अथ वृषोत्सर्गः ॥ ८६.१ ॥
कार्त्तिक्यामाश्वयुज्यां वा ॥ ८६.२ ॥
तत्रादावेव वृषभं परीक्षेत ॥ ८६.३ ॥
जीवद्वत्सायाः पयस्विन्याः पुत्रम् ॥ ८६.४ ॥
सर्वलक्षणोपेतम् ॥ ८६.५ ॥
नीलम् ॥ ८६.६ ॥
लोहितं वा मुखपुच्छपादशृङ्गशुक्लम् ॥ ८६.७ ॥
यूथस्याच्छादकम् ॥ ८६.८ ॥
ततो गवां मध्ये सुसमिद्धमग्निं परिस्तीर्य पौष्णं चरुं पयसा श्रपयित्वा पूषा गा अन्वेतु न इह रतिरिति च हुत्वा वृषमयस्कारस्त्वङ्कयेत् ॥ ८६.९ ॥
एकस्मिन् पार्श्वे चक्रेणापरस्मिन् पार्श्वे शूलेन ॥ ८६.१० ॥
अङ्कितं च हिरण्यवर्णेति चतसृभिः शं नो देवीरिति च स्नापयेत् ॥ ८६.११ ॥
स्नातमलंकृतं स्नातालंकृताभिश्चतसृभिर्वत्सतरीभिः सार्धमानीय रुद्रान् पुरुषसूक्तं कूश्माण्डीश्च जपेत् ॥ ८६.१२ ॥
पिता वत्सानामिति वृषभस्य दक्षिणे कर्णे पठेत् ॥ ८६.१३ ॥
इमं च ॥ ८६.१४ ॥
वृषो हि भगवान् धर्मश्चतुष्पादः प्रकीर्तितः ।
वृणोमि तमहं भक्त्या स मे रक्षतु सर्वतः ॥ ८६.१५ ॥
एतं युवानं पतिं वो ददाम्यनेन क्रीडन्तीश्चरत प्रियेण ।
मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥ ८६.१६ ॥
वृषं वत्सतरीयुक्तमैशान्यां कारयेद्दिशि ।
होतुर्वस्त्रयुगं दद्यात्सुवर्णं कांस्यमेव च ॥ ८६.१७ ॥
अयस्कारस्य दातव्यं वेतनं मनसेप्सितम् ।
भोजनं बहुसर्पिष्कं ब्राह्मणांश्चात्र भोजयेत् ॥ ८६.१८ ॥
उत्सृष्टो वृषभो यस्मिन् पिबत्यथ जलाशये ।
जलाशयं तत्सकलं पितॄंस्तस्योपतिस्ठति ॥ ८६.१९ ॥
शृङ्गेणोल्लिखते भूमिं यत्र क्वचन दर्पितः ।
पितॄणामन्नपानं तत्प्रभूतमुपतिष्ठति ॥ ८६.२० ॥