सर्वदानाधिकमभयप्रदानम् ॥ ९२.१ ॥
तत्प्रदानेनाभीप्सितं लोकमाप्नोति ॥ ९२.२ ॥
भूमिदानेन च ॥ ९२.३ ॥
गोचर्ममात्रामपि भुवं प्रदाय सर्वपापेभ्यः पूतो भवति ॥ ९२.४ ॥
गोप्रदानेन स्वर्गलोकमाप्नोति ॥ ९२.५ ॥
दशधेनुप्रदो गोलोकान् ॥ ९२.६ ॥
शतधेनुप्रदो ब्रहमलोकान् ॥ ९२.७ ॥
सुवर्णशृङ्गीं रौप्यखुरां मुक्तालाङ्गूलां कांस्योपदोहां वस्त्रोत्तरीयां दत्त्वा धेनुरोमसंख्यानि वर्षाणि स्वर्गलोकमाप्नोति ॥ ९२.८ ॥
विशेषतः कपिलाम् ॥ ९२.९ ॥
दान्तं धुरंधरं दत्त्वा दशधेनुप्रदो भवति ॥ ९२.१० ॥
अश्वदः सूर्यसालोक्यमाप्नोति ॥ ९२.११ ॥
वासोदश्चन्द्रसालोक्यम् ॥ ९२.१२ ॥
सुवर्णदानेनाग्निसालोक्यम् ॥ ९२.१३ ॥
रूप्यदानेन रूपम् ॥ ९२.१४ ॥
तैजसानां पात्राणां प्रदानेन पात्रीभवति सर्वकामानाम् ॥ ९२.१५ ॥
घृतमधुतैलप्रदानेनारोग्यम् ॥ ९२.१६ ॥
औषधप्रदानेन ॥ ९२.१७ ॥
लवणदानेन च लावण्यम् ॥ ९२.१८ ॥
धान्यप्रदानेन तृप्तिम् ॥ ९२.१९ ॥
सस्यप्रदानेन च ॥ ९२.२० ॥
अन्नदः सर्वम् ॥ ९२.२१ ॥
धान्यप्रदानेन सौभाग्यम् ॥ ९२.२२ ॥
तिलप्रदः प्रजामिष्टाम् ॥ ९२.२३ ॥
इन्धनप्रदानेन दीप्ताग्निर्भवति ॥ ९२.२४ ॥
संग्रामे च सर्वजयमाप्नोति ॥ ९२.२५ ॥
आसनप्रदानेन स्थानम् ॥ ९२.२६ ॥
शय्याप्रदानेन भार्याम् ॥ ९२.२७ ॥
उपानत्प्रदानेनाश्वतरीयुक्तं रथम् ॥ ९२.२८ ॥
छत्रप्रदानेन स्वर्गम् ॥ ९२.२९ ॥
तालवृन्तचामरप्रदानेनाध्वसुखित्वम् ॥ ९२.३० ॥
वास्तुप्रदानेन नगराधिपत्यम् ॥ ९२.३१ ॥
यद्यदिष्टतमं लोके यच्चास्ति दयितं गृहे ।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ ९२.३२ ॥