बृहद्-यम-स्मृतिः

अध्याय १

अथातो यमधर्मस्य प्रायश्चित्तं व्याख्यास्यामः ।
चतुर्णामपि वर्णानां प्रायश्चित्तं प्रकल्पयेत् ॥ १.१ ॥

ब्राह्मणस्तु शुना दष्टो जम्बूकेन वृकेण वा ।
उदिते ग्रहनक्षत्रे दृष्ट्वा सद्यः शुचिर्भवेत् ॥ १.२ ॥

जलाग्निबन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः ।
विषप्रपन्नगात्राश्च शस्त्राघातहताश्च ये ॥ १.३ ॥

नवैते प्रत्यवसिताः सर्वधर्मबहिष्कृताः ।
चान्द्रायणेन शुध्यन्ति तप्तकृच्छ्रद्वयेन च ॥ १.४ ॥

उभयावसिताः पापा ये शामशबलाच्युताः ।
इन्दुद्वयेन शुध्यन्ति दत्त्वा धेनुं तथा वृषम् ॥ १.५ ॥

गोब्राह्मणहतं दग्धं मृतमुद्बन्धनेन तु ।
पाशं छित्त्वा ततस्तस्य तप्तकृच्छ्रद्वयं चरेत् ॥ १.६ ॥

कृमिभिर्ब्रह्मसंयुक्तं मक्षिकैश्चोपघातितम् ।
कृच्छ्रार्धं संप्रकुर्वीत शक्त्या दद्यात्तु दक्षिणाम् ॥ १.७ ॥

चाण्डालभाण्डसंस्पृष्टं पीत्वा भूमिगतं जलम् ।
गोमूत्रयावकाहारः षड्रात्रेण विशुध्यति ॥ १.८ ॥

चाण्डालघटभाण्डस्थं यस्तोयं पिबति द्विजः ।
तत्क्षनात्क्षिपते यस्तु प्राजापत्येन शुध्यति ॥ १.९ ॥

यदि न क्षिपते तोयं शरीरे यस्य जीर्यति ।
प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनादिकम् ॥ १.१० ॥

चरेत्सांतपनं विप्रः प्राजापत्यं तु क्षत्त्रियः ।
तदर्धं तु चरेद्वैश्यः पादं शूद्रस्य दापयेत् ॥ १.११ ॥

चाण्डालान्नं भक्षयित्वा तद्वत्सलिलमेव च ।
मासं कृच्छ्रं चरेद्विप्रश्चान्द्रायणमथापि वा ॥ १.१२ ॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् ॥ १.१३ ॥

चाण्डालमूर्तिका ये च ये च संकीर्णयोनयः ।
तेषां दत्त्वा च भुक्त्वा च तप्तकृच्छ्रं समाचरेत् ॥ १.१४ ॥

चाण्डालिकासु नारीषु द्विजो मैथुनकारकः ।
कृत्वाऽघमर्षणं पक्षं शुध्यते च पयोव्रतात् ॥ १.१५ ॥

इति श्रीयाम्ये धर्मशास्त्रे प्रथमो ध्यायः ॥

अध्याय २

नटां [टीं] शैलूषिकां चैव रजकीं वेणुजीविनीम् ।
गत्वा चान्द्रायणं कुर्यात्तथा चर्मोपजीविनीम् ॥ २.१ ॥

कापालिकान्नभोक्तॄणां तनयागामिनां तथा ।
अज्ञानात्कृच्छ्रमुद्दिष्टं ज्ञात्वा चैव व्रतद्वयम् ॥ २.२ ॥

सुरायाः संप्रपानेन गोमांसभक्षणे कृते ।
तप्तकृच्छ्रं चरेद्विप्रो मौञ्जीहोमेन शुध्यति ॥ २.३ ॥

गोक्षत्त्रियं तथा वैश्यं शूद्रं चाप्यनुलोमजम् ।
ज्ञात्वा विशेषेण ततश्चरेच्चान्द्रायणं व्रतम् ॥ २.४ ॥

कुक्कुटाण्डकमात्रं तु ग्रासं च परिकल्पयेत् ।
अन्यथाभावदोषेण नवमेऽति च शुध्यह्नि ॥ २.५ ॥

एकैकं वर्धयेद्ग्रासं शुक्ले कृष्णे च ह्रासयेत् ।
अमायां तु न भुञ्जीत एष चान्द्रायणो विधिः ॥ २.६ ॥

प्रायश्चित्तमुपक्रम्य कर्ता यदि विपद्यते ।
पूतस्तदहरेद्वापि इह लोके परत्र च ॥ २.७ ॥

यावदेकः पृथग्भाव्यः प्रायश्चित्तं न सेवते ।
अप्रशस्ता न ते स्पृश्यास्ते सर्वेऽपि विगर्हिताः ॥ २.८ ॥

अभोज्याश्चाप्रतिग्राह्या असंपङ्क्त्याविवाहिकाः ।
पूयन्ते तु व्रते चीर्णे सर्वे ते रिक्थभागिनः ॥ २.९ ॥

इति श्रीयाम्ये धर्मशास्त्रे द्वितीयोऽध्यायः ॥

अध्याय ३

ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च ।
प्रायश्चित्तं चरेद्भ्रात पिता वाऽन्योऽपि बान्धवः ॥ ३.१ ॥

अतो बालतरस्यापि नापराधो न पातकम् ।
राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥ ३.२ ॥

अशीत्यधिकवर्षाणि बालो वाऽप्यूनषोडशः ।
प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याधित एव च ॥ ३.३ ॥

पितृव्यभ्रातृभार्यां च भगिनीं मातुरेव च ।
श्वश्रूं पितृष्वसारं च तप्तकृच्छ्रं समाचरेत् ॥ ३.४ ॥

राज्ञीमाचार्यशिष्यां वा उपाध्यायस्य योषितः ।
एता गत्वा स्त्रियो मोहात्षण्मासं कृच्छ्रमाचरेत् ॥ ३.५ ॥

द्वौ मासौ भक्ष्य भोज्यं च द्वौ मासौ यावकेन तु ।
द्वौ मासौ पञ्चगव्येन षण्मासं कृच्छ्रमाचरेत् ॥ ३.६ ॥

मातरं गुरुपत्नीं च स्वसारं दुहितां तथा ।
गत्वा तु प्रविशेदग्निं नान्या शुद्धिर्विधीयते ॥ ३.७ ॥

अस्तं गते यदा सूर्ये चाण्डालमृतुमत्स्त्रियः ।
संस्पृशेत्तु यदा कश्चित्प्रायश्चित्तं कथं भवेत् ॥ ३.८ ॥

जातरूप्यं सुवर्णं तु दिवाऽऽहृतं च यज्जलं ।
तेन स्नात्वा च पीत्वा च गामालभ्य विशुध्यति ॥ ३.९ ॥

दासनापितगोपाल- कुलमित्रार्धसीरिणः ।
एते शूद्रास्तु भोज्यान्ना यश्चाऽऽत्मानं निवेदयेत् ॥ ३.१० ॥

असच्छूद्रेषु अन्नाद्यं ये भुञ्जन्त्यबुधा द्विजाः ।
प्रायश्चित्तं तथा प्राप्तं चरेच्चान्द्रायणव्रतम् ॥ ३.११ ॥

यः करोत्येकरात्रेण वृषलीसेवनं द्विजः ।
तद्भक्षणे जपेन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ ३.१२ ॥

वृषलीं यस्तु गृह्णाति ब्राह्मणो मदमोहितः ।
सदा सूतकिता तस्य ब्रह्महत्या दिने दिने ॥ ३.१३ ॥

वृषलीगमनं चैव मासमेकं निरन्तरम् ।
इह जन्मनि शूद्रत्वं पुनः श्वानो भविष्यति ॥ ३.१४ ॥

वृषलीफेनपीतस्य निःश्वासोपगतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥ ३.१५ ॥

अग्रे माहिषकं दृष्ट्वा मध्ये च वृषलीपतिम् ।
अन्ते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः ॥ ३.१६ ॥

महिषीत्युच्यते भार्या सा चैव व्यभिचारिणी ।
तान् दोषान् क्षमते यस्तु स वै माहिषकः स्मृतः ॥ ३.१७ ॥

पितुर्गेहे तु या कन्या पश्यत्यसंस्कृता रजः ।
भ्रूणहत्या पितुस्तस्याः कन्या सा वृषली स्मृता ॥ ३.१८ ॥

यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः ।
असंभष्यो ह्यपाङ्क्तेयः स विप्रो वृषलीपतिः ॥ ३.१९ ॥

प्राप्ते द्वादशमे वर्षे कन्यां यो न प्रयच्छति ।
मासि मासि रजस्तस्याः पिता पिबति शोणितम् ॥ ३.२० ॥

अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ।
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥ ३.२१ ॥

माता चैव पिता चैव ज्येष्ठभ्राता तथैव च ।
त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥ ३.२२ ॥

समर्घं धनमुत्सृज्य मह[हा]र्घं यः प्रयच्छति ।
स वै वार्धुषिको ज्ञेयो ब्रह्मवादिषु गर्हितः ॥ ३.२३ ॥

शुक्रक्षयकरा वन्ध्या त्याज्यैति परिकीर्तिता ।
तस्यास्तु यो भवेद्भर्ता तं तु विद्यादजाविकम् ॥ ३.२४ ॥

दूराच्छ्रान्तं भयग्रस्तं ब्राह्मणं गृहमागतम् ।
अनर्चयित्वा यो भुङ्क्ते तत्क्षणेऽसौ विधीयते ॥ ३.२५ ॥

अजाविको माहिषश्च तथा च वृषलीपतिः ।
तृणाग्रेणापि संस्पृष्ट्वा सवासा जलमाविशेत् ॥ ३.२६ ॥

यावदुष्णं भवेदन्नं यावद्भुञ्जन्ति वाग्यताः ।
पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ ३.२७ ॥

हविर्गुणा न वक्तव्याः पितरो यान्त्यतर्पिताः ।
पितृभिस्तर्पितैः पश्चाद्वक्तव्यं शोभनं हविः ॥ ३.२८ ॥

यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रितः ।
तावतो ग्रसते प्रेत्य दीप्तान् ग्रासानयोमयान् ॥ ३.२९ ॥

आसनेश्वासनं दद्यान्न तु हस्ते कदाचन ।
हस्तेश्वासनदाने च निराशाः पितरो गताः ॥ ३.३० ॥

आसने पादमारूढो वस्त्रस्यार्धमधः कृतम् ।
मुखेन धमितं भुङ्क्ते द्विजश्चान्द्रायणं चरेत् ॥ ३.३१ ॥

अङ्गुल्यां यः पवित्राणि कृत्वा गन्धान् समर्च[र्प]येत् ।
पितॄणां नोपतिष्ठेत राक्षसैर्विप्रलुप्यति ॥ ३.३२ ॥

हसन्ग्रासं च यो भुङ्क्ते सशब्दं सेङ्गितं तथा ।
लेहितं वर्तितं चैव षडेते पङ्क्तिदूषकाः ॥ ३.३३ ॥

श्वित्री कुष्ट्ःी तथा शूली कुनखी श्यावदन्तकः ।
रोगी हीनातिरिक्ताङ्गः पिशुनो मत्सरी तथा ॥ ३.३४ ॥

दुर्भगो हि तथा षण्ढः पाखण्डी वेदनिन्दकः ।
हैतुकः शूद्रयाजी च अयाज्यानां च याजकः ॥ ३.३५ ॥

नित्यं प्रतिग्रहे लुब्धो याचको विषयात्मकः ।
श्यावदन्तोऽथ वैद्यश्च असदालापकस्तथा ॥ ३.३६ ॥

एते श्राद्धे च दाने च वर्जनीयाः प्रयत्नतः ।
तथा देवलकश्चैव भृतको वेदविक्रयी ॥ ३.३७ ॥

एते वर्ज्याः प्रयत्नेन एवमेव यमोऽब्रवीत् ।
निराशाः पितरस्तस्य भवन्ति ऋणभागिनः ॥ ३.३८ ॥

अथ चेन्मत्र[न्त्र]विद्युक्तो वैष्णवो ज्ञानवान् हि सः ।
हव्यकव्ये नियोक्तव्य इति प्राह स्वयं यमः ॥ ३.३९ ॥

तस्मात्सर्वप्रयत्नेन श्राद्धे यज्ञे च कर्मणि ।
अदूष्यं चैव विप्रेन्द्रं योजनीयं[येत्तु] प्रयत्नतः ॥ ३.४० ॥

तथैव मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषनैः ।
वर्जितं च यमः प्राह पङ्क्तिपावन एव सः ॥ ३.४१ ॥

निर्मत्सरः सदाचारः श्रोत्रियो ब्रह्मविद्युवा ।
विद्याविनयसंपन्नः पात्रभूतो द्विजोत्तमः ॥ ३.४२ ॥

वेदान्तविज्ज्येष्ठसामा अलुब्धो वेद तत्परः ।
योजनीयः प्रयत्नेन दैवे पित्र्ये च कर्मणि ।
यदत्तं च हुतं तस्मै ह्यनन्तं नात्र संशयः ॥ ३.४३ ॥

उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रेण वा द्विजः ।
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ॥ ३.४४ ॥

उच्छिष्टभाजनं येन विप्रेण चान्नवर्जितम् ।
स्पृष्टं तेन प्रमादाच्च प्राजापत्यं समाचरेत् ॥ ३.४५ ॥

उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणो ब्राह्मणेन हि ।
दशरुद्रीं जपेत्पश्चाद्गायत्र्या शोधनं परम् ॥ ३.४६ ॥

उच्छिष्टोच्छिष्टसंस्पृष्टः क्षत्त्रियो वैश्य एव च ।
प्रमादोच्छिष्टसंस्पृष्टः शूद्रेण तु यदा द्विजः ॥ ३.४७ ॥

उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ।
श्वानकुक्कुटमार्जाराः काको वा स्पृशते यदि ॥ ३.४८ ॥

उच्छिष्टं तं द्विजं यस्तु अहोरात्रेण शुध्यति ।
पञ्चगव्येन शुद्धिः स्यादित्याह भगवान् यमः ॥ ३.४९ ॥

रजस्वलां स्पृशेद्यस्तु त्रिरात्रं तत्र कारयेत् ।
उपोष्य द्विजसंस्कारं पञ्चगव्येन शुध्यति ॥ ३.५० ॥

उदक्या दृष्टिपातेन श्रुतशब्देन चैव हि ।
स्नानं देवार्चनं दानं हवनं च प्रणश्यति ॥ ३.५१ ॥

रक्तवस्त्रस्य विक्रेता लाक्षारजकमेव च ।
वेणुजीवनकैवर्त- तक्षचर्मोपजीविनः ॥ ३.५२ ॥

एतेषां स्पर्शनात्पापं तथा चैव तु मोहितः ।
प्रतिग्रहाच्च विप्रो वै नरकं प्रतिगच्छति ॥ ३.५३ ॥

उदक्याः स्पर्शने चैव ब्राह्मणो वै प्रमादतः ।
षड्रात्रोपोषितः स्नात्वा पञ्चगव्येन शुध्यति ॥ ३.५४ ॥

सूतके वर्तमानेऽपि दासवर्गस्य का क्रिया ।
स्वामितुल्यं भवेत्तस्य सूतकं तु प्रशस्यते ॥ ३.५५ ॥

यन्न कारयते तत्तन्नान्यं प्रत्यब्रवीद्यमः ।
विवाहोत्सवयज्ञेषु कार्ये चैवमुपस्थिते ॥ ३.५६ ॥

रजः पश्यति या नारी तस्य कालस्य का क्रिया ।
विपुले च जले स्नात्वा शुक्लवासास्त्वलङ्कृता ॥ ३.५७ ॥

आपो हिष्ट्ःेत्यृगभिषिक्ताऽऽयं गौरिति वा ऋचः[चा] ।
पूजान्ते होमयेत्पश्चाद्घृताहुत्या शताष्टकं ॥ ३.५८ ॥

गायत्र्या व्याहृतिभिश्च ततः कर्म समाचरेत् ।
यावद्द्विजा न चार्च्यन्ते अन्नदानहिरण्यकैः ॥ ३.५९ ॥

तावच्चीर्णव्रतस्यापि तत्पापं न प्रणश्यति ॥ ३.६० ॥

यद्देहकं काकबलाकचिल्लाम्- एध्येन लिप्तं तु भवेत्कदाचित् ।
श्रोत्रे मुखे वा परिमस्तके वा ज्ञा[स्ना]नेन लेपोपहतस्य शुद्धिः ॥ ३.६१ ॥

अभक्ष्याणामपेयानामलेह्यानां च भक्षणे ।
रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ॥ ३.६२ ॥

पद्मोदुम्बरबिल्वानां कुशाश्वत्थपलाशयोः ।
एतेषामुदकं पीत्वा पञ्चगव्येन शुध्यति ॥ ३.६३ ॥

स्त्रीणां रजस्वलानां च स्पर्शश्चैव भवेद्यदि ।
चतुर्णामपि वर्णनां प्रायश्चित्तं कथं भवेत् ॥ ३.६४ ॥

स्पृष्ट्वा रजस्वलाऽन्योन्यं सगोत्रा चान्यगोत्रका ।
कामादकामतो वाऽपि त्रिरात्राच्चुद्धिरिष्यते ॥ ३.६५ ॥

स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्त्रिया तथा ।
अर्धकृच्छ्रं चरेत्पूर्वा पादकृच्छ्रं तथोत्तरा ॥ ३.६६ ॥

स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी वैश्यिनी तथा ।
पादहीनं चरेत्पूर्वा पादमेकं तथोत्तरा ॥ ३.६७ ॥

स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रिणी तथा ।
कृच्छ्रेण शुध्यते शूद्री ब्राह्मी दानेन शुध्यति ॥ ३.६८ ॥

विप्रः स्पृष्टो निशायां तूदक्यया पतितेन वा ।
दिवाऽऽनीतेन तोयेन स्नापयेदग्निसंनिधौ ॥ ३.६९ ॥

दिवा चैवार्कसंस्पृष्टं रात्रौ नक्षत्रदर्शनात् ।
संध्ययोरुभयोर्वाऽपि पवित्रं सर्वदा जलम् ॥ ३.७० ॥

इति श्रीयाम्ये धर्मशास्त्रे तृतीयोऽध्यायः ॥

अध्याय ४

खातं वापी तथा कूप- पाषाणे शस्त्रघातिते ।
यष्ट्या तु घातिते चैव मृत्पिण्डान्येव साधयेत् ॥ ४.१ ॥

गोवधे चैव यत्पापं बलीवर्दस्य चैव हि ।
प्रायश्चित्तं भवेत्तत्र स्त्रिया वा पुरुषस्य वा ॥ ४.२ ॥

खाते च पतिता या गौः कूपे वा चावटेऽपि वा ।
आशा[शै]वालकुडे[ण्डे] वाऽपि शस्त्रघातेन चैव हि ॥ ४.३ ॥

यष्ट्या तु पतिता या गौर्बलीवर्दो मृतोऽपि वा ।
वत्सो वत्सतरो वाऽपि प्रायश्चित्ती भवेन्नरः ॥ ४.४ ॥

नारी वाऽपि कुमारो वा प्रायश्चित्ताद्विशुध्यति ।
पापी प्रख्यापयेत्पापं दत्त्वा धेनुं तथा वृषम् ॥ ४.५ ॥

प्रच्छन्नपापिनो ये स्युः कृतघ्ना दुष्टचारिणः ।
नरकेषु च पच्यन्ते यावदाभूतसंप्लवम् ॥ ४.६ ॥

तस्माच्च पापिना ग्राह्यं प्रायश्चित्तं यथा तथा ।
प्रमादाच्च हता येन कपिला वा तथेतरा ॥ ४.७ ॥

यथा ब्रह्मवधे पापं कपिलाया वधे तथा ।
बलीवर्देऽपि च तथा प्रायश्चित्तं समं स्मृतम् ॥ ४.८ ॥

रोधने बन्धने चैव मृत्पिण्डनवगोमये ।
उत्कृष्टेनापि गोहन्ता प्रायश्चित्तेन शुध्यति ॥ ४.९ ॥

मुष्ट्या वा निहता या गौः शकटे धा[वा]रिपङ्कयोः ।
गोवर्तपतिता गावः श्वनद्यामुत्तरेऽपि वा ॥ ४.१० ॥

एतत्ते कथितं सर्वं गवां च [वि]घातमुत्तमम् ।
यत्र यत्र म्रियेद्गौश्च प्रायश्चित्तं पृथक्पृथक् ॥ ४.११ ॥

वने च पतिता या गौः पामरत्राट [स]शङ्क्तिता ।
मृता चैव यदा सा गौः प्रायश्चित्ती भवेच्च सः ॥ ४.१२ ॥

प्रेषितः पुरुषो वाऽपि प्रायश्चित्तं च यत्स्मृतम् ।
आब्दिकं चैव शूद्रस्य वैश्यस्य द्विगुणं भवेत् ॥ ४.१३ ॥

त्रिगुणं क्षत्त्रियस्यैव विप्रस्यैव चतुर्गुणम् ।
गोष्ठे निवसनं कार्यं गोघ्नोऽहमिति वाचयेत् ॥ ४.१४ ॥

कष्टेन वर्तमानोऽपि कालेनैव शुचिर्भवेत् ।
गवां मध्ये वसेद्रात्रौ दिवा गा वै(?) ह्यनुव्रजेत् ॥ ४.१५ ॥

न स्त्रीणां वपनं कुर्यान्न च गोव्रजनं स्मृतम् ।
न च गोष्ठे वसेद्रात्रौ न कुर्याद्वैदिकीं श्रुतिम् ॥ ४.१६ ॥

सर्वान् केशान् समुच्छ्रित्य च्छेदयेदङ्गुलद्वयम् ।
एष ए[वमे]व तु नारीणां शिरोमुण्डापनं स्मृतम् ॥ ४.१७ ॥

सूतके मृतके चैव विधिं प्रब्रूहि नो यम ।
जातके वर्तमानेऽपि मृतकं च यदा भवेत् ॥ ४.१८ ॥

को विधिः स विनिर्दिष्टः कथयस्व यथा तथम् ।
एवमुक्तो हि भगवान् यमः प्राह यथा तथम् ॥ ४.१९ ॥

जातके नैव मृतकं क्षयं याति न संशयः ।
पूर्वव्रतमनिर्दिष्टं मया च सूतकं भवेत् ॥ ४.२० ॥

सूतकेन न लिप्येत इति प्राह स्वयं यमः ।
सूतकेन न लिप्येत व्रतं संपूर्णतां व्रजेत् ॥ ४.२१ ॥

श्राद्धं दानं तपो यज्ञो देवताराधनं तथा ।
ब्रह्महा च सुरापश्च स्वर्णस्तेयी गुरुद्रुहः ॥ ४.२२ ॥

संसर्गी पञ्चमो ज्ञेयस्तत्समो नात्र संशयः ।
एतेषु द्वादशाब्दं च प्रायश्चित्तं विधीयते ॥ ४.२३ ॥

तथा पातकिनां चैव षडब्दं चैव संस्मृतम् ।
उपपातकिनां चैव त्रिपञ्चाब्दं विधीयते ॥ ४.२४ ॥

प्राजापत्यैस्त्रिभिः कृच्छ्रं कृच्छ्रं वै द्वादशाब्दिकम् ।
एकभक्तं तथा नक्तमुपवासमथापि वा ॥ ४.२५ ॥

एतद्दिनचतुष्केण पादकृच्छ्रश्च जायते ।
त्रिपादकृच्छ्रो विज्ञेयः पापक्शयकरः स्मृतः ॥ ४.२६ ॥

धर्मशास्त्रानुसारेण प्रायश्चित्तं मनीषिभिः ।
दातव्यं पापमुक्त्यर्थं प्राणिनां पापकारिणाम् ॥ ४.२७ ॥

अनुतापाद्य[पो य]दा पुंसां[सो] भवेद्वै पापिनः किल ।
प्रायश्चित्तं तदा देयमित्याह भगवान् यमः ॥ ४.२८ ॥

अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः ।
प्रायश्चित्ती भवेत्पूतस्तत्पापं पर्षदं व्रजेत् ॥ ४.२९ ॥

तस्माच्छास्त्रानुसारेण प्रायश्चित्तं विधीयते ।
अष्टशाल्यां मृता ये च ये च स्त्रीसूतके मृताः ॥ ४.३० ॥

द्रंष्ट्राभिर्भक्षिता ये च ये च आत्महनो जनाः ।
अष्टशाल्यां मृतो विप्रः प्रायश्चित्तं तु बन्धुभिः ॥ ४.३१ ॥

कार्यं तु आब्दिकं चैव तथा स्त्रीणां च दापयेत् ।
शुद्ध्यर्थं नान्यथा भाव्यमित्याह भगवान् यमः ॥ ४.३२ ॥

दुर्मृत्युमरणं प्राप्ता येऽप्यधोगतिमागताः ।
तेषां शुद्ध्यर्थमेवात्र द्वित्र्यब्दं हि विशिष्यते ॥ ४.३३ ॥

ब्राह्मणक्षत्त्रियविशां शूद्रानां चान्त्यजातिनाम् ।
तारतं येन दातव्यमिति प्राह स्वयं यमः ॥ ४.३४ ॥

पतितानां च विप्राणां तथा स्त्रीणां विगर्हितम् ।
कथं शुद्धिर्भवेत्तासां तेषां चैव विशेषतः ॥ ४.३५ ॥

व्यभिचारादृतौ शुद्धिः स्त्रीणां चैव न संशयः ।
गर्भे जाते परित्यागो नान्यथा मम भाषितम् ॥ ४.३६ ॥

दुष्टस्त्रीदर्शनेनैव पितरो यान्त्यधोगतिम् ।
घृतं योन्यां क्षिपेद्घोरं परपुंसगता हि या ॥ ४.३७ ॥

हवनं च प्रयत्नेन गायत्र्या चायुतत्रयम् ।
ब्राह्मणान् भोजयेत्पश्चाच्छतमष्टोत्तरेण हि ॥ ४.३८ ॥

विधवा चैव या नारी पुंसोपगतसेविनी ।
त्याज्या सा बन्धुभिश्चैव नान्यथा यमभाषितम् ॥ ४.३९ ॥

पतितस्य च विप्रस्य अनुतापरतस्य च ।
पापाच्चैव निवृत्तस्य प्रायश्चित्ती भवेत्तदा ॥ ४.४० ॥

तारतं येन दातव्यं प्रायश्चित्तं यथा विधि ।
सकामो हि यदा विप्रः पापाचारपरो भवेत् ॥ ४.४१ ॥

दृष्ट्वा[दिष्ट्या] निवृत्तपापौघः प्रायश्चित्ती तदार्हति ।
तथा क्षत्त्रियवैश्यौ वा शूद्रो वाऽपि यथा क्रमात् ॥ ४.४२ ॥

विधवागमने पापं सकृच्चैव तु यद्भवेत् ।
असकृच्च यदा ज्ञात्वा प्रायश्चित्तं प्रवर्तते ॥ ४.४३ ॥

असकृद्गमनाच्चैव चरेच्चान्द्रायणद्वयम् ।
सकृद्गमने यत्पापं प्राजापत्यद्वयेन हि ॥ ४.४४ ॥

पुनर्भूर्विकृता येन कृता विप्रेण चैव हि ।
विना शाखाप्रभेदेन पुनर्भूर्भण्यते हि सा ॥ ४.४५ ॥

सवर्णश्च सवर्णायामभिषिक्तो यदा भवेत् ।
ब्राह्मणः कामलुब्धोऽपि श्राद्धे यज्ञे च गर्हितः ॥ ४.४६ ॥

क्षत्त्रियो ब्राह्मणीसक्तः क्षत्त्रिण्यां विश एव वा ।
वैश्याया गमने शूद्रः पतिताया भवान् यथा ॥ ४.४७ ॥

प्रातिलोम्ये महत्पापं प्रवदन्ति मनीषिणः ।
प्रायश्चित्तं चाऽऽनुलोम्ये न भवत्येव चान्यथा ॥ ४.४८ ॥

मानसं वाचिकं चैव कायिकं पातकं स्मृतम् ।
तस्मात्पापाद्विशुद्ध्यर्थं प्रायश्चित्तं दिने दिने ॥ ४.४९ ॥

प्रातह्संध्यां सनक्षत्रामुपास्यामे[सीतै]व यत्नतः ।
मध्याह्ने च तथा रौद्रीं सायं चैव तु वैष्णवीम् ॥ ४.५० ॥

त्रिविधं पापशुद्ध्यर्थं संध्योपासनमेव च ।
संध्याहीनो हि यो विप्रः स्नानहीनस्तथैव च ॥ ४.५१ ॥

स्नानहीनो मलाशी स्यात्संध्याहीनो हि भ्रूणहा ।
नैशं पा([नश्येत्पा])पं हि यां ध्यात्वा उ([तुरु])पासनपरो हि सः ॥ ४.५२ ॥

ब्रह्मलोकं व्रजत्येव नान्यथा यमभाषितम् ।
विद्यातपोभ्यां संयुक्तः शान्तः शुचिरलम्पटः ॥ ४.५३ ॥

अलुभ्दाह्लादनिष्पापा भूदेवा नात्र संशयः ।
पात्रीभूताश्च विज्ञेया विप्रास्ते नात्र संशयः ॥ ४.५४ ॥

तेभ्यो दत्तमनन्तं हि इत्याह भगवान् यमः ।
कुकर्मस्थास्तु ये विप्रा लोलुपा वेदवर्जिताः ॥ ४.५५ ॥

संध्याहीना व्रतभ्रष्टाः पिशुना विषयात्मकाः ।
तेभ्यो दत्तं निष्फलं स्यान्नात्र कार्याविचारणा ॥ ४.५६ ॥

प्रतिग्रहे संकुचिता यदान्यातैयविधृता ।
भूमिदर्शनात्पापमोचका कृतत्रेताद्वापरे कलौ नौवर्वीरोषितः ॥ ४.५७ ॥

राजप्रतिग्रहात्सर्वं ब्रह्मवर्चसमेव च ।
नश्यतीति न संदेह इत्याह भगवान् यमः ॥ ४.५८ ॥

राज्ञां प्रतिग्रहस्त्याज्यो लोकत्रयजिगीषुभिः ।
राज्ञः प्रतिग्रहाच्चैव ब्राह्मण्यं हि विलुप्यते ॥ ४.५९ ॥

गावो दूरप्रचारेण हिरण्यं लोभलिप्सया ।
स्त्री विनश्यति गर्वे[भे]ण ब्राह्मणो राजसेवया ॥ ४.६० ॥

सेवकाश्चापि विप्राणां राज्ञां सुकृतनामभिः ।
कुम्भीपाकेषु पच्यन्ते यावदाभूतसंप्लवम् ॥ ४.६१ ॥

असेव्यासेविनो विप्रा अयाज्यानां च याजकाः ।
अपाङ्क्तास्ते च विज्ञेयाः सर्वधर्मबहिष्कताः ॥ ४.६२ ॥

इति श्रीयाम्ये धर्मशास्त्रे चतुर्थोऽध्यायः ॥

अध्याय ५

अतः परं प्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ।
सर्वेषामन्त्यजातीनां वर्णादीनां यथा क्रमम् ॥ ५.१ ॥

स्त्रीसंपर्कादिकं सर्वं जातमन्त्यजसंज्ञकम् ।
योनिसंकरजं सर्वं वर्णतश्चापि सर्वशः ॥ ५.२ ॥

विप्रक्षत्त्रियविट्शूद्रा- वर्णिजात्येष्वनुक्रमात् ।
एते ब्राह्मणकुत्साः स्युस्तस्माद्ब्राह्मण([ण्य])मुत्तमम् ॥ ५.३ ॥

वेदाचाररतो विप्रो वेदवेदाङ्गपारगः ।
तैरप्यनुष्ठितो धर्म उक्तश्चैव विशेषतः ॥ ५.४ ॥

कार्ये चैव विशेषेण त्रिभिर्वर्नैरतन्द्रितः ।
बलाद्दासी कृता ये च म्लेच्छचाण्डालदस्युभिः ॥ ५.५ ॥

अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ।
प्रायश्चित्तं च दातव्यं तारतं येन वा द्विजैः ॥ ५.६ ॥

श्राद्धकाले यदा जाता पत्नी यस्य रजस्वला ।
प्रसूता वा न कार्य च दैविकं पैतृकं तथा ॥ ५.७ ॥

ब्राह्मणा मन्त्रिताश्चैव क्षणिता वा प्रयत्नतः ।
उद्दिश्य पितृपाकं च कार्यं पैतृकमेव तत् ॥ ५.८ ॥

आशौचं न भवत्येव नात्र कार्या विचारणा ।
प्रस्थाने वा पिता तस्य पञ्चत्वं च गतो भवेत् ॥ ५.९ ॥

श्राद्धादिकां तु पुत्रेण अज्ञातेन कृतं यदा ।
कन्या प्रदानसमये श्रुतं च पि([तवान्पि])तरं मृतम् ॥ ५.१० ॥

कन्यादानं च तत्कार्यं वचनाद्भवते[ति] क्षमः ।
पितुः पात्रादिकं कर्म पश्चात्सर्वं यथा विधि ॥ ५.११ ॥

अज्ञानाच्च कृतं सर्वं दैविकं पैतृकं च यत् ।
जातके सू([मृ])तके वाऽपि तत्सर्वं सफलं भवेत् ॥ ५.१२ ॥

व्यासेनोक्तस्मृतौ स्वकीये अज्ञानात्पितरि मृते यदा ज्ञातु सदैव कार्यं पितृकमेव वा ॥ ५.१३ ॥

अनेके यस्य ये पुत्राः संसृष्टा हि भवन्ति च ।
ज्येष्ठेन हि कृतं सर्वं सफलं पैतृकं भवेत् ॥ ५.१४ ॥

वैदिकं च तथा सर्वं भवत्येव न संशयः ।
पृथक्पिण्डं पृथक्श्राद्धं वैश्वदेवादिकं च यत् ॥ ५.१५ ॥

भ्रातरश्च पृथक्कुर्युर्नाविभक्ताः कदाचन ।
अपुत्रस्य च पुत्राः स्युः कर्तारः सांपरायणाः ॥ ५.१६ ॥

सफलं जायते सर्वामिति शातातपोऽब्रवीत् ।
न च दत्तोऽप्यहीनोऽति- स्नेहेन च तथाऽपरः ॥ ५.१७ ॥

बलाद्गृहीतो बद्धश्च बन्धुभिर्दत्त एव च ।
भ्रातुः पुत्रो मित्रपुत्रः शिष्यश्चैव तथौरसः ॥ ५.१८ ॥

अपुत्रस्य च विज्ञेया दायादा नात्र संशयः ।
नवैते पुत्रवत्पाल्याः परलोकप्रदा ह्यमी ॥ ५.१९ ॥

औरसेन समा ज्ञेया वचसोद्दालकस्य च ।
इदानीं भागनिर्णयमृषिः शातातपोऽब्रवीत् ॥ ५.२० ॥

ज्येष्ठेन वा कनिष्ठेन विभागस्य विनिर्णयः ।
समभागप्रदाता च अपुत्रेभ्यो न संशयः ॥ ५.२१ ॥

समभागो ग्रहीतव्यः पुत्रमत्या सदैव हि ।
पितृभ्यो भ्रातृपुत्रेभ्यो दायादेभ्यो यथा क्रमात् ॥ ५.२२ ॥

अधिकस्य च भागौ द्वौ इतरेभ्यः(?) समासतः ।
आधौ प्रतिग्रहे क्रान्ते पूर्वा तु बलवत्तरा ॥ ५.२३ ॥

सर्वेस्वेव विवादेषु बलवत्युत्तरा क्रिया ।
समविद्योत्तरं चैव प्रत्यवस्कन्दनं तथा ॥ ५.२४ ॥

पूर्वं न्यासविधिश्चैव उत्तरः स्याच्चतुर्विधः ।
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ॥ ५.२५ ॥

पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ।
असाक्षिव्यवहारेषु दिव्यं देयं यथा विधि ॥ ५.२६ ॥

इति श्रीयाम्ये धर्मशास्त्रे पञ्चमोऽध्यायः ।
समाप्तेयं बृहद्यमस्मृतिः ॥