न म्लेच्छविषये श्राद्धं कुर्यात् ॥ ८४.१ ॥ न गच्छेन्म्लेच्छविषयम् ॥ ८४.२ ॥ परनिपानेष्वपः पीत्वा तत्साम्यमुपगच्छतीति ॥ ८४.३ ॥ चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते । स म्लेच्छदेशो जिज्ञेय आर्यावर्तस्ततः परः ॥ ८४.४ ॥