नान्नमासनमारोपयेत् ॥ ८१.१ ॥
न पदा स्पृशेत् ॥ ८१.२ ॥
नावक्षुतं कुर्यात् ॥ ८१.३ ॥
तिलैः सर्षपैर्वा यातुधानान् विसर्जयेत् ॥ ८१.४ ॥
संवृते च श्राद्धं कुर्यात् ॥ ८१.५ ॥
न रजस्वलां पश्येत् ॥ ८१.६ ॥
न श्वानम् ॥ ८१.७ ॥
न विड्वराहम् ॥ ८१.८ ॥
न ग्रामकुक्कुटम् ॥ ८१.९ ॥
प्रयत्नात्श्राद्धमजस्य दर्शयेत् ॥ ८१.१० ॥
अश्नीयुर्ब्राह्मणाश्च वाग्यताः ॥ ८१.११ ॥
न वेष्टितशिरसः ॥ ८१.१२ ॥
न सोपानत्काः ॥ ८१.१३ ॥
न पीठोपहितपादाः ॥ ८१.१४ ॥
न हीनाङ्गा अधिकाङ्गाः श्राद्धं पश्येयुः ॥ ८१.१५ ॥
न शूद्राः ॥ ८१.१६ ॥
न पतिताः ॥ ८१.१७ ॥
न महारोगिणः ॥ ८१.१८ ॥
तत्कालं ब्राह्मणं ब्राह्मणानुमतेन भिक्षुकं वा पूजयेत् ॥ ८१.१९ ॥
हविर्गुणान्न ब्राह्मणा ब्रूयुर्दात्रा पृष्टाः ॥ ८१.२० ॥
यावदूष्मा भवत्यन्ने यावदश्नन्ति वाग्यताः ।
तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः ॥ ८१.२१ ॥
सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा ।
समुत्सृजेद्भुक्तवतामग्रतो विकिरन् भुवि ॥ ८१.२२ ॥
असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः ॥ ८१.२३ ॥
उच्छेषणं भूमिगतमजिह्मस्याशठस्य च ।
दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥ ८१.२४ ॥