०८०

तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैः शाकैः श्यामाकैः प्रियङ्गुभिर्नीवारैर्मुद्गैर्गोधूमैश्च मासं प्रीयन्ते ॥ ८०.१ ॥

द्वौ मासौ मत्स्यमांसेन ॥ ८०.२ ॥

त्रीन् हारिणेन ॥ ८०.३ ॥

चतुरश्चौरभ्रेण ॥ ८०.४ ॥

पञ्च शाकुनेन ॥ ८०.५ ॥

षट्छागेन ॥ ८०.६ ॥

सप्त रौरवेण ॥ ८०.७ ॥

अष्टौ पार्षतेन ॥ ८०.८ ॥

नव गावयेन ॥ ८०.९ ॥

दश माहिषेण ॥ ८०.१० ॥

एकादश तूपरेणाजेन ॥ ८०.११ ॥

संवत्सरं गव्येन पयसा तद्विकारैर्वा ॥ ८०.१२ ॥

अत्र पितृगीता गाथा भवति ॥ ८०.१३ ॥

कालशाकं महाशल्कं मांसं वार्ध्रीणसस्य च ।
विषाणवर्ज्या ये खड्गा आसूर्यं तांस्तु भुङ्क्ष्महे ॥ ८०.१४ ॥