अथ वैशाख्यां पौर्णमास्यां कृष्णाजिनं सखुरं सशृङ्गं सुवर्णशृङ्गं रौप्यखुरं मौक्तिकलाङ्गूलभूषितं कृत्वाविके च वस्त्रे प्रसारयेत् ॥ ८७.१ ॥
ततस्तिलैः प्रच्छादयेत् ॥ ८७.२ ॥
सुवर्णनाभिं च कुर्यात् ॥ ८७.३ ॥
अहतेन वासोयुगेन प्रच्छादयेत् ॥ ८७.४ ॥
सर्वगन्धरत्नैश्चालंकृतं कुर्यात् ॥ ८७.५ ॥
चतसृषु दिक्षु चत्वारि तैजसानि पात्राणि क्षीरदधिमधुघृतपूर्णानि निध्यायाहिताग्नये ब्राह्मणायालंकृताय वासोयुगेन प्रच्छादिताय दद्यात् ॥ ८७.६ ॥
अत्र च गाथा भवन्ति ॥ ८७.७ ॥
यस्तु कृष्णाजिनं दद्यात्सखुरं शृङ्गसंयुतम् ।
तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैरलंकृतम् ॥ ८७.८ ॥
ससमुद्रगुहा तेन सशैलवनकानना ।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ॥ ८७.९ ॥
कृष्णाजिने तिलान् कृत्वा हिरण्यं मधुसर्पिषी ।
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥ ८७.१० ॥