अथ वेदव्यासस्मृतिः
श्रीगणेशाय नमः
प्रथमोऽध्यायः
अथ धर्माचरणादेशप्रयुक्तवर्णषोडशसंस्कारवर्णनम्
वाराणस्यां सुखासीनं वेदव्यासं तपोनिधिम्
पप्रच्छुर्मुनयोऽभ्येत्य धर्मान् वर्णव्यवस्थितान् १
स पृष्टः स्मृतिमान् स्मृत्वा स्मृतिं वेदार्थगर्भिताम्
उवाचाथ प्रसन्नात्मा मुनयः श्रूयतामिति २
यत्र यत्र स्वभावेन कृष्णसारो मृगः सदा
चरते तत्र वेदोक्तो धर्मो भवितु मर्हति ३
शुरिस्मृतिपुराणानां विरोधो यत्र दृश्यते
तत्र श्रौतं प्रमाणन्तु तयोर्द्वैधे स्मृतिर्वरा ४
ब्राह्मणःक्षत्रियोवैश्यस्त्रयो वर्णा द्विजातयः
श्रुतिस्मृतिपुराणोक्तधर्मयोग्यास्तु नेतरे ५
शूद्रोवर्णश्चतुर्थोऽपि वर्णत्वाद्धर्ममर्हति
वेदमन्त्रस्वधास्वाहावषट्कारादिभिर्विना ६
विप्रवद्विप्रविन्नासु क्षत्रविन्नासु विप्रवत्
जातकर्माणि कुर्वीत ततः शूद्रासु शूद्रवत् ७
वैश्यासु विप्रक्षत्त्राभ्यां ततः शूद्रासु शूद्रवत्
अधमादुत्तमायान्तु जातः शूद्राधमः स्मृतः ८
ब्राह्मण्यां शूद्रजनितश्चाण्डालो धर्मवर्जितः
कुमारीसम्भवस्त्वेकः सगोत्रायां द्वितीयकः ९
ब्राह्मण्यां शूद्रजनितश्चाण्डालस्त्रिविधः स्मृतः
वर्द्धकी नापितो गोप आशापः कुम्भकारकः १०
वणिक्किरातकायस्थमालाकारकुटुम्बिनः
एते चान्ये च वहवः शूद्रा भिन्नः स्वकर्मभिः
८
चर्मकारो भटो भिल्लो रजकः पुष्करो नटः
वरटोमेदचण्डालदासस्वपचकोलकाः ११
एतेऽन्त्यजाः समाख्याता ये चान्ये च गवाशनाः
एषां सम्भाषणात् स्नानं दर्शनादर्कवीक्षाणम् १२
गर्भाधानं पुंसवनं सीमन्तो जातकर्म च
नामक्रिया निष्क्रमणेऽन्नाशनं वपनक्रिया १३
कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः
केशान्तः स्नानमुद्वाहो विवाहाग्निपरिग्रहः १४
त्रेताग्निसंग्रहश्चेति संस्काराः षोडश स्मृताः
नवताः कर्णवेधान्ता मन्त्रवर्जं क्रियाः स्त्रियाः १५
विवाहो मन्त्रतस्तस्याः शूद्रस्यामन्त्रतो दश
गर्भाधानं प्रथमतस्तृतीये मासि पुंसवः १६
सीमन्तश्चाष्टमे मासि जाते जातक्रिया भवेत्
एकादशेऽह्नि नामार्कस्येक्षा मासि चतुर्थके १७
षाष्ठे मास्यान्नमश्नीयाच्चूडाकर्म कुलोचितम्
कृतचूडे च बाले च कर्नबेधो विधीयते १८
विप्रो गर्भाष्टमे वर्षे क्षत्त्रमेकादशे तथा
द्वादशे वैश्यजातिस्तु व्रतोपनयनक्रिया १९
तस्य प्राप्तव्रतस्यायं कालः स्यात् द्विगुणाधिकः
वेदव्रतच्युतो व्रात्यः स व्रात्यस्तोममर्हति २०
द्वे जन्मनी द्विजातीनां मातुः स्यात् प्रथमं तयोः
द्वितीयं छन्दसां मातुर्ग्रहणाद्विधिवद्गुरोः २१
एवं द्विजातिमापन्नो विमुक्तो वाल्यदोषतः
श्रुतिस्मृतिपुराणानां भवेदध्ययनक्षमः २२
उपनीतो गुरुकुले वसेन्नित्यं समाहितः
विभृयाद्दण्डकौपीनोपवीताजिनमेखलाः २३
९
पुण्येऽह्नि गुर्वनुज्ञातः कृतमन्त्राहुतिक्रियः
स्मृत्वोङ्कारञ्च गायत्रीमारभेद्वेदमादितः २४
शौचाचारविचारार्थं धर्मशास्त्रमपि द्विजः
पठेत गुरुतः सम्यक् कर्म तद्दिष्टमाचरेत् २५
ततोऽभिवाद्य स्थविरान् गुरुञ्चैव समाश्रयेत्
स्पाध्यायार्थं तदा यत्नः सर्वदा हितमाचरेत् २६
नापक्षिप्तोऽपि भाषेत नोव्रजेत्ताडितोऽपि वा
विद्वेषमथ पैशुन्यं हिंसनञ्चार्कवीक्षणम् २७
तौर्यत्रिकानृतोन्मादपरिवादानलङ्क्रियाम्
अञ्जनोद्वर्त्तनादर्शस्रग्विलेपनयोषितः २८
वृथाटनमसन्तोषं ब्रह्मचारी विवर्जयेत्
ईषच्चलितमध्याह्नेऽनुज्ञातो गुरुणा स्वयम् २९
आलोलुपश्चरेद्भैक्षं व्रतिषूत्तमवृत्तिषु
सद्यो भिक्षान्नमादाय वित्तवत्तदुपस्पृशेत् ३०
कृतमाध्याह्निकोऽश्नीयादनुज्ञातो यथाविधि
नाद्यादेकान्नमुच्छिष्टं भुक्त्वा चाचामितामियात् ३१
नान्यद्भिक्षितमादद्यादापन्नो द्रविणादिकम्
अनिन्द्यामन्त्रितः श्राद्धे पैत्र्येऽदद्याद्गुरुचोदितः ३२
एकान्न मप्यविरोधे व्रतानां प्रथमाश्रमी
भुक्त्वा गुरुमुपासीत कृत्वा सन्धुक्षणादिकम् ३३
समिधोऽग्नावादधीत ततः परिचरेद्गुरुम्
अधीतगुर्वनुज्ञातः प्रह्वश्च प्रथमं गुरोः ३४
एवमन्वहमभ्यासी ब्रह्मचारी व्रतञ्चरेत्
हितोपवादः प्रियवाक् सम्यग्गुर्वर्थसाधकः ३५
नित्यमाराधयेदेनमा समाप्तेः श्रुतिग्रहात्
अनेन विधिनाऽधीतो वेदमन्त्रो द्विजं नयेत् ३६
१०
शापानुग्रहसामर्थ्यमृषीणाञ्च सलोकताम्
पयोऽमृताभ्यां मधुभिः साज्यैः प्रीणन्ति देवताः ३७
तस्मादहरहर्वेदमनध्यायमृते पठेत्
यदङ्गं तदनध्याये गुरोर्वचनमाचरेत् ३८
व्यतिक्रमादसम्पूर्णमनहंकृतिराचरेत्
परत्रेह च तद्ब्रह्म अनधीतमपि द्विजम्
यस्तूपनयनादेतदामृत्योर्त्रतमाचरेत् ३९
स नैष्ठिको ब्रह्मचारी ब्रह्मसायुज्यमाप्नुयात्
उपकुर्वाणकोयस्तु द्विजः षड्विंशवार्षिकः ४०
केशान्तकर्मणा तत्र यथोक्तचरितव्रतः
समाप्य वेदान् वेदौ वा वेदं वा प्रसभं द्विजः ४१
स्नायीत गुर्वनुज्ञातः प्रवृत्तोदितदक्षिणः
इति श्रीवेदव्यासीये धर्मशास्त्रे ब्रह्मचर्याधिकारो नाम प्रथमोऽध्यायः
द्वितीयोऽध्यायः
अथ विवाहविधिवर्णनम्
एवं स्नातकतां प्राप्तो द्वितीयाश्रमकाङ्क्षया
प्रतीक्षेत विवाहाथमनिन्द्यान्वयसम्भवाम् १
अरोगादुष्टवंशोत्थामशुल्कादानदूषिताम्
सवर्णामसमानार्षाममातृपितृगोत्रजाम् २
अनन्यपूर्विकां लघ्वीं शुभलक्षणसंयुताम्
धृताधोवसनां गौरीं विख्यातदशपूरुषाम् ३
ख्यातनाम्नः पुत्रवतः सदाचारवतः सतः
दातुमिच्छोर्दुहितरं प्राप्य धर्मेण चोद्वहेत् ४
ब्राह्मोद्वाहविधानेन तदभावेऽपरो विधिः
दातव्यैषा सदृक्षाय वयोविद्यान्वयादिभिः ५
११
पितृतत्पितृभ्रातृषु पितृव्यज्ञातिमातृषु
पूर्वाभावे परो दद्यात् सर्वाभावे स्वयं व्रजेत् ६
यदि सा दातृवैकल्याद्रजः पश्येत् कुमारिका
भ्रूणहत्याश्च यावत्यः पतितः स्यात्तदप्रदः ७
तुभ्यं दास्याम्यहमिति ग्रहीष्यामीति यस्तयोः
कृत्वा समयमन्योन्यं भजते न स दण्डभाक् ८
त्यजन्नदुष्टां दण्ड्यः स्याद्दूषयंश्चाप्यदूषिताम्
तावन्न दुष्टं दुष्टं च स्वार्थेभ्यो भेदयंश्च तत्
ऊढायां हि सवर्णायामन्या वा काममुद्वहेत् ९
तस्यामुत्पादितः पुत्रो न सवर्णात् प्रहीयते १०
उद्वहेत् क्षत्त्रियां विप्रो वैश्याञ्च क्षत्त्रियो विशाम्
न तु शूद्रां द्विजः कश्चिन्नाधमः पूर्ववर्णजाम् ११
नानावर्णासु भार्यासु सवर्णा सहचारिणी
धर्म्या धर्मेषु धर्मिष्ठा ज्येष्ठा तस्य स्वजातिषु १२
पाटितोऽयं द्विजाः पूर्वमेकदेहः स्वयम्भुवा
पतयोऽर्द्धेन चार्द्धेन पत्न्योऽभूवन्निति श्रुतिः १३
यावन्न विन्दते जायां तावदर्द्धो भवेत् पुमान्
नार्द्धं प्रजायते सर्वं प्रजायेतेत्यपि श्रुतिः १४
गुर्वी सा भूस्त्रिवर्गस्य वोढुं नान्येन शक्यते
यतस्ततोऽन्वहं भूत्वा स्ववशो बिभृयाच्च ताम् १५
कृतदारोऽग्निपत्नीभ्यां कृतवेश्मा गृहं वसेत्
स्वकृत्यं वित्तमासाद्य वैतानाग्निं न हापयेत् १६
स्मार्त्तं वैवाहिके वह्नौ श्रौतं वैतानिकाग्निषु
कर्म कुर्यात् प्रतिदिनं विधिवत् प्रीतिपूर्वतः १७
सम्यग्धर्मार्थकामेषु दम्पतिभ्यामहर्निशम्
एकचित्ततया भाव्यं समानव्रतवृत्तितः १८
१२
न पृथग्विद्यते स्त्रीणां त्रिवर्गविधिसाधनम्
भावतो ह्यतिदेशाद्वा इति शास्त्रविधिः परः १९
पत्युः पूर्वं समुत्थाय देहशुद्धिं विधाय च
उत्थाप्य शयनाद्यानि कृत्वा वेश्मविशोधनम् २०
मार्जनैर्लेपनैः प्राप्य साग्निशालं स्वमङ्गनम्
शोधयेदग्निकार्याणि स्निग्धान्युष्णेन वारिणा २१
प्रोक्षण्यैरिति तान्येव यथास्थनं प्रकल्पयेत्
द्वन्द्वपात्राणि सर्वाणि न कदाचिद्वियोजयेत् २२
शोधयित्वा तु पात्राणि पूरयित्वा तु धारयेत्
महानसस्य पात्राणि बहिः प्रक्षाल्य सर्वथा २३
मृद्भिश्च शोधयेच्चुल्लीं तत्राग्निं विन्यसेत्ततः
स्मृत्वा नियोगपात्राणि रसांश्च द्रविणानि च २४
कृतपूर्वाह्णकार्या च स्वगुरूनभिवादयेत्
ताभ्यां भर्तृपितृभ्यां वा भ्रातृमातुलबान्धवैः २५
वस्त्रालङ्काररत्नानि प्रदत्तान्येव धारयेत्
मनोवाक्कर्मभिः शुद्धा पतिदेशानुवर्तिनी २६
छायेवानुगता स्वच्छा सखीव हितकर्मसु
दासीवादिष्टकार्येषु भार्या भर्त्तुः सदा भवेत् २७
ततोऽन्नसाधनं कृत्वा पतये विनिवेद्य तत्
वैश्वदेवकृतैरन्नैर्भोजनीयांश्च भोजयेत् २८
पतिञ्चैतदनुज्ञाता शिष्टमन्वाद्यमात्मना
भुक्त्वा नयेदहःशेषमायव्ययविचिन्तया २९
पुनः सायं पुनः प्रातर्गृहशुद्धिं विधाय च ३०
कृतान्नसाधना साध्वी मुभृशं भोजयेत् पतिम्
नातितृप्त्या स्वयं भुक्त्वा गृहनीतिं विधाय च ३१
आस्तीर्य साधुशयनं ततः परिचरेत् पतिम्
१३
सुप्ते पतौ तदभ्यासे स्वपेत्तद्गतमानसा
अनग्ना चाप्रमत्ता च निष्कामा च जितेन्द्रिया ३२
नोच्चैर्वदेन्न परुषं न बहून् पत्युरप्रियम्
न केनचित् विवदेच्च अप्रलापविलापिनी ३३
नचातिव्ययशीला स्यान्न धर्मार्थविरोधिनी
प्रमादोन्मादरोषेर्ष्यावञ्चनञ्चातिमानिताम् ३४
पैशुन्यहिंसाविद्वेषमहाहङ्कारधूर्त्तताः
नास्तिक्यसाहसस्तेयदम्भान् साध्वी विवर्जयेत् ३५
एवं परिचरन्ती सा पतिं परमदैवतम्
यशः शमिह यात्येव परत्र च सलोकताम् ३६
योषितो नित्यकर्मोक्तं नैमित्तिकमथोच्यते
रजोदर्शनतोदोषात् सर्वमेव परित्यजेत् ३७
सर्वेरलक्षिता शीघ्रं लज्जिताऽन्तर्गृहे वसेत्
एकाम्बरावृता दीना स्नानालङ्कारवर्जिता ३८
मौनिन्यधोमुखी चक्षुष्पाणिपद्भिरचञ्चला
अश्नीयात् केवलं भक्तं नक्तं मृण्मयभाजने ३९
स्वपेद्भूमावप्रमत्ता क्षपेदेवमहस्त्रयम्
स्नायीत सा त्रिरात्रान्ते सचैलमुदिते रवौ ४०
विलोक्य भर्त्तुर्वदनं शुद्धा भवति धर्मतः
कृतशौचा पुनः कर्म पूर्ववच्च समाचरेत् ४१
रजोदर्शनतो याः स्यू रात्रयः षोडशर्त्तवः
ततः पुंबीजमाक्लिष्टं शुद्धे क्षेत्रे प्ररोहति ४२
चतस्रश्चादिमा रात्रीः पर्ववच्च विवर्जयेत्
गच्छेद्युग्मासु रात्रीषु पौष्णपित्रर्क्षराक्षसान् ४३
प्रच्छादितादित्यपथे पुमान् गच्छेत् स्वयोषितः
कामालङ्कृदवाप्नोति पुत्रं पूजितलक्षणम् ४४
१४
ऋतुकालेऽभिगम्यैवं ब्रह्मचर्ये व्यवस्थितः
गच्छन्नपि यथाकामं न दुष्टः स्यादनन्यकृत् ४५
भ्रूणहत्यामवाप्नोति ऋतौ भार्यापराङ्मुखः
सा त्ववप्यान्यतो गर्भं त्याज्या भवति पापिनी ४६
महापातकदुष्टा च पतिगर्भविनाशिनी
सद्वृत्तचारिणीं पत्नीं त्यक्त्वा पतति धर्मतः ४७
महापातकदुष्टोऽपि नाप्रतीक्ष्यस्तया पतिः
अशुद्धे क्षयमादूरं स्थितायामनुचिन्तया ४८
व्यभिचारेण दुष्टानां पतीनां दर्शनादृते
धिक्कृतायामवाच्यायामन्यत्र वासयेत् पतिः ४९
पुनस्तामार्त्तवस्नातां पूर्ववद् व्यवहारयेत्
धूर्त्ताञ्च धर्मकामघ्नीमपुत्रां दीर्घरोगिणीम् ५०
सुदुष्टां व्यसनासक्तामहितामधिवासयेत्
अधिविन्नामपि विभुः स्त्रीणान्तु समतामियात् ५१
विवर्णा दीनवदना देहसंस्कारवर्जिता
पतिव्रता निराहारा शोष्यते प्रोषिते पतौ ५२
मृतं भर्त्तारमादाय ब्राह्मणी वह्निमाविशेत्
जीवन्ती चेत्यक्तकेशा तपसा शोधयेद्वपुः ५३
सर्वावस्थासु नारीणां न युक्तं स्यादरक्षणम्
तदेवानुक्रमात् कार्यं पितृभर्तृसुतादिभिः ५४
जाताः सुरक्षिताया ये पुत्रपौत्रप्रपौत्रकाः
ये यजन्ति पितॄन् यज्ञैर्मोक्षप्राप्तिमहोदयः ५५
मृतानामग्निहोत्रेण दाहयेद्विधिपूर्वकम्
दाहयेदविलम्बेन भार्याञ्चात्र व्रजेत सा ५६
इति श्रीवेदव्यासीये धर्मशास्त्रे स्त्र्यधिकारोनाम द्वितीयोऽध्यायः
१५
तृतीयोऽध्यायः
अथ सस्नानादिविधि पूर्वाह्णकृत्यवर्णनम्
नित्यं नैमित्तिकं काम्यमिति कर्म त्रिधा मतम्
त्रिविधं तच्च वक्ष्यामि गृहस्थस्यावधार्यताम् १
यामिन्याः पश्चिमे यामे त्यक्तनिद्रो हरिं स्मरेत्
आलोक्य मङ्गलद्रव्यं कर्मावश्यकमाचरेत् २
कृतशौचो निषेव्याग्निं दन्तान् प्रक्ष्याल्य वारिणा
स्नात्वोपास्य द्विजः सन्ध्यां देवादींश्चैव तर्पयेत् ३
जुहोत्यनुदिते भानावित्येक उदिते रवौ
जपेदादित्यदेवत्यान्मन्त्रान्मन्त्रनियोगवित्
वेदवेदाङ्गशास्त्राणि इतिहासानि चाभ्यसेत्
अध्यापयेच्च सच्छिष्यान् सद्विप्रांश्च द्विजोत्तमः ४
अलब्धं प्रपयेल्लब्ध्वा क्षणमात्रं समापयेत्
समर्थो हि समर्थेन नाविज्ञातः क्वचिद्वसेत् ५
सरित्सरसि वापीषु गर्तप्रस्रवणादिषु
स्नायीत यावदुद्धृत्य पञ्च पिण्डानि वारिणा ६
तीर्थाभावेऽप्यशक्त्यां वा स्नायात्तोयैः समाहृतैः
गृहाङ्गणगतस्तत्र यावदम्बरपीडनम् ७
स्नानमब्दैवतैः कुर्यात् पावनैश्चापि मार्ज्जनम्
मन्त्रैः प्राणांस्त्रिरायम्य सौरैश्चार्कं विलोकयेत् ८
तिष्ठन् स्थित्वा तु गायत्रीं ततः स्वाध्यायमारभेत्
ऋचाञ्च यजुषां साम्नामथर्वाङ्गिरसामपि ९
इतिहासपुराणानां वेदोपनिषदां द्विजः
शक्त्या सम्यक् पठेन्नित्यमल्पमप्यासमापनात् १०
स यज्ञदानतपसामखिलं फलमाप्नुयात्
वेदेभ्योऽन्यत्र संतुष्टः स विप्रः शूद्रतामियात्
१६
तस्मादहरहर्वेदं द्विजोऽधीयीत वाग्यतः ११
धर्मशास्त्रेतिहासादि सर्वेषां शक्तितः पठेत्
कृतत्वाध्यायः प्रथमं तर्पयेच्चाथ देवताः १२
जान्वा च दक्षिणं दर्भैः प्रागग्रैः सयवैस्तिलैः
पुरः क्षिप्तैःकराग्राभ्यां निर्गतैः प्राङ्मुखो द्विजः
एकैकाञ्जलिदानेन प्रकृतिस्थोपवीतकः १३
समजानुद्वयो ब्रह्मसूत्रहार उदङ्मुखः
तिर्य्यग्दर्भैश्च वामाग्रैर्यवैस्तिलविमिश्रितैः १४
अम्भोभिरूत्तरक्षिप्तह् कनिष्ठामूलनिर्गतैः
द्वाभ्यां द्वाभ्यामञ्जलिभ्यां मनुष्यांस्तर्पयेत्ततः १५
दक्षिणाभिमुखः सव्यं जान्वा च द्विगुणैः कुशैः
तिलैर्जलिअश्च देशिन्या मूलदर्भाद्विनिःसृतैः १६
दक्षिणांसोपवीतः स्यात् क्रमेणाञ्जलिभिस्त्रिभिः
सन्तर्पयेद्दिव्यपितॄंस्तत्परांश्च पितॄन् स्वकान् १७
स्वधा वर्जन्यमानेवमेक इच्छन्ति तर्पणे
द्विजतिजीवत्पितृकोऽत्येतानन्याश्चँ तर्पयेत्
तर्पयेद्दिव्यपितॄश्चँ पितॄपूर्वान्पितृन्स्वकान्
मातृमातामहांस्तद्वत्त्रीनेवं हि त्रिभिस्त्रिभिः
मातामहाश्च येऽप्यन्ये गोत्रिणो दाहवर्जिताः १८
तानेकाञ्जलिदानेन तर्पयेच्च पृथक् पृथक्
असंस्कृतप्रमीता ये प्रेतसंस्कारवर्जिताः १९
वस्त्रनिष्पीडनाम्भोभिस्तेषामाप्यायनम्भवेत्
अतर्पितेषु पितृषु वस्त्रं निष्पीडयेच्च यः २०
निराशाः पितरस्तस्य भवन्ति सुरमानुषैः
पयोदर्भस्वधाकारगोत्रनामतिलैर्भवेत् २१
सुदत्तं तत्पुनस्तेषामेकेनापि वृथा विना
१७
अन्यचित्तेन यद्दत्तम् यद्दत्तं विधिवर्जितम् २२
अनासनस्थितेनापि तज्जलं रुधिरायते
एवं सन्तर्पिताः कामैस्तर्पकांस्तर्पयन्ति च २३
ब्रह्मविष्णुशिवादित्यमित्रावरुणनामभिः
पूजयेल्लक्षितैर्मन्त्रैर्जलमन्त्रोक्तदेवताः २४
उपस्थाय रवेः काष्ठां पूजयित्वा च देवताः
ब्रह्माग्नीन्द्रौषधीजीवविष्णुनामहतांहसाम् २५
अपां यत्तेति सत्कायं नमस्कारैः स्वनामभिः
कृत्वा मुखं समालभ्य स्नानमेवं समाचरेत् २६
ततः प्रविश्य भवनमावसथ्ये हुताशने
पाकयज्ञाश्च चतुरो विदध्याद्विधिवद् द्विजः २७
अनाहितावसथ्याग्निरादायान्नं घृतप्लुतम्
शाकलेन विधानेन जुहुयाल्लौकिकेऽनले २८
व्यस्ताभिर्व्याहृतीभिश्च समस्ताभिस्ततः परम्
षड्भिर्देवकृतस्येति मन्त्रवद्भिर्यथाक्रमम् २९
प्राजापत्यं स्विष्टकृतं हुत्वैवं द्वादशाहुतीः
ओङ्कारपूर्वः स्वाहान्तस्त्यागः स्विष्टविधानतः ३०
भुविदर्भान् समास्तीर्य्य बलिकर्म समाचरेत्
विश्वेभ्योदेवेभ्य इति सर्वेभ्यो भूतेभ्य एव च ३१
भूतानां पतये चेति नमस्कारेण शास्त्रवित्
दद्याद्वलित्रयञ्चाग्रे पितृभ्यश्च स्वधा नमः ३२
पात्रनिर्णजनं वारि वायव्यां दिशि निःक्षिपेत्
उद्धृत्य षोडशग्रासमात्रमन्नं घृतोक्षितम्
इदमन्नं मनुष्येभ्यो हन्तेत्युक्त्वा समुत्सृजेत्
गोत्रनामस्वधाकारैः पितृभ्यश्चापि शक्तितः ३३
षड्भ्योऽन्नमन्वहं दद्यात् पितृयज्ञविधानतः
१८
वेदादीनां पठेत् किञ्चिदल्पं ब्रह्ममखाप्तये ३४
ततोऽन्यदन्नमादाय निर्गत्य भवनाद्वहिः
काकेभ्यः श्वपचेभ्यश्च प्रक्षिपेद्ग्रासमेव च ३५
उपविश्य गृहद्वारि तिष्ठेद्यावन्मुहूर्तकम्
अप्रमुक्तोऽतिथिं लिप्सुर्भावशुद्धः प्रतीक्षकः ३६
आगतं दूरतः शान्तं भोक्तुकाममकिञ्चनम्
दृष्ट्वा संमुखमभ्येत्य सत्कृत्य प्रश्रयार्च्चनैः ३७
पादधावनसम्मानाभ्यञ्जनादिभिरर्च्चितः
त्रिदिवं प्रापयेत्सद्यो यज्ञस्याभ्यधिकोऽतिथिः ३८
कालागतोऽतिथिर्द्दष्टवेदपारो गृहागतः
द्वावेतौ पूजितौ स्वर्गं नयतोऽधस्त्वपूजितौ
विवाह्यस्नातकक्ष्माभृदाचार्यसुहृदृत्विजः ३९
अर्ध्या भवन्ति धर्मेण प्रतिवर्षं गृहागताः
गृहागताय सत्कृत्य श्रोत्रियाय यथाविधि ४०
भक्त्योपकल्पयेदेकं महाभागं विसर्जयेत्
विसर्जयेदनुव्रज्य सुतृप्तश्रोत्रियातिथीन्
मित्रमातुलसम्बन्धिवान्धवान् समुपागतान् ४१
भोजयेद् गृहिणो भिक्षां सत्कृतां भिक्षुकोऽर्हति
स्वाद्वन्नमश्नन्नस्वादु ददद्गच्छत्यधोगतिम् ४२
गर्भिण्यातुरभृत्येषु बालवृद्धातुरादिषु
बुभुक्षितेषु भुञ्जानो गृहस्थोऽश्नाति किल्विषम् ४३
नाद्याद्गृध्येन्न पाकान्नं कदाचिदनिमन्त्रितः
निमन्त्रितोऽपि निन्द्येन प्रत्याख्यानं द्विजोऽर्हति ४४
क्षुद्राभिशस्तवार्धुष्यवाग्दुष्टक्रूरतस्कराः
क्रुद्धापबिद्धबद्धोग्रवधबन्धनजीविनः ४५
शैलूषशौण्डिकोन्नद्धोन्मत्तव्रात्यब्रतच्युताः
१९
नग्ननास्तिकनिर्लज्जं पिशुनव्यसनान्विताः ४६
कदर्य्यस्त्रीजितानार्य्यपरवादकृता नराः
अनीशाः कीर्तिमन्तोऽपि राजदेवस्वहारकाः ४७
शयनासनसंसर्गवृत्तकर्मादिदूषिताः
अश्रद्दधानाः पतिता भ्रष्टाचारादयश्च ये ४८
अभोज्यान्नाः स्युरन्नादो यस्य यः स्यात्स तत्समः
नापितान्वयमित्रार्ध सिरिणो दासगोपकाः ४९
शूद्राणामप्यमीषान्तु भुक्त्वाऽन्नं नैव दुष्यति
धर्मेणान्योन्यभोज्यान्ना द्विजास्तु विदितान्वयाः ५०
स्वृवृत्त्योपार्जितं मेध्यमकेशकृमिमक्षिकम्
अश्वलीढप्रगोघ्रातमस्पृष्टं शूद्रवायसैः ५१
अनुच्छिष्टमसंदुष्टमपर्युषितमेव च
अम्लानवाष्पमन्नाद्यमद्यान्नित्यं सुसंस्कृतम् ५२
कृसरापूपसंयावपायसं शष्कुलीति च
नाश्नीयाद् ब्राह्मणो मांसमनियुक्तः कथञ्चन ५३
क्रतौ श्राद्धे नियुक्तो वा अनश्नन् पतति द्विजः
मृगयोपार्जितं मांसमभ्यर्च्य पितृदेवताः ५४
क्षत्त्रियो द्वादशोनं तत् क्रीत्वा वैश्योऽपि धर्मतः
द्विजोजग्ध्वा वृथामांसं हत्वाप्यविधिना पशून् ५५
निरयेष्वक्षयं वासमाप्नोत्याचन्द्रतारकम्
सर्वान् कामान् समासाद्य फलमश्वमखस्य च ५६
मुनिसाम्यमवाप्नोति गृहस्थोऽपि द्विजोत्तमः
द्विजभोज्यानि गव्यानि माहिषाणि पयांसि च ५७
निर्द्दशासन्धिसम्बन्धिवत्सवन्तीपयांसि च
अलावुशिग्रुकवकच्छत्राकलशुनानि च
पलाण्डुश्वेतवृन्ताकरक्तमूलकमेव च ५८
२०
गृञ्जनारुणवृक्षासृग्जन्तुगर्भ फलानि च
अकालकुसुमादीनि द्विजोजग्ध्वैन्दवं चरेत् ५९
वाग्दूषितमविज्ञातमन्यपीडितकार्य्यपि
भूतेभ्योऽन्नमदत्त्वा च तदन्नं गृहिणो दहेत् ६०
हैमराजतकांस्येषु पात्रेष्वद्यात् सदा गृही
तदभावे साधुगन्धलोध्रद्रुमलतासु च ६१
पलाशपद्मपत्रेषु गृहस्थो भोक्तुमर्हति
ब्रह्मचारी यतिश्चैव श्रेयोयद्भोक्तुमर्हति ६२
अभ्युक्ष्यान्नं नमस्कारैर्भुवि दद्याद्वलित्रयम्
भूपतये भुवः पतये भूतानां पतये तथा ६३
अपः प्राश्य ततः पश्चात् पञ्चप्राणाहुतिःक्रमात्
स्वाहाकारेण जुहुयाच्छेषमद्याद्यथासुखम् ६४
अनन्यचित्तो भुञ्जीत वाग्यतोऽन्नमकुत्सयन्
आतृप्तेरन्न मश्नीयादक्षुण्णां पात्रमुत्सृजेत् ६५
उच्छिष्टमन्नमुद्धृत्य ग्रासमेकं भुवि क्षिपेत्
आचान्तः साधुसङ्गेन सद्विद्यापठनेन च ६६
वृत्तवृद्धकथाभिश्चशेषाहमतिवाहयेत्
सायं सन्ध्यामुपासीत हुत्वाऽग्निं भृत्यसंयुतः ६७
आपोशानक्रियापूर्वमश्नीयादन्वहं द्विजः
सायमप्यतिथिः पूज्यो होमकालागतोऽनिशम् ६८
श्रद्धया शक्तितो नित्यं श्रुतं हन्यादपूजितः
नातितृप्त उपस्पृश्य प्रक्षाल्य चरणौ शुचिः ६९
अप्रत्यगुत्तरशिराः शयीत शयने शुभे
शक्तिमानुचिते काले स्नानं सन्ध्यां न हापयेत् ७०
ब्राह्मे मुहूर्त्ते चोत्थाय चिन्तयेद्धितमात्मनः
शक्तिमान् मतिमान् नित्यं वृत्तमेतत् समाचरेत् ७१
२१
इति वेदव्यासीये धर्मशास्त्रे गृहस्थाह्निकोनाम तृतीयोऽध्यायः
चतुर्थोऽध्यायः
अथ गृहस्थाश्रमप्रशंसापूर्वक तीर्थधर्म वर्णनम्
इति व्यासकृतं शास्त्रं धर्मसारसमुच्चयम्
आश्रमे यानि पुण्यानि मोक्षधर्माश्रितानि च १
गृहाश्रमात् परो धर्मो नास्ति नास्ति पुनः पुनः
सर्वतीर्थफलं तस्य यथोक्तं यस्तु पालयेत् २
गुरुभक्तो भृत्यपोषी दयावाननुसूयकः
नित्यजापी च होमी च सत्यवादी जितेन्द्रियः ३
स्वदारे यस्य सन्तोषः परदारनिवर्तनम्
अपवादोऽपि नो यस्य तस्य तीर्थफलं गृहे ४
परदारान् परद्रव्यं हरते यो दिने दिने
सर्व्वतीर्थाभिषेकेण पापं तस्य न नश्यति ५
गृहेषु सेवनीयेषु सर्वतीर्थफलं ततः
अन्नदस्य त्रयो भागाः कर्ता भोगेन लिप्यते ६
प्रतिश्रयं पादशौचं ब्राह्मणानाञ्च तर्पणम्
न पापं संस्पृशेत्तस्य बलिं भिक्षां ददाति यः ७
पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम्
यो ददाति ब्राह्मणेभ्यो नोपसर्पति तं यमः ८
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी
तावत् पुष्करपात्रेषु पिबन्ति पितरोऽमृतम् ९
यत्फलं कपिलादाने कार्तिक्यां ज्येष्ठपुष्करे
तत्फलं ऋषयः श्रेष्ठा विप्राणां पादशौचने १०
स्वागतेनाग्नयः प्रीता आसनेन शतक्रतुः
पितरः पादशौचेन अन्नाद्येन प्रजापतिः ११
२२
मातापित्रोः परं तीर्थं गङ्गा गावो विशेषतः
ब्राह्मणात् परमं तीर्थं न भूतं न भविष्यति १२
इन्द्रियाणि वशीकृत्य गृह एव वसेन्नरः
तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्कराणि च १३
गङ्गाद्वारञ्च केदारं सन्निहत्यां तथैव च
एतानि सर्वतीर्थानि कृत्वा पापैः प्रमुच्यते १४
वर्णानामाश्रमाणाञ्च चातुर्वर्णस्य भो द्विजाः
दानधर्मं प्रवक्ष्यामि यथा व्यासेन भाषितम् १५
यद्ददाति विशिष्टेभ्यो यच्चाश्नाति दिने दिने
तच्च वित्तमहं मन्ये शेषं कस्याभिरक्षति १६
यद्ददाति यदश्नाति तदेव धनिनो धनम्
अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि १७
किं धनेन करिष्यन्ति देहिनोऽपि गतायुषः
यद्वर्द्धयितुमिच्छन्तस्तच्छरीरमशाश्वतम् १८
अशाश्वतानि गात्राणि विभवो नैव शाश्वतः
नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः १९
यदि नाम न धर्माय न कामाय न कीर्तये
यत्परित्यज्य गन्तव्यं गद्धनं किं न दीयते २०
जीवन्ति जीविते यस्य विप्रा मित्राणि बान्धवाः
जीवितं सफलं तस्य आत्मार्थे को न जीवति २१
क्रिमयः किं न जीवन्ति भक्षयन्ति परस्परम्
परलोकाविरोधेन यो जीवति स जीवति
पशवोऽपि हि जीवन्ति केवलात्मोदरम्भराः
किं कायेन सुगुप्तेन बलिना चिरजीविनः २२
ग्रासादर्धमपि ग्रासमर्थिभ्यः किं न दीयते
इच्छानुरूपो विभवः कदा करय भविष्यति २३
२३
अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति
दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति २४
प्राणानाशस्तु कर्तव्यो यः कृतार्थो न सोऽमृतः
अकृतार्थस्तु यो मृत्युं प्राप्तः खरसमोहि सः २५
अनाहूतेषु यद्दत्तं यच्च दत्तमयाचितम्
भविष्यति युगस्यान्तस्तस्यान्तो न भविष्यति २६
मृतवत्सा यथा गौश्च तृष्णा लोभेन दुह्यति
परस्परस्य दानानि लोकयात्रा न धर्मतः २७
अदृष्टे चाशुभे दानं भोक्ता चैव न दृश्यते
पुनरागमनं नास्ति तत्र दानमनन्तकम् २८
मातापितृषु यद्दद्याद् भ्रातृषु श्वशुरेषु च
जायापत्येषु यद्दद्यात् सोऽनन्तः स्वर्गसंक्रमः २९
पितुः शतगुणं दानं सहस्रं मातुरुच्यते
भगिन्यां शतसाहस्रं सोदरे दत्तमक्षयम् ३०
इन्दुक्षयः पिता ज्ञेयो माता चैव दिनक्षयः
संक्रान्तिर्भगिनी चैव व्यतीपातः सहोदरः
अहन्यहनि दातव्यं ब्राह्मणेभ्यो मुनीश्वर
आगमिष्यति यत् पात्रं तत्पात्रं तारयिष्यति ३१
किञ्चिद्वेदमयं पात्रं किञ्चित् पात्रं तपोमयम्
पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ३२
यस्य चैव गृहे मूर्खो दूरे चापि गुणान्वितः
गुणन्विताय दातव्यं नास्ति मूर्खे व्यतिक्रमः ३३
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ३४
ब्राह्मणातिक्रमो नास्ति विप्रे वेदविवर्जिते
ज्वलन्तमग्निसुत्सृज्य न हि भस्मनि हूयते ३५
२४
सन्निकृष्टमधीयानं ब्राह्मणं यो व्यतिक्रमेत्
भोजने चैव दाने च हन्यात्त्रिपुरुषं कुलम् ३६
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः
यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ३७
ग्रामस्थानं यथा शून्यं यथा कूपश्च निर्जलः
यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ३८
ब्राह्मणेषु च यद्दत्तं यच्च वैश्वानरे हुतम्
तद्धनं धनमाख्यातं धनं शेषं निरर्थकम् ३९
स्ममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे
सहस्रगुणमाचार्ये ह्यनन्तं वेदपारगे ४०
ब्रह्मबीजसमुत्पन्नो मन्त्रसंस्कारवर्जितः
जातिमात्रोपजीवी च स भवेद् ब्राह्मणः नमः ४१
गर्भाधानादिभिर्मन्त्रैर्वेदोपनयनेन च
नाध्यापयति नाधीते स भवेद् ब्राह्मणब्रुवः ४२
अग्निहोत्री तपस्वी च वेदमध्यापयेच्च यः
सकल्पं सरहस्यञ्च तमाचार्यं प्रचक्षते ४३
इष्टिभिः पशुबन्धैश्च चातुर्मास्यैस्तथैव च
अग्निष्टोमादिभिर्यज्ञैर्येन चेष्टं स इष्टवान् ४४
मीमांस्ते च यो वेदान् षद्भिरङ्गैः सविस्तरैः
इतिहासपुराणानि स भवेद्वेदपारगः ४५
ब्राह्मणा येन जीवन्ति नान्यो वर्णः कथञ्चन
इदृक्पथमुपस्थाय कोऽन्यस्तं त्यक्तुमुत्सहेत् ४६
ब्राह्मणः स भवेच्चैव देवानामपि दैवतम्
प्रत्यक्षञ्चैव लोकस्य ब्रह्मतेजो हि कारणम् ४७
ब्राह्मणस्य मुखं क्षेत्रं निष्ककरमकण्टकम्
वापयेत्तत्र बीजानि स कृषिः सार्वकामिकी ४८
२५
सुक्षेत्रो वापयेद्बीजं सुपात्रे दापयेद्धनम्
सुक्षेत्रे च सुपात्रे च क्षिप्तं नैव विदुष्यति ४९
विद्याविनयसम्पन्ने ब्राह्मने गृहमागते
क्रीडन्त्योषधयः सर्वा यास्यामः परमां गतिम् ५०
नष्टशौचे व्रतभ्रष्टे विप्रे वेदविवर्जिते
दीयमानं रुदत्स्यन्नं भयार्द्वे दुष्कृतं कृतम् ५१
वेदपूर्णमुखं विप्रं सुभुक्तमपि भोजयेत्
नच मूर्खं निराहारं षड्रात्रमुपवासिनम् ५२
यानि यस्य पवित्राणि कुक्षौ तिष्ठन्ति भो द्विजाः
तानि तस्य प्रयोज्यानि न शरीराणि देहिनाम् ५३
यस्य देहे सदाऽश्नन्ति हव्यानि त्रिदिवौकसः
कव्यानि चैव पितरः किम्भूतमधिकं ततः ५४
यद्भुङ्क्ते वेदविद्विप्रः स्वकर्मनिरतः शुचिः
दातुः फलमसङ्ख्यातं प्रतिजन्म तदक्षयम् ५५
हस्त्यश्वरथयानानि केचिदिच्छन्ति पण्डिताः
अहं नेच्छामि मुनयः कस्यैताः शस्यसम्पदः ५६
वेदलाङ्गलकृष्टेषु द्विजश्रेष्ठेषु सत्सु च
यत्पुरा पातितं बीजं तस्यैताः सस्यसम्पदः ५७
शतेषु जायते शूरः सहस्रेषु च पण्डितः
वक्ता शतसहस्रेषु दाता भवति वा न वा
न रणे विजयाच्छूरोऽध्ययनान्न च पण्डितः ५९
न वक्ता वाक्पटुत्वेन न दाता चार्थदानतः
इन्द्रियाणां जये शूरो धर्मं चरति पण्डितः ६०
हितप्रियोक्तिभिर्वक्ता दाता सम्मानदानतः ६१
यद्येकपङ्क्त्यां विषमं ददाति स्नेहाद्भयाद्वा यदि वार्थहेतोः
वेदेषु दृष्टं ऋषिभिश्च गीतम् तद्ब्रह्महत्यां मुनयो वदन्ति ६२
२६
ऊषरे वापितं वीजं भिन्नभाण्डेषु गोदुहम्
हुतं भस्मनि हव्यञ्च मूर्खे दानमशाश्वतम् ६३
मृतसूतकपुष्टाङ्गो द्विजः शूद्रान्नभोजने
अहमेवं न जानामि कां योनिं स गमिष्यति ६४
शूद्रान्नेनोदरस्थेन यदि कश्चिन्म्रियेत यः
स भवेत्च्छूकरो नूनं तस्य वा जायते कुलम् ६५
गृध्रो द्वादश जन्मानि सप्त जन्मानि शूकरः
श्वा चैव सप्त जन्मानि इत्येवं मनुरब्रवीत्
अमृतं ब्राह्मणान्नेन दारिद्रं क्षत्रियस्य च ६६
वैश्यान्नेन तु शूद्रत्वं शूद्रान्नान्नरकं ब्रजेत्
यश्च भुङ्क्तेऽथ शूद्रान्नं मासमेकं निरन्तरम् ६७
इह जन्मनि शूद्रत्वं मृतः श्वा चैव जायते
यस्य शूद्रा पचेन्नित्यं शूद्रो वा गृहमेधिनी ६८
वर्जितः पितृदेवैस्तु रौरवं याति स द्विजः
भाण्डसङ्करसङ्कीर्णा नानासङ्करसङ्कराः ६९
योनिसङ्करसङ्कीर्णा निरयं यान्ति मानवाः
पङ्क्तिभेदी वृथापाकी नित्यं ब्राह्मणनिन्दकः ७०
आदेशी वेदविक्रेता पञ्चैते ब्रह्मघातकाः ७१
इदं व्यासमतं नित्यमध्येतव्यं प्रयत्नतः
एतदुक्ताचारवतः पतनं नव विद्यते ७२
इति श्रीवेदव्यासीये धर्मशास्त्रे गृहस्थाश्रमप्रशंसादिवर्णनो नाम
चतुर्थोऽध्यायः
समाप्ता चेयं व्यासस्मृतिः
᐀ेफेरेनचेख्
स्मउतस्ि अनदअरबहअ
वेलभ ीीीण्ज्ञेलहख्ि न्अगण १९८१।ण पभ १६३१भ
२७