०८३

अथ पङ्क्तिपावनाः ॥ ८३.१ ॥

त्रिणाचिकेतः ॥ ८३.२ ॥

पञ्चाग्निः ॥ ८३.३ ॥

ज्येष्ठसामगः ॥ ८३.४ ॥

वेदपारगः ॥ ८३.५ ॥

वेदाङ्गस्याप्येकस्य पारगः ॥ ८३.६ ॥

पुराणेतिहासव्याकरणपारगः ॥ ८३.७ ॥

धर्मशास्त्रस्याप्येकस्य पारगः ॥ ८३.८ ॥

तीर्थपूतः ॥ ८३.९ ॥

यज्ञपूतः ॥ ८३.१० ॥

तपःपूतः ॥ ८३.११ ॥

सत्यपूतः ॥ ८३.१२ ॥

मन्त्रपूतः ॥ ८३.१३ ॥

गायत्रीजपनिरतः ॥ ८३.१४ ॥

ब्रह्मदेयानुसंतानः ॥ ८३.१५ ॥

त्रिसुपर्णः ॥ ८३.१६ ॥

जामाता ॥ ८३.१७ ॥

दौहित्रश्चेति पात्रम् ॥ ८३.१८ ॥

विशेषेण च योगिनः ॥ ८३.१९ ॥

अत्र पितृगीता गाथा भवति ॥ ८३.२० ॥

अपि स स्यात्कुलेऽस्माकं भोजयेद्यस्तु योगिनम् ।
विप्रं श्राद्धे प्रयत्नेन येन तृप्यामहे वयम् ॥ ८३.२१ ॥