३)
गुरौ संभाविता दोषाः
प्रायेण तु कलौ युगे ।
एवं गृहीतो मंत्रः स्यात्
सर्वसिद्धिप्रदो नृणाम् ॥