गृही वलीपलितदर्शने वनाश्रयो भवेत् ॥ ९४.१ ॥
अपत्यस्य चापत्यदर्शने वा ॥ ९४.२ ॥
पुत्रेषु भार्यां निक्षिप्य तयानुग्म्यमानो वा ॥ ९४.३ ॥
तत्राप्यग्नीनुपचरेत् ॥ ९४.४ ॥
अफालकृष्टेन पञ्च यज्ञान्न हापयेत् ॥ ९४.५ ॥
स्वाध्यायं च न जह्यात् ॥ ९४.६ ॥
ब्रह्मचर्यं पालयेत् ॥ ९४.७ ॥
चर्मचीरवासाः स्यात् ॥ ९४.८ ॥
जटाश्मश्रुलोमनखांश्च बिभृयात् ॥ ९४.९ ॥
त्रिषवणस्नायी स्यात् ॥ ९४.१० ॥
कपोतवृत्तिर्मासनिचयः संवत्सरनिचयो वा ॥ ९४.११ ॥
संवत्सरनिचयी पूर्वनिचितमाश्वयुज्यां जह्यात् ॥ ९४.१२ ॥
ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् ।
पुटेनैव पलाशेन पाणिना शकलेन वा ॥ ९४.१३ ॥