०८८

अथ प्रसूयमाना गौः पृथिवी भवति ॥ ८८.१ ॥

तामलंकृतां ब्राह्मणाय दत्त्वा पृथिवीदानफलमाप्नोति ॥ ८८.२ ॥

अत्र गाथा भवति ॥ ८८.३ ॥

सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् ।
दत्त्वा स्वर्गमवाप्नोति श्रद्दधानः समाहितः ॥ ८८.४ ॥