अथ प्रसूयमाना गौः पृथिवी भवति ॥ ८८.१ ॥ तामलंकृतां ब्राह्मणाय दत्त्वा पृथिवीदानफलमाप्नोति ॥ ८८.२ ॥ अत्र गाथा भवति ॥ ८८.३ ॥ सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् । दत्त्वा स्वर्गमवाप्नोति श्रद्दधानः समाहितः ॥ ८८.४ ॥