मार्गशीर्षशुक्लपञ्चदश्यां मृगशिरसा युक्तायां चूर्णितलवणस्य सुवर्णनाभं प्रस्थमेकं चन्द्रोदये ब्राह्मणाय प्रदापयेत् ॥ ९०.१ ॥
अनेन कर्मणा रूपसौभाग्यवानभिजायते ॥ ९०.२ ॥
पौषी चेत्पुष्ययुक्ता स्यात्, तस्यां गौरसर्षपकल्कोद्वर्तितशरीरो गव्यघृतपूर्णकुम्भेनाभिषिक्तः सर्वौषधिभिः सर्वगन्धैः सर्वबीजैश्च स्नातो घृतेन भगवन्तं वासुदेवं स्नापयित्वा गन्धपुष्पधूपदीपनैवेद्यादिभिरभ्यर्च्य वैष्णवैः शाक्रैर्बार्हस्पत्यैश्च मन्त्रैः पावके हुत्वा ससुवर्णेन घृतेन ब्राह्मणान् स्वस्ति वाचयेत् ॥ ९०.३ ॥
वासोयुगं कर्त्रे दद्यात् ॥ ९०.४ ॥
अनेन कर्मणा पुष्यते ॥ ९०.५ ॥
माघी मघायुता चेत्, तस्यां तिलैः श्राद्धं कृत्वा पूतो भवति ॥ ९०.६ ॥
फाल्गुनी फल्गुनीयुता चेत्, तस्यां ब्राह्मणाय सुसंस्कृतं स्वास्तीर्णं शयनं निवेद्य भार्यां मनोज्ञां रूपवतीं द्रविणवतीं चाप्नोति ॥ ९०.७ ॥
नार्यपि भर्तारम् ॥ ९०.८ ॥
चैत्री चित्रायुता चेत्, तस्यां चित्रवस्त्रप्रदानेन सौभाग्यमाप्नोति ॥ ९०.९ ॥
वैशाखी विशाखायुता चेत्, तस्यां ब्राह्मणसप्तकं क्षौद्रयुक्तैस्तिलैः संतर्प्य धर्मराजानं प्रीणयित्वा पापेभ्यः पूतो भवति ॥ ९०.१० ॥
ज्यैष्ठी ज्येष्ठायुता चेत्स्यात्, तस्यां छत्रोपानहप्रदानेन गवाधिपत्यं प्राप्नोति ॥ ९०.११ ॥
आषाढ्यामाषाढायुक्तायामन्नपानदानेन तदेवाक्षय्यमाप्नोति ॥ ९०.१२ ॥
श्रावण्यां श्रवणयुक्तायां जलधेनुं सान्नां वासोयुगाच्छादितां दत्त्वा स्वर्गमाप्नोति ॥ ९०.१३ ॥
प्रौष्ठपद्यां प्रोष्ठपदायुक्तायां गोदानेन सर्वपापविनिर्मुक्तो भवति ॥ ९०.१४ ॥
आश्वयुज्यामश्विनीगते चन्द्रमसि घृतपूर्णं भाजनं सुवर्णयुतं विप्राय दत्त्वा दीप्ताग्निर्भवति ॥ ९०.१५ ॥
कार्त्तिकी कृत्तिकायुता चेत्स्यात्, तस्यां सितमुक्षाणमन्यवर्णं वा शशाङ्कोद्ये सर्वसस्यरत्नगन्धोपेतं दीपमध्ये ब्राह्मणाय दत्त्वा कान्तारभयं न पश्यति ॥ ९०.१६ ॥
वैशाखशुक्लतृतीयायामुपोषितोऽक्षतैः श्रीवासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा च सर्वपापेभ्यः पूतो भवति ॥ ९०.१७ ॥
यच्च तस्मिन्नहनि प्रयच्छति तदक्षय्यतामाप्नोति ॥ ९०.१८ ॥
पौष्यां समतीतायां कृष्णपक्षद्वादश्यां सोपवासस्तिलैः स्नातस्तिलोककं दत्त्वा तिलैर्वासुदेवमभ्यर्च्य तानेव हुत्वा दत्त्वा भुक्त्वा च पापेभ्यः पूतो भवति ॥ ९०.१९ ॥
माघ्यां समतीतायां कृष्णद्वादश्यां सोपवासः श्रवणं प्राप्य श्रीवासुदेवाग्रतो महावर्तिद्वयेन दीपद्वयं दद्यात् ॥ ९०.२० ॥
दक्षिणपार्श्वे महारजनरक्तेन समग्रेण वाससा घृततुलामष्टाधिकां दत्त्वा ॥ ९०.२१ ॥
वामपार्श्वे तिलतैलयुतां साष्टां दत्त्वा श्वेतेन समग्रेण वाससा ॥ ९०.२२ ॥
एतत्कृत्वा यस्मिन् राष्ट्रेऽभिजायते यस्मिन् देशे यस्मिन् कुले तत्रोज्ज्वलो भवति ॥ ९०.२३ ॥
आश्विनं सकलं मासं ब्राह्मणेभ्यः प्रत्यहं घृतं प्रदायाश्विनौ प्रीणयित्वा रूपभाग्भवति ॥ ९०.२४ ॥
तस्मिन्नेव मासि प्रत्यहं गोरसैर्ब्राह्मणान् भोजयित्वा राज्यभाग्भवति ॥ ९०.२५ ॥
प्रतिमासं रेवतीयुते चन्द्रमसि मधुघृतयुतं पायसं रेवतीप्रीत्यै परमान्नं ब्राह्मणान् भोजयित्वा रेवतीं प्रीणयित्वा रूपस्य भागी भवति ॥ ९०.२६ ॥
माघे मास्यग्निं प्रत्यहं तिलैर्हुत्वा सघृतं कुल्माषं ब्राह्मणान् भोजयित्वा दीप्ताग्निर्भवति ॥ ९०.२७ ॥
सर्वां चतुर्दशीं नदीजले स्नात्वा धर्मराजानं पूजयित्वा सर्वपापेभ्यः पूतो भवति ॥ ९०.२८ ॥
यदीच्छेद्विपुलान् भोगांश्चन्द्रसूर्यग्रहोपगान् ।
प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ ॥ ९०.२९ ॥