MUM

विष्णुस्मृतिः
श्रीगणेशाय नमः महामते महाप्राज्ञ सर्वशास्त्रविशारद ।
अक्षीणकर्म बन्धस्तु पुरुषो द्विजसत्तम १
सततं किं जपन् जप्यं विबुधः किमनुस्मरन्
मरणे यज्जपं जप्यं यञ्च भावमनुस्मरन् २
यच्च ध्यात्वा द्विजश्रेष्ठ पुरुषो मुत्युमागतः
परम्पदमवाप्नोति तन्मे वद महामुनेः ३
शौनक उवाच
इदमेव महाराज पृष्टवांस्ते पितामहः
भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः ४
युधिष्ठिर उवाच
पितामह महाप्राज्ञ सर्वशास्त्र विशारद
प्रयाणकाले यच्चिन्त्यं सूरिभिस्तत्वचिन्तकैः ५
किन्नु स्मरन् कुरुश्रेष्ठ मरणे पर्युपस्थिते
प्राप्नुयात्परमां सिद्धिं श्रोतुमिच्छामि तद्वद ६ भीष्म उवाच
अद्भुतं च हितं सूक्ष्मं उक्तं प्रश्नं त्वयानघ
शृणुष्वावहितो राजन् नारदेन पुरा श्रुतम् ७
श्रीवत्साङ्कं जगद्बीजमनन्तं लोकसाक्षिणम्
पुरा नारायणं देवं नारदः परिपृष्टवान् ८
नारद उवाच
त्वमक्षरं परं ब्रह्म निर्गुणं तमसः परम्
आहुर्वेद्यं परं धाम ब्रह्मादि कमलोद्भवम् ९
भगवन् भूतभव्येश श्रद्दधानै जितेन्द्रियैः
कथं भक्तैर्विचिन्त्योऽसि योगिभिर्देहमोक्षिभिः १०
६३
किं च जप्यं जपेन्नित्यं कल्यमुत्थाय मानवाः
कथं युञ्जन् सदा ध्यायन् ब्रूहि तत्त्वं सनातनम् ११
भीष्म उवाच
श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाचस्पतिः स्वयम्
प्रोवाच भगवान् विष्णुर्नारदं वरदः प्रभुः
श्रीभगवानुवाच
हन्त ते कथयिष्यामि इमां दिव्यामनुस्मृतिम्
मरणे मामनुस्मृत्य प्राप्नोति परमां गतिम् १३
यामधीत्य प्रयाणे तु मद्भावायोपपद्यते
ओङ्कारमग्रतः कृत्वा मां नमस्कृत्य नारद १४
एकाग्रः प्रयतो भूत्वा इमं मन्त्रमुदीरयेत्
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः १५
पुमान् विमुच्यते सद्यः सिंहत्रस्तैर्मृगैरिव
ओमित्येव परं ब्रह्म शाश्वतं परमव्ययम् १६
एतदुच्चारयन्मर्त्यो ब्रह्मभूयाय कल्पते
ब्रह्मा विष्णुश्च रुद्रश्च सर्वमोमिति चोच्यते १७
सम्पन्नेऽसुरसंथाने नम्यते च मुमुक्षुभिः
मोक्षश्च ज्ञानिनां प्रोक्तो मोहश्चाज्ञानिनां स्मृतः १८
यस्य यादृग्विधो भावस्तस्य तादृग्विधो हरिः
भवे भवनविश्वात्मा भूतानां हितकाम्यया १९
सृजते आत्मनात्मानमात्मन्येव स्वमायया
हरिरेव सतां नित्यं शरण्यः शरणार्थिनाम् २०
न हि नारायणादन्यस्त्रिषु लोकेषु विद्यते
वसत्यमृतमक्षय्यं यस्मिन् लोकाः ससागराः २१
त एव सृजते लोकान् सृष्टिकाले जगत्प्रभुः
तेजांसि येन दिव्यन्ते महोत्पन्नेन तेजसा २२

६४

वासुदेवात्मकं सर्वं तत्तेजोऽपि हि नान्यथा
वासनाद्यास्तु ये भावाः सम्भवन्ति युगे युगे २३
लोकत्रयहितार्थाय स्वोकाराय नो हरिः
यतश्चोत्पद्यते विश्वं यस्मिन्नेव प्रलिप्यते २४
क्षराक्षरविसृष्टस्तु सोऽच्युतः पुरुषोत्तमः
अव्यक्तं शाश्वतं देवं प्रभवं पुरुषोत्तमम् २५
प्रपद्ये प्राञ्जलिर्विष्णुमक्षय्यं भक्तवत्सलम्
पुराणं पुरुषं दिव्यमद्भूतं लोकपावनम् २६
प्रपद्ये पुण्डरीकाक्षं देवं नारायणं हरिम्
लोकनाथं सहस्राक्षमक्षरं परमं पदम् २७
भगवन्तं प्रपन्नोऽस्मि भूतभव्यप्रभुं विभुम्
स्रष्टारं सर्वलोकानामनन्तं विश्वतोमुखं २८
पद्मनाभं हृषीकेशं प्रपद्ये सत्यमच्युतम्
हिरण्यगर्भममृतं भूगर्भं परतः परम् २९
प्रभुं विभुमनाद्यन्तं प्रपद्ये तं रविप्रभम्
सहस्रशीर्षं पुरुषं महर्षिं सत्यभावनम् ३०
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम्
नारायणं पुराणेशं योगात्मानं सनातनम् ३१
संज्ञानां सर्वसत्वानां प्रपद्ये ध्रुवमीश्वरम्
यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम् ३२
चराचरगुरुर्देवः स मे विष्णुः प्रसीदतु
यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः पितामहः ३३
ब्रह्मयोनिर्हि विश्वस्य स मे विष्णुः प्रसीदतु
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेवच ३४
हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रियाक्रिये ३५

६५

गुणाकरः स मे विष्णुर्वासुदेवः प्रसीदतु
अग्निसोमार्कताराणां ब्रह्मरुद्रेन्द्रयोगिनाम् ३६
यस्तेजयति तेजांसि स मे विष्णुः प्रसीदतु
कार्यं क्रिया च करणं कर्त्ता हेतुः प्रयोजनम् ३७
अक्रिया करणी कार्यं स मे विष्णुः प्रसीदतु
शमीगर्भस्य यो गर्भस्तस्य गर्भस्य यो रिपुः ३८
रिपुगर्भस्य यो गर्भः स मे विष्णुः प्रसीदतु
अबलो येन बालेन कंसमल्लो महाबलः ३९
चाणूरो निहतो रङ्गे स मे विष्णुः प्रसीदतु
शङ्खः करवरे यस्य स मे विष्णुः प्रसीदतु ४०
येन क्रान्तास्त्रयो लोका दानवाश्च वशीकृताः
शरणं सर्वभूतानां स मे विष्णुः प्रसीदतु ४१
योगावास नमस्तुभ्यं सर्वावास वरप्रद
सर्वादि वासनाद्यादि वासुदेव प्रधानकृत् ४२
यज्ञगर्भ हिरण्याङ्ग पञ्चयज्ञ नमोऽस्तुते
चतुर्मूर्त्तिः परन्धाम लक्षानन्दवरार्चित ४३
अजस्त्वमगमः पन्था ह्यमूर्त्तिविश्वमूर्त्तिधृक्
श्रीकर्तः पञ्चकालज्ञ नमस्ते ज्ञानसागर ४४
अव्यक्ताद्व्यक्तमुत्पन्नमव्यक्ताद्यः परोऽक्षरः
यस्मात्परतरन्नास्ति तमस्मि शरणं गतः ४५
न प्रधानो न च महान् पुरुषश्चेतनो ह्यजः
अनयोग्यः परतरस्तमस्मि शरणं गतः ४६
चिन्तयन्तोऽपि यन्नित्यं ब्रह्मेशानादयः प्रभुम्
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः ४७
जितेन्द्रिया जितात्मानो ज्ञानध्यानपरायणाः
यं प्राप्य न निवर्त्तन्ते तमस्मि शरणं गतः ४८

६६

एकांशेन जगत्कृत्स्नमवष्टभ्य विभुः स्थितः
अग्राह्यो निर्गुणो नित्यस्तमस्मि शरणं गतः ४९
सोमार्काग्निगतन्तेजो या च तारामयी द्युतिः
दिवि संजायते यो यः स महात्मा प्रसीदतु ५०
सूर्यमध्यस्थितः सोमस्तस्य मध्ये च यास्तिता
भूतबाह्याचरा दीप्तिः स महात्मा प्रसीदतु ५१
सगुणे निर्गुणश्चासौ लक्ष्मीवान् चेतनो ह्यजः
सूक्ष्मः सर्वगतो देही स महात्मा प्रसीदतु ५२
साङ्ख्ययोगाश्च ये चान्ये सिद्धाश्च परमर्षयः
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ५३
अव्यक्तः समधिष्ठाता ह्यचिन्त्यः सदसत्परः
आस्थितः प्रकृतिं भुङ्क्ते स महात्मा प्रसीदतु ५४
क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं पञ्चभिर्मुखैः
निर्विकार नमस्तेऽस्तु साक्षिक्षेत्रिध्रुवस्थितः ५५
अतीन्द्रिय नमस्तुभ्यं लिङ्गैर्व्यक्तैर्न मीयसे
ये च त्वां नाभिजानन्ति संसारे सञ्चरन्ति ते ५६
कामक्रोधविनिर्मुक्ता भक्तास्त्वां प्रविशन्ति च
अव्यक्तमत्यहङ्कारा मनोभूतेन्द्रियाणि च ५७
त्वयि तानि चलेषु त्वं नतेषु त्वं न ते त्वयि
एकत्वान् चत्वनानात्वं ये विदुर्यान्ति ते परम् ५८
समोहं सर्वभूतेषु न मे द्वेप्योऽस्ति न प्रियः
समत्वमभिकाङ्क्षन्तम्भक्त्या वै नान्यचेतसः ५९
चराचरमिदं सर्वं भूतग्रामञ्चतुर्विधम्
त्वया त्वय्येव तत्प्रोतं सूत्रे मणिगणाइव ६०
स्रष्टो भोक्तासि कूटस्थो ह्यतत्वस्तत्वसंज्ञितः
अकर्ता हेतुरचरः पृथगात्मन्यवस्थितः ६१

६७

न मे भूतेषु संयोगो न भूतत्वगुणाधिकः
अहङ्कारेण बुद्ध्या वा न मे योगास्त्रिभिर्गुणैः ६२
न मे धर्मो ह्यधर्मो वा नामभोजन्नवा पुनः
जरामरणमोक्षार्थं त्वां प्रपन्नोस्मि सर्वगः ६३
विषयैरिन्द्रियैर्वापि न मे भूयः समागतः
ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते ६४
भक्तानां यद्धितं देव तद्देहि त्रिदशेश्वर
पृथिवीं यातु मे घ्राणं यातु मे रसनञ्जलम् ६५
रूपं हुताशनं यातु स्पर्शो यातु च मारुतम्
श्रोत्रमाकाशमप्ये तु मनो वैकारिकं पुनः ६६
इन्द्रियाणि गुणान्यातु स्वासु स्वासु च योनिषु
पृथिवी यातु सलिलमापोऽग्निमनलोऽनिलम् ६७
वायुराकाशमप्येतु मनश्चाकाशमेव च
अहङ्कारं मनो यातु मोहनं सर्वदेहिनाम् ६८
अहङ्कारस्तथा बुद्धिं बुद्धिरव्यक्तमेव च
प्रधाने प्रकृतिं याते गुणसाम्ये व्यवस्थिते ६९
वियोगः सर्वकरणैर्गुणैर्भूतैश्च मेऽभवत्
सत्वं रजस्तमश्चैव प्रकृतिं प्रविशन्तु मे ७०
निष्कैवल्यं पदं देवकांक्षितं परमन्तपः
एकीभावस्त्वया मेऽस्तु न मे जन्म भवेत्पुनः ७१
नमो भगवते तस्मै विष्णवे प्रभविष्णवे
त्वद्बुद्धिस्तद्गतप्राणस्त्वद्भक्तस्त्वत्परायणः ७२
त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते
पूर्वदेहिकृता ये मे व्याधयः प्रविशन्तु माम् ७३
आर्दयन्तु च दुःखानि ऋणं मे न भवेदिति
उपदिष्टन्तु मे सर्वे व्याधयः पूर्वचिन्तिताः ७४

६८

अनृणो गन्तुमिच्छामि तद्विष्णोः परमम्पदम्
अहं भगवतस्तस्य मम वासः सनातनः ७५
तत्याहं न प्रणश्यामि स च मे न प्रणश्यति
कर्मेन्द्रियाणि संयम्य पञ्च बुद्धीन्द्रियाणि च ७६
दशेन्द्रियाणि मनसो ह्यहङ्कारेण वा पुनः
अहङ्कारं तथा बुद्धौ बुद्धिमात्मनि योजयेत् ७७
आत्मबुद्धीन्द्रियम्पश्येद्बुद्धौ बुद्धेः परायणम्
ममायमपि तस्याहं येन सर्वमिदन्ततम् ७८
आत्मनात्मनि संयोज्यममात्मन्यनुसंस्मरेत्
एवं बुद्धेः परंबुद्ध्वा लभते न पुनर्भवम् ७९
ॐ नमो भगवते तस्मै देहिनां परमात्मने
नारायणाय भक्तानामेकनिष्ठाय शाश्वते ८०
हृदिस्थाय च भूतानां सर्वेषां च महात्मने
इमामनुस्मृतिन्दिव्यां वैष्णवीं पापनाशनीम् ८१
स्वयम्विबुद्धश्च पठेद्यत्र तत्र समभ्यसेत्
मरणे समनुप्राप्ते यस्त्विमामनुसंस्मरेत् ८२
अपि पापममाचारः स याति परमाङ्गतिम्
यद्यहङ्कारमाश्रित्य यज्ञदानतपः क्रियाः ८३
कुर्वस्तत्फलमाप्नोति पुनरावर्तते न तु
अभ्यर्चयन् पितॄन्देवान् पठन् जुह्णन् बलिन्ददन् ८४
ज्वलदग्निं स्मरेद्यो मां लभते परमाङ्गतिम्
यज्ञोदानं तपः कर्म पावनानि मनीषिणाम् ८५
यज्ञोदानं तपस्तस्मात्कुर्यादाशाविवर्जितः
पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः ८६
श्रावयेच्छ्रद्दधानांश्च मद्भक्तांश्च विशेषतः
नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः ८७

६९

तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद
किं पुनर्ये यजन्ते मां साधका विधिर्पूर्वकम् ८८
श्रद्धावन्तो यतात्मानस्ते मां यान्ति मदाश्रिताः
कर्माण्याद्यन्तवन्तीह मद्भक्तोऽनन्तमश्नुते ८९
मामेव तस्माद्देवर्षे ध्याहि नित्यमतन्द्रितः
अवाप्स्यसि तपः सिद्धिं लभ्यसे च पदं मम ९०
अज्ञानामिच्छया ज्ञानं दद्याद्धर्मोपदेशनम्
कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ९१
अस्मात्प्रदेयं साधुभ्यो जन्मबन्धभयापहम्
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ९२
नासौ फलमवाप्नोति मद्भक्तैर्यदवाप्यते
भीष्म उवाच
एवं पृष्टः पुरा तेन नारदेन सुरर्षिणा
यदुवाच तथा शम्भुस्तदुक्तं तव सुव्रत ९३
त्वमप्येकमना भूत्वा ध्येयं ज्ञेयं गुणाधिकम्
भज सर्वेण भावेन परमात्मानमव्ययम् ९४
श्रुत्वैतद् नारदो वाक्यं दिव्यं नारायणेरितम्
अत्यन्तभक्तिमान्देवे एकान्तित्वमुपेयिवान् ९५
नारायणमृषीन्देवं दशवर्षाण्यनन्यभाक्
इदं जपन्वै प्राप्नोति तद्विष्णोः परमं पदम् ९६
किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्व्रतैः
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ९७
नारायणाय नम ओमिति वेदमन्त्रं-
यो नित्यमेव मनसापि समभ्यसेच्च
पापैः प्रमुच्य परमे तृषयातिविष्णोः-
स्थानं हि सर्वमिति वेदविदो वदन्ति ९८

७०

किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः
यो नित्यं ध्यायते देव नारायण मनन्यधीः ९९
चीरवासा जपी वापि त्रिदण्डी मुण्ड एव वा
भूषितो वा द्विजश्रेष्ठ न लिङ्गं धर्मकारणम् १००
ये नृशंसा दुरात्मानः पापधर्मविवर्जिताः
तेऽपि यान्ति परं स्थानं नारायणपरायणाः १०१
अन्यथा मन्दबुद्धीनां प्रतिभाति दुरात्मनाम्
कुतर्कज्ञानदृष्टीनां विश्रान्तेन्द्रियवर्त्मनाम् १०२
नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम्
अन्तकाले जपन्नेति तद्विष्णोः परमं पदम् १०३
आचारहीनो च मुनिप्रवीर भक्त्या विहीनोऽपि तु विन्दतोऽपि
संकीर्त्य नारायणशब्दमात्रं विमुक्तपापो विशतेऽच्युतां गतिम् १०४
कान्तारवनदुर्गेषु कृत्स्नेष्वापत्सु संयुगे
दस्युभिः सन्निरोधे च नामभिर्मां प्रकीर्तयेत् १०५
न दिव्यपुरुषो धीमान् येषु स्थानेषु मां स्मरेत्
चौरव्याघ्र महासर्पैः क्रूरैरपि न वाध्यते १०६
जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते १०७
नामास्ति याति शक्तिश्च पापे निर्हरणे हरेः
श्वपचोऽपि नरः कर्तुं क्षमस्तावन्न किल्बिषम् १०८
न तावत्पापमस्तीह यावन्नामहतं हरेः
अतिरेक भयादाहुः प्रायश्चित्तान्तरं बुधाः १०९
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ११०
न वासुदेवात्परमस्ति मङ्गलं न वासुदेवात्परमस्ति पावनम्
न वासुदेवात्परमस्ति दैवतं न वासुदेवं प्रणिपत्य सीदति १११

७१

इमां रहस्यां परमामनुस्मृतिं ह्यधीत्य बुद्धिं लभते च नैष्ठिकम्
विहाय दुःखानि विमुच्य सङ्कटात्
स वीतरागो विचरेन्महीमिमाम् ११२
गङ्गायां मरणं चैव दृढा भक्तिश्च केशवे
ब्रह्मविद्याप्रबोधश्च नाल्पस्य तपसः फलम् ११३
इति विष्णुस्मृतिः समाप्ता
᐀ेफेरेनचेख्
स्मउतस्ि अनदअरबहअ
ण वेलभ ीण्ज्ञेलहख्ि न्अगण १९८१। पभ ३८९भ

७२