धर्मशास्त्रमिदं श्रेष्ठं स्वयं देवेन भाषितम् ।
ये द्विजा धारयिष्यन्ति तेषां स्वर्गे गतिः परा ॥ १००.१ ॥
इदं पवित्रं मङ्गल्यं स्वर्ग्यमायुष्यमेव च ।
ज्ञानं चैव यशस्यं च धनसौभाग्यवर्धनम् ॥ १००.२ ॥
अध्येतव्यं धारणीयं श्राव्यं श्रोतव्यमेव च ।
श्राद्धेषु श्रावणीयं च भूतिकामैर्नरैः सदा ॥ १००.३ ॥
य इदं पठते नित्यं भूतिकामो नरः सदा ।
इदं रहस्यं परमं कथितं च धरे तव ॥ १००.४ ॥
मया प्रसन्नेन जगद्धितार्थं सौभाग्यमेतत्परमं यशस्यम् ।
दुःस्वप्ननाशं बहुपुण्ययुक्तं शिवालयं शाश्वतधर्मशास्त्रम् ॥ १००.५ ॥