ओं तत्सद्ब्रह्मणे नमः ।
यमस्मृतिः ।
श्रुतिस्मृत्युदितं धर्मं
वर्णानाम् अनुपूर्वशः ।
प्राब्रवीद् ऋषिभिः पृष्टो
मुनीनाम् अग्रणीर् यमः ॥ य्स्९९व्_१ ॥
यो भुञ्जानो ‘शुचिर् वापि
चण्डालं पतितं स्पृशेत् ।
क्रोधाद् अज्ञानतो वापि
तस्य वक्ष्यामि निष्कृतिम् ॥ य्स्९९व्_२ ॥
षड्रात्रं वा त्रिरात्रं वा
यथासङ्ख्यं समाचरेत् ।
स्नात्वा त्रिषवणं विप्रः
पञ्चगव्येन शुध्यति ॥ य्स्९९व्_३ ॥
भुञ्जानस्य तु विप्रस्य
कदाचित् स्रवते गुदम् ।
उच्छिष्टत्वे ‘शुचित्वे च
तस्य शौचं विनिर्दिशेत् ॥ य्स्९९व्_४ ॥
पूर्वं कृत्वा द्विजः शौचं
पश्चाद् अप उपस्पृशेत् ।
अहोरात्रोषितो भूत्वा
पञ्चगव्येन शुध्यति ॥ य्स्९९व्_५ ॥
निगिरन्यदि मेहेत
भुक्त्वा वा मेहने कृते ।
अहोरात्रोषितो भूत्वा
जुहुयात् सर्पिषाहुतीः ॥ य्स्९९व्_६ ॥
यदा भोजनकाले स्याद्
अशुचिर् ब्राह्मणः क्वचित् ।
भूमौ निधाय तद् ग्रासं
स्नात्वा शुद्धिम् अवाप्नुयात् ॥ य्स्९९व्_७ ॥
भक्षयित्वा तु तद् ग्रासम्
उपवासेन शुध्यति ।
अशित्वा चैव तत् सर्वं
त्रिरात्रेणैव शुध्यति ॥ य्स्९९व्_८ ॥
अश्नतश् चेद् विरेकः स्याद्
अस्वस्थस् त्रिशतं जपेत् ।
स्वस्थस् त्रीणि सहस्राणि
गायत्र्याः शोधनं परम् ॥ य्स्९९व्_९ ॥
चण्डालैः श्वपचैः स्पृष्टो
विण्मूत्रे तु कृते द्विजः ।
त्रिरात्रं तु प्रकुर्वीत
भुक्त्वोच्छिष्टः षड् आचरेत् ॥ य्स्९९व्_१० ॥
उदक्यां सूतिकां वापि
संस्पृशेद् अन्त्यजो यदि ।
त्रिरात्रेण विशुद्धिः स्याद्
इति शातातपो ‘ब्रवीत् ॥ य्स्९९व्_११ ॥
रजस्वला तु संस्पृष्टा
श्वमातङ्गादिवायसैः ।
निराहारा शुचिस् तिष्ठेत्
कालस्नानेन शुध्यति ॥ य्स्९९व्_१२ ॥
रजस्वले यदा नार्याव्
अन्योन्यं स्पृशते(तः) क्वचित् ।
शुध्यतः पञ्चगव्येन
ब्रह्मकूर्चेन चोपरि ॥ य्स्९९व्_१३ ॥
उच्छिष्टेन च संस्पृष्टा
कदाचित् स्त्री रजस्वला ।
कृच्छ्रेण शुद्धिम् आप्नोति
शूद्रा दानोपवासतः ॥ य्स्९९व्_१४ ॥
अनुच्छिष्टेन संस्पृष्टे
स्नानं येन विधीयते ।
तेनैवोच्छिष्टसंस्पृष्टः
प्राजापत्यं समाचरेत् ॥ य्स्९९व्_१५ ॥
ऋतौ तु गर्भशङ्कित्वात्
स्नानं मैथुनिनः स्मृतम् ।
अनृतौ तु स्त्रियं गत्वा
शौचं मूत्रपुरीषवत् ॥ य्स्९९व्_१६ ॥
उभाव् अप्य् अशुची स्यातां
दम्पती शयनं गतौ ।
शयनाद् उत्थिता नारी
शुचिः स्याद् अशुचिः पुमान् ॥ य्स्९९व्_१७ ॥
भर्तुः शरीरं शुश्रूषां
दौरात्म्याद् अप्रकुर्वती ।
दण्ड्या द्वादशकं नारी
वर्षं त्याज्या धनं विना ॥ य्स्९९व्_१८ ॥
त्यजन्तो ‘पतितान् बन्धून्
दण्ड्या उत्तमसाहसम् ।
पिता हि पतितः कामं
न तु माता कदाचन ॥ य्स्९९व्_१९ ॥
आत्मानं घातयेद् यस् तु
रज्ज्वादिभिर् उपक्रमैः ।
मृतो ‘मेध्येन लेप्तव्यो
जीवतो द्विशतं दमः ॥ य्स्९९व्_२० ॥
दण्ड्यास् तत् पुत्रमित्राणि
प्रत्येकं पणिकं दमम् ।
प्रायश्चित्तं ततः कुर्युर्
यथा शास्त्रप्रचोदितम् ॥ य्स्९९व्_२१ ॥
जलाद्युद्बन्धनभ्रष्टाः
प्रव्रज्यानाशकच्युताः ।
विषप्रपतनप्राय
शस्त्रघातहताश् च ये ॥ य्स्९९व्_२२ ॥
नवैते प्रत्यवसिताः
सर्वलोकबहिष्कृताः ।
चान्द्रायणेन शुध्यन्ति
तप्तकृच्छ्रद्वयेन वा ॥ य्स्९९व्_२३ ॥
उभयावसितः पापः
श्यामाच् छबलकाच् च्युतः ।
चान्द्रायणाभ्यां शुध्येत
दत्त्वा धेनुं तथा वृषम् ॥ य्स्९९व्_२४ ॥
श्वशृगालप्लवङ्गाद्यैर्
मानुषैश् च रतिं विना ।
दष्टः स्नात्वा शुचिः सद्यो
दिवा सन्ध्यासु रात्रिषु ॥ य्स्९९व्_२५ ॥
अज्ञानाद् ब्राह्मणो भुक्त्वा
चण्डालान्नं कदाचन ।
गोमूत्रयावकाहारो
मासार्धेन विशुध्यति ॥ य्स्९९व्_२६ ॥
गोब्राह्मणगृहं दग्धा
मृतं चोद्बन्धनादिना ।
पाशांश् छित्त्वा तथा तस्य
कृच्छ्रम् एकं चरेद् द्विजः ॥ य्स्९९व्_२७ ॥
चण्डालपुक्कसानां च
भुक्त्वा गत्वा च योषितम् ।
कृच्छ्राब्दम् आचरेज् ज्ञानाद्
अज्ञानाद् ऐन्दवद्वयम् ॥ य्स्९९व्_२८ ॥
कापालिकान्नभोक्तॄणां
तन्नारीगामिनां तथा ।
कृच्छ्राब्दम् आचरेज् ज्ञानाद्
अज्ञानाद् ऐन्दवद्वयम् ॥ य्स्९९व्_२९ ॥
अगम्यागमने विप्रो
मद्यगोमांसभक्सणे ।
तप्तकृच्छ्रपरिक्षिप्तो
मौञ्जी होमेन शुध्यति ॥ य्स्९९व्_३० ॥
महापातककर्तारश्
चत्वारो ‘प्य् अविशेषतः ।
अग्निं प्रविश्य शुध्यन्ति
स्थित्वा वा महति क्रतौ ॥ य्स्९९व्_३१ ॥
रहस्यकरणे ‘प्य् एवं
मासम् अभ्यस्य पूरुषः ।
अघमर्षणसूक्तं वा
शुध्येद् अन्तर्जले स्थितः ॥ य्स्९९व्_३२ ॥
रजकश् चर्मकारश् च
नटो बुरुड एव च ।
कैवर्तमेदभिल्लाश् च
सप्तैते अन्त्यजाः स्मृताः ॥ य्स्९९व्_३३ ॥
भुक्त्वा चैषां स्त्रियो गत्वा
पीत्वापः प्रतिगृह्य च ।
कृच्छ्राब्दम् आचरेज् ज्ञानाद्
अज्ञानाद् ऐन्दवद्वयम् ॥ य्स्९९व्_३४ ॥
मातरं गुरुपत्नीं च
स्वसृदुहितरौ स्नुषाम् ।
गत्वैताः प्रविशेद् अग्निं
नान्या शुद्धिर् विधीयते ॥ य्स्९९व्_३५ ॥
राज्ञां प्रव्रजितां धात्रीं
तथा वर्णोत्तमाम् अपि ।
कृच्छ्रद्वयं प्रकुर्वीत
स गोत्राम् अभिगम्य च ॥ य्स्९९व्_३६ ॥
अन्यासु पितृगोत्रासु
मातृगोत्रगतास्व् अपि ।
परदारेषु सर्वेषु
कृच्छ्रं सान्तपनं चरेत् ॥ य्स्९९व्_३७ ॥
वेश्याभिगमने पापं
व्यपोहन्ति द्विजातयः ।
पीत्वा सकृत् सुतप्तं च
पञ्चरात्रं कुशोदकम् ॥ य्स्९९व्_३८ ॥
गुरुतल्पव्रतं केचित्
केचिद् ब्रह्महणो व्रतम् ।
गोघ्नस्य केचिद् इच्छन्ति
केचिच् चैवावकीर्णिनः ॥ य्स्९९व्_३९ ॥
दण्डाद् ऊर्ध्वप्रहारेण
यस् तु गां विनिपातयेत् ।
द्विगुणं गो व्रतं तस्य
प्रायश्चित्तं विनिर्दिशेत् ॥ य्स्९९व्_४० ॥
अङ्गुष्ठमात्रस्थूलस् तु
बाहुमात्रप्रमाणकः ।
सार्द्रश् च स पलाशश् च
गोदण्डः परिकीर्तितः ॥ य्स्९९व्_४१ ॥
गवां निपातने चैव
गर्भो ‘पि सम्पतेद् यदि ।
एकैकशश् चरेत् कृच्छ्रं
यथा पूर्वं तथा पुनः ॥ य्स्९९व्_४२ ॥
पादम् उत्पन्नमात्रे तु
द्वौ पादौ गात्रसम्भवे ।
पादोनं कृच्छ्रम् आचष्टे
हत्वा गर्भम् अचेतनम् ॥ य्स्९९व्_४३ ॥
अङ्गप्रत्यङ्गसम्पूर्णे
गर्भे रेतः समन्विते ।
एकैकशश् चरेत् कृच्छ्रम्
एषा गोघ्नस्य निष्कृतिः ॥ य्स्९९व्_४४ ॥
बन्धने रोधने चैव
पाषाणे वा गवां रुजा ।
सम्पद्यते चेन् मरणं
निमित्ती नैव लिप्यते ॥ य्स्९९व्_४५ ॥
मूर्छितः पतितो वापि
दण्डेनाभिहतस् तथा ।
उत्थाय षट्पदं गच्छेत्
सप्त पञ्च दशापि वा ॥ य्स्९९व्_४६ ॥
ग्रासं वा यदि गृह्णीयात्
तोयं वापि पिबेद् यदि ।
पूर्वव्याधिप्रनष्टानां
प्रायश्चित्तं न विद्यते ॥ य्स्९९व्_४७ ॥
काष्ठलोष्टाश्मभिर् गावः
शस्त्रैर् वा निहता यदि ।
प्रायश्चित्तं कथं तत्र
शास्त्रे शास्त्रे निगद्यते ॥ य्स्९९व्_४८ ॥
काष्ठे सान्तपनं कुर्यात्
प्राजापत्यं तु लोष्टके ।
तप्तकृच्छ्रं तु पाषाणे
शस्त्रे चाप्य् अतिकृच्छ्रकम् ॥ य्स्९९व्_४९ ॥
औषधं स्नेहम् आहारं
ददद् गोब्राह्मणेषु तु ।
दीयमाने विपत्तिः स्यात्
प्रायश्चित्तं न विद्यते ॥ य्स्९९व्_५० ॥
तैलभैषज्यपाने च
भेषजानां च भक्षणे ।
निःशल्यकरणे चैव
प्रायश्चित्तं न विद्यते ॥ य्स्९९व्_५१ ॥
वत्सानां कण्ठबन्धेन
क्रियया भेषजेन तु ।
सायं सङ्गोपनार्थं च
न दोषो रोध बन्धयोः ॥ य्स्९९व्_५२ ॥
पादे चैवास्य रोमाणि
द्वि पादे श्मश्रुकेवलम् ।
त्रिपादे तु शिखावर्जं
मूले सर्वं समाचरेत् ॥ य्स्९९व्_५३ ॥
सर्वान् केशान् समुद्धृत्य
च्छेदयेद् अङ्गुलद्वयम् ।
एवम् एव हि नारीणां
मुण्डमुण्डापनं स्मृतम् ॥ य्स्९९व्_५४ ॥
न स्त्रिया वपनं कार्यं
न च वीरासनं तथा ।
न च गोष्ठे निवासं च
न गच्छन्तीम् अनुव्रजेत् ॥ य्स्९९व्_५५ ॥
राजा वा राज पुत्रो वा
ब्राह्मणो वा बहुश्रुतः ।
अकृत्वा वपनं तेषां
प्रायश्चित्तं विनिर्दिशेत् ॥ य्स्९९व्_५६ ॥
केशानां रक्षणार्थं च
द्विगुणं व्रतम् आदिशेत् ।
द्विगुणे तु व्रते चीर्णे
द्विगुणैव तु दक्षिणा ॥ य्स्९९व्_५७ ॥
द्विगुणं चेन् न दत्तं च
केशांश् च परिरक्षयेत् ।
पापं न क्षीयते हन्तुर्
दाता च नरकं व्रजेत् ॥ य्स्९९व्_५८ ॥
अश्रौतस्मार्तविहितं
प्रायश्चित्तं वदन्ति ये ।
तान् धर्मविघ्नकर्तॄंश् च
राजा दण्डेन पीडयेत् ॥ य्स्९९व्_५९ ॥
न चेत् तान् पीडयेद् राजा
कथञ्चित् काममोहितः ।
तत् पापं शतधा भूत्वा
तम् एव परिसर्पति ॥ य्स्९९व्_६० ॥
प्रायश्चित्ते ततश् चीर्णे
कुर्याद् ब्राह्मणभोजनम् ।
विंशतिं गावृषं चैव
दद्यात् तेषां च दक्षिणाम् ॥ य्स्९९व्_६१ ॥
कृमिभिर् व्रणसम्भूतैर्
मक्षिकाभिश् च पातितैः ।
कृच्छ्रार्धं सम्प्रकुर्वीत
शक्त्या दद्याच् च दक्षिणाम् ॥ य्स्९९व्_६२ ॥
प्रायश्चित्तं च कृत्वा वै
भोजयित्वा द्विजोत्तमान् ।
सुवर्णम् आषकं दद्यात्
ततः शुद्धिर् विधीयते ॥ य्स्९९व्_६३ ॥
चण्डालश्वपचैः स्पृष्टे
निशि स्नानं विधीयते ।
न वसेत् तत्र रात्रौ तु
सद्यः स्नानेन शुध्यति ॥ य्स्९९व्_६४ ॥
अथ वसेद् यदा रात्राव्
अज्ञानाद् अविचक्षणः ।
तदा तस्य तु तत् पापं
शतधा परिवर्तते ॥ य्स्९९व्_६५ ॥
उद्गच्छन्ति हि नक्षत्राण्य्
उपरिष्टाच् च ये ग्रहाः ।
संस्पृष्टे रश्मिभिस् तेषाम्
उदके स्नानम् आचरेत् ॥ य्स्९९व्_६६ ॥
कुड्यान्तर्जलवल्मीक
मूषिकोत्करवर्त्मसु ।
श्मशाने शौचशेषे च
न ग्राह्याः सप्त मृत्तिकाः ॥ य्स्९९व्_६७ ॥
इष्टापूर्तं तु कर्तव्यं
ब्राह्मणेन प्रयत्नतः ।
इष्टेन लभते स्वर्गं
पूर्ते मोक्षं समश्नुते ॥ य्स्९९व्_६८ ॥
वित्तापेक्षं भवेद् इष्टं
तडागं पूर्तम् उच्यते ।
आरामश् च विशेषेण
देवद्रोण्यस् तथैव च ॥ य्स्९९व्_६९ ॥
वापी कूपतडागानि
देवतायतनानि च ।
पतितान्य् उद्धरेद् यस् तु
स पूर्तफलम् अश्नुते ॥ य्स्९९व्_७० ॥
शुक्लाया मूत्रं गृह्णीयात्
कृष्णाया गोः शकृत् तथा ।
ताम्रायाश् च पयो ग्राह्यं
श्वेताया दधि चोच्यते ॥ य्स्९९व्_७१ ॥
कपिलाया घृतं ग्राह्यं
महापातकनाशनम् ।
सर्वतीर्थे नदी तोये
कुशैर् द्रव्यं पृथक् पृथक् ॥ य्स्९९व्_७२ ॥
आहृत्य प्रणवेनैव ह्य्
उत्थाप्य प्रणवेन च ।
प्रणवेन समालोड्य
प्रणवेन तु सम्पिबेत् ॥ य्स्९९व्_७३ ॥
पालाशे मध्यमे पर्णे
भाण्डे ताम्रमये तथा ।
पिबेत् पुष्करपर्णे वा
ताम्रे वा मृन्मये शुभे ॥ य्स्९९व्_७४ ॥
सूतके तु समुत्पन्ने
द्वितीये समुपस्थिते ।
द्वितीये नास्ति दोषस् तु
प्रथमेनैव शुध्यति ॥ य्स्९९व्_७५ ॥
जातेन शुध्यते जातं
मृतेन मृतकं तथा ।
गर्भसंस्रवणे मासे
त्रीण्य् अहानि विनिर्दिशेत् ॥ य्स्९९व्_७६ ॥
रात्रिभिर् मासतुल्याभिर्
गर्भस्रावे विशुध्यति ।
रजस्य् उपरते साध्वी
स्नानेन स्त्री रजस्वला ॥ य्स्९९व्_७७ ॥
स्वगोत्राद् भ्रश्यते नारी
विवाहात् सप्तमे पदे ।
स्वामिगोत्रेण कर्तव्यास्
तस्याः पिण्डोदकं क्रियाः ॥ य्स्९९व्_७८ ॥
द्वे पितुः पिण्डदानं स्यात्
पिण्डे पिण्डे द्विनामता ।
षण्णां देयास् त्रयः पिण्डा
एवं दाता न मुह्यति ॥ य्स्९९व्_७९ ॥
स्वेन भर्त्रा सह श्राद्धं
माता भुक्त्वा स दैवतम् ।
पितामह्य् अपि स्वेनैव
स्वेनैव प्रपितामही ॥ य्स्९९व्_८० ॥
वर्षे वर्षे तु कुर्वीत
मातापित्रोस् तु सत्कृतिम् ।
अदैवं भोजयेच् छ्राद्धं
पिण्डम् एकं तु निर्वपेत् ॥ य्स्९९व्_८१ ॥
नित्यं नैमित्तिकं काम्यं
वृद्धिश्राद्धम् अथापरम् ।
पार्वणं चेति विज्ञेयं
श्राद्धं पञ्चविधं बुधैः ॥ य्स्९९व्_८२ ॥
ग्रहोपरागे सङ्क्रान्तौ
पर्वोत्सवमहालये ।
निर्वपेत् त्रीन् नरः पिण्डान्
एकम् एव मृते ‘हनि ॥ य्स्९९व्_८३ ॥
अनूढा न पृथक् कन्या
पिण्डे गोत्रे च सूतके ।
पाणिग्रहणमन्त्राभ्यां
स्वगोत्राद् भ्रश्यते ततः ॥ य्स्९९व्_८४ ॥
येन येन तु वर्णेन
या कन्या परिणीयते ।
तत् समं सूतकं याति
तथा पिण्डोदके ‘पि च ॥ य्स्९९व्_८५ ॥
विवाहे चैव संवृत्ते
चतुर्थे ‘हनि रात्रिषु ।
एकत्वं सा व्रजेद् भर्तुः
पिण्डे गोत्रे च सूतके ॥ य्स्९९व्_८६ ॥
प्रथमे ‘ह्नि द्वितीये वा
तृतीये वा चतुर्थके ।
अस्थि सञ्चयनं कार्यं
बन्धुभिर् हितबुद्धिभिः ॥ य्स्९९व्_८७ ॥
चतुर्थे पञ्चमे चैव
सप्तमे नवमे तथा ।
अस्थिसञ्चयनं प्रोक्तं
वर्णानाम् अनुपूर्वशः ॥ य्स्९९व्_८८ ॥
एकादशाहे प्रेतस्य
यस्य चोत्सृज्यते वृषः ।
मुच्यते प्रेतलोकात् स
स्वर्गलोके महीयते ॥ य्स्९९व्_८९ ॥
गङ्गा तोयेषु यस्यास्थि
प्लवते शुभकर्मणः ।
न तस्य पुनर् आवृत्तिर्
ब्रह्मलोकात् कथञ्चन ॥ य्स्९९व्_९० ॥
यावदस्थि मनुष्याणां
गङ्गातोयेषु तिष्ठति ।
तावद्वर्षसहस्राणि
स्वर्गलोके महीयते ॥ य्स्९९व्_९१ ॥
नाभिमात्रे जले स्थित्वा
हृदयेनानुचिन्तयेत् ।
आगच्छन्तु मे पितरो
गृह्णन्त्व् एताञ् जलाञ्जलीन् ॥ य्स्९९व्_९२ ॥
हस्तौ कृत्वा सुसंयुक्तौ
पूरयित्वा जलेन च ।
गोशृङ्गमाट्रम् उद्धृत्य
जलमध्ये जलं क्षिपेत् ॥ य्स्९९व्_९३ ॥
आकाशे च क्षिपेद् वारि
वारिस्थो दक्षिणामुखः ।
पितॄणां स्थानम् आकाशं
दक्षिणा दिक् तथैव च ॥ य्स्९९व्_९४ ॥
आपो देवगणाः प्रोक्ता
आपः पितृगणास् तथा ।
तस्माद् अप्सु जलं देयं
पितॄणां हितम् इच्छता ॥ य्स्९९व्_९५ ॥
दिवा सूर्यांशुभिस् तप्तं
रात्रौ नक्षत्रमारुतैः ।
सन्ध्ययोर् अप्य् उभाभ्यां च
पवित्रं सर्वदा जलम् ॥ य्स्९९व्_९६ ॥
स्वभावयुक्तम् अव्याप्तम्
अमेध्येन सदा शुचि ।
भाण्डस्थं धरणीस्थं वा
पवित्रं सर्वदा जलम् ॥ य्स्९९व्_९७ ॥
देवतानां पितॄणां च
जले दद्याज् जलाञ्जलीन् ।
असंस्कृतप्रमीतानां
स्थले दद्याज् जलाञ्जलीन् ॥ य्स्९९व्_९८ ॥
श्राद्धे हवनकाले च
दद्याद् एकेन पाणिना ।
उभाभ्यां तर्पणे दद्याद्
इति धर्मो व्यवस्थितः ॥ य्स्९९व्_९९ ॥
इति यमप्रणीतं धर्मशास्त्रं समाप्तम् ॥ समाप्तेयं यमस्मृतिः ॥