ऊरुस्थोत्तानचरणः सव्ये करे करमितरं न्यस्य तालुस्थाचलजिह्वो दन्तैर्दन्तानसंस्पृशन् स्वं नासिकाग्रं पश्यन् दिशश्चानवलोकयन् विभीः प्रशान्तात्मा चतुर्विंशत्या तत्त्वैर्व्यतीतं चिन्तयेत् ॥ ९७.१ ॥
नित्यमतीन्द्रियमगुणं शब्दस्पर्शरूपरसगन्धातीतं सर्वज्ञमतिस्थूलम् ॥ ९७.२ ॥ सर्वगमतिसूक्ष्मम् ॥ ९७.३ ॥
सर्वतःपाणिपादं सर्वतोऽक्षिशिरोमुखं सर्वतः सर्वेन्द्रियशक्तिम् ॥ ९७.४ ॥
एवं ध्यायेत् ॥ ९७.५ ॥
ध्याननिरतस्य च संवत्सरेण योगाविर्भावो भवति ॥ ९७.६ ॥
अथ निराकारे लक्षबन्धं कर्तुं न शक्नोति, तदा पृथिव्यप्तेजोवाय्वाकाशमनोबुद्ध्यात्माव्यक्तपुरुषाणां पूर्वं पूर्वं ध्यात्वा तत्र लब्धलक्षः तत्परित्यज्यापरमपरं ध्यायेत् ॥ ९७.७ ॥
एवं पुरुषध्यानमारभेत ॥ ९७.८ ॥
तत्राप्यसमर्थः स्वहृदयपद्मस्य अवाङ्मुखस्य मध्ये दीपवत्पुरुषं ध्यायेत् ॥ ९७.९ ॥
तत्राप्यसमर्थो भगवन्तं वासुदेवं किरीटिनं कुण्डलिनमङ्गदिनं श्रीवत्साङ्कं वनमालाविभूषितोरस्कं सौम्यरूपं चतुर्भुजं शङ्खचक्रगदापद्मधरं चरणमध्यगतभुवं ध्यायेत् ॥ ९७.१० ॥
यद्ध्यायति तदाप्नोतीति ध्यानगुह्यम् ॥ ९७.११ ॥
तस्मात्सर्वमेव क्षरं त्यक्त्वा अक्षरमेव ध्यायेत् ॥ ९७.१२ ॥
न च पुरुषं विना किंचिदप्यक्षरमस्ति ॥ ९७.१३ ॥
तं प्राप्य मुक्तो भवति ॥ ९७.१४ ॥
पुरमाक्रम्य सकलं शेते यस्मान्महाप्रभुः ।
तस्मात्पुरुष इत्येवं प्रोच्यते तत्त्वचिन्तकैः ॥ ९७.१५ ॥
प्राग्रात्रापररात्रेषु योगी नित्यमतन्द्रितः ।
ध्यायेत पुरुषं विष्णुं निर्गुणं पञ्चविंशकम् ॥ ९७.१६ ॥
तत्त्वात्मानमगम्यं च सर्वतत्त्वविवर्जितम् ।
अशक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ ९७.१७ ॥
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ ९७.१८ ॥
अविभक्तं च भूतेन विभक्तमिव च स्थितम् ।
भूतभव्यभवद्रूपं ग्रसिष्णु प्रभविष्णु च ॥ ९७.१९ ॥
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् ॥ ९७.२० ॥
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ ९७.२१ ॥