अथ कूपकर्तुस्तत्प्रवृत्ते पानीये दुष्कृतस्यार्धं विनश्यति ॥ ९१.१ ॥
तडागकृन्नित्यतृप्तो वारुणं लोकमश्नुते ॥ ९१.२ ॥
जलप्रदः सदा तृप्तो भवति ॥ ९१.३ ॥
वृक्षारोपयितुर्वृक्षाः परलोके पुत्रा भवन्ति ॥ ९१.४ ॥
वृक्षप्रदो वृक्षप्रसूनैर्देवान् प्रीणयति ॥ ९१.५ ॥
फलैश्चातिथीन् ॥ ९१.६ ॥
छायया चाभ्यागतान् ॥ ९१.७ ॥
देवे वर्षत्युदकेन पितॄन् ॥ ९१.८ ॥
सेतुकृत्स्वर्गमाप्नोति ॥ ९१.९ ॥
देवायतनकारी यस्य देवस्यायतनं करोति तस्यैव लोकमाप्नोति ॥ ९१.१० ॥
सुधासिक्तं कृत्वा यशसा विराजते ॥ ९१.११ ॥
विचित्रं कृत्वा गन्धर्वलोकमाप्नोति ॥ ९१.१२ ॥
पुष्पप्रदानेन श्रीमान् भवति ॥ ९१.१३ ॥
अनुलेपनप्रदानेन कीर्तिमान् ॥ ९१.१४ ॥
दीपप्रदानेन चक्षुष्मान् सर्वत्रोज्ज्वलश्च ॥ ९१.१५ ॥
अन्नप्रदानेन बलवान् ॥ ९१.१६ ॥
देवनिर्माल्यापनयनात्गोदानफलमाप्नोति ॥ ९१.१७ ॥
देवगृहमार्जनात्तदुपलेपनात्ब्राह्मणोच्छिष्टमार्जनात्पादशौचादकल्यपरिचरणाच्च ॥ ९१.१८ ॥
कूपारामतडागेषु देवतायतनेषु च ।
पुनः संस्कारकर्ता च लभते मौलिकं फलम् ॥ ९१.१९ ॥