०८९

मासः कार्त्तिकोऽग्निदैवत्यः ॥ ८९.१ ॥

अग्निश्च सर्वदेवानां मुखम् ॥ ८९.२ ॥

तस्मात्तु कार्त्तिकं मासं बहिःस्नायी गायत्रीजपनिरतः सकृदेव हविष्याशी संवत्सरकृतात्पापात्पूतो भवति ॥ ८९.३ ॥

कार्त्तिकं सकलं मासं नित्यस्नायी जितेन्द्रियः ।
जपन् हविष्यभुग्दान्तः सर्वपापैः प्रमुच्यते ॥ ८९.४ ॥