अब्राह्मणे दत्तं तत्सममेव पारलौकिकम् ॥ ९३.१ ॥
द्विगुणं ब्राह्मणब्रुवे ॥ ९३.२ ॥
सहस्रगुणं प्राधीते ॥ ९३.३ ॥
अनन्तं वेदपारगे ॥ ९३.४ ॥
पुरोहितस्त्वात्मन एव पात्रम् ॥ ९३.५ ॥
स्वसा दुहितृजामातरश्च ॥ ९३.६ ॥
न वार्यपि प्रयच्छेत बैडालव्रतिके द्विजे ।
न बकव्रतिके पापे नावेदविदि धर्मवित् ॥ ९३.७ ॥
धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदाम्भिकः ।
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥ ९३.८ ॥
अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश्च बकव्रतपरो द्विजः ॥ ९३.९ ॥
ये बकव्रतिनो लोके ये च मार्जारलिङ्गिनः ।
ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ॥ ९३.१० ॥
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ ९३.११ ॥
प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः ।
छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ ९३.१२ ॥
अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।
स लिङ्गिनां हरत्येनस्तिर्यग्योनौ प्रजायते ॥ ९३.१३ ॥
न दानं यशसे दद्यान्न भयान्नोपकारिणे ।
न नृत्यगीतशीलेभ्यो धर्मार्थमिति निश्चितम् ॥ ९३.१४ ॥