प्रत्याम्नायं मन्त्रभेदाः भवन्ति; तत्र श्रीसम्प्रदायेऽपि तथैव स्यादिति मन्ये।
आम्नाये साधारण-दीक्षितस्य आचार्य-मन्त्रेष्व् अधिकारो नास्ति।
परन्तु आचार्याभिषिक्तस्य तत्-सम्प्रदाय-निबद्ध-मन्त्रेष्व् अबाधिताधिकारः।
परन्तु सप्रदायभेदे सति पुनः आचार्यान्तरेण मन्त्रग्रहणं सम्प्रदायेषु प्रसिद्धं।
अत एव कश्चन यजुःशाखासु सर्वाधिकारोऽपि ऋक्शाखां न स्वतोऽध्येतुम् अर्हति।
तथैव वेदाधिकृतस्य न तन्त्रेष्वधिकारः,
परन्तु आचार्यान्तरग्रहणेन तस्य तत्राप्यधिकारः।
एकत्र अधिकृतस्यान्यत्रानधिकार इति नास्ति,
यथा ऋगधीतस्य सामेष्वधिकारः,
परन्तु आचार्यग्रहणं शास्त्रप्रसिद्धम्।
यदि कश्चन वैष्णवसम्प्रदाये
द्वादशाक्षरदीक्षितस्तस्य भागवतादिग्रहणपाठनाद्यधिकारः,
परन्तु तस्यापि शैवशास्त्राध्ययनपाठनेऽनधिकारः;
पुनश्च गुर्वन्तरग्रहणेन तस्यापि तत्राप्यधिकारः।
इति मन्ये।
वेदेषु गुरुमुखाद् अनधीतेष्व् अनधिकारः।
अङ्गाधिकारः
संहिताया ग्रहणेन अङ्गानां स्वतो ऽध्ययनाधिकारः,
श्रौतसूत्र, गृह्यसूत्रादीनां गुरुमुखीकरणम् अनावश्यकम्।
तन्त्रेष्वपि मूलविद्याया ग्रहणेनाङ्गविद्यायाम् अधिकारः,
नवार्ण-चामुण्डा-मन्त्र-ग्रहणेन न्यासमन्त्रेषु यन्त्रपूजायां वा स्वतोऽधिकार:,
चण्डिकापाठेऽप्यधिकारः,
यद्य् अपि प्रतिश्लोकम् अस्या मन्त्र एव।