०९५

वानप्रस्थस्तपसा शरीरं शोषयेत् ॥ ९५.१ ॥

ग्रीष्मे पञ्चतपाः स्यात् ॥ ९५.२ ॥

आकाशशायी प्रावृषि ॥ ९५.३ ॥

आर्द्रवासा हेमन्ते ॥ ९५.४ ॥

नक्ताशी स्यात् ॥ ९५.५ ॥

एकान्तरद्व्यन्तरत्र्यन्तराशी वा स्यात् ॥ ९५.६ ॥

पुष्पाशी ॥ ९५.७ ॥

फलाशी ॥ ९५.८ ॥

शाकाशी ॥ ९५.९ ॥

पर्णाशी वा ॥ ९५.१० ॥

यवान्नं पक्षान्तयोर्वा सकृदश्नीयात् ॥ ९५.११ ॥

चान्द्रायणैर्वा वर्तेत ॥ ९५.१२ ॥

अश्मकुट्टः ॥ ९५.१३ ॥

दन्तोलूखलिको वा ॥ ९५.१४ ॥

तपोमूलमिदं सर्वं देवमानुषिकं जगत् ।
तपोमध्यं तपोऽन्तं च तपसा च तथा धृतम् ॥ ९५.१५ ॥

यद्दुष्चरं यद्दुरापं यद्दूरं यच्च दुष्करम् ।
सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ९५.१६ ॥