०८२

दैवे कर्मणि ब्राह्मणं न परीक्षेत ॥ ८२.१ ॥

प्रयत्नात्पित्र्ये परीक्षेत ॥ ८२.२ ॥

हीनाधिकाङ्गान् विवर्जयेत् ॥ ८२.३ ॥

विकर्मस्थांश्च ॥ ८२.४ ॥

बैडालव्रतिकान् ॥ ८२.५ ॥

वृथालिङ्गिनः ॥ ८२.६ ॥

नक्षत्रजीविनः ॥ ८२.७ ॥

देवलकांश्च ॥ ८२.८ ॥

चिकित्सकान् ॥ ८२.९ ॥

अनूढापुत्रान् ॥ ८२.१० ॥

तत्पुत्रान् ॥ ८२.११ ॥

बहुयाजिनः ॥ ८२.१२ ॥

ग्रामयाजिनः ॥ ८२.१३ ॥

शूद्रयाजिनः ॥ ८२.१४ ॥

अयाज्ययाजिनः ॥ ८२.१५ ॥

व्रात्यान् ॥ ८२.१६ ॥

तद्याजिनः ॥ ८२.१७ ॥

पर्वकारान् ॥ ८२.१८ ॥

सूचकान् ॥ ८२.१९ ॥

भृतकाध्यापकान् ॥ ८२.२० ॥

भृतकाध्यापितान् ॥ ८२.२१ ॥

शूद्रान्नपुष्टान् ॥ ८२.२२ ॥

पतितसंसर्गान् ॥ ८२.२३ ॥

अनधीयानान् ॥ ८२.२४ ॥

संध्योपासनभ्रष्टान् ॥ ८२.२५ ॥

राजसेवकान् ॥ ८२.२६ ॥

नग्नान् ॥ ८२.२७ ॥

पित्रा विवदमानान् ॥ ८२.२८ ॥

पितृमातृगुर्वग्निस्वाध्यायत्यागिनश्च ॥ ८२.२९ ॥

ब्राह्मणापशदा ह्येते कथिताः पङ्क्तिदूषकाः ।
एतान् विवर्जयेद्यत्नाच्छ्राद्धकर्मणि पण्डितः ॥ ८२.३० ॥