०७९

अथ न नक्तं गृहीतेनोदकेन श्राद्धं कुर्यात् ॥ ७९.१ ॥

कुशाभावे कुशस्थाने काशान् दूर्वां वा दद्यात् ॥ ७९.२ ॥

वासोऽर्थे कार्पासोत्थं सूत्रम् ॥ ७९.३ ॥

दशां विसर्जयेत्यद्यप्यहतवस्त्रजा स्यात् ॥ ७९.४ ॥

उग्रगन्धीन्यगन्धीनि कण्टकिजानि च पुष्पाणि ॥ ७९.५ ॥

शुक्लानि सुगन्धीनि कण्टकिजान्यपि जलजानि रक्तान्यपि दद्यात् ॥ ७९.६ ॥

वसां मेदं च दीपार्थे न दद्यात् ॥ ७९.७ ॥

घृतं तैलं वा दद्यात् ॥ ७९.८ ॥

जीवजं सर्वं धूपार्थे न दद्यात् ॥ ७९.९ ॥

मधुघृतसंयुक्तं गुग्गुलुं दद्यात् ॥ ७९.१० ॥

चन्दनकुङ्कुमकर्पूरागरुपद्मकान्यनुलेपनार्थे ॥ ७९.११ ॥

न प्रत्यक्षलवणं दद्यात् ॥ ७९.१२ ॥

हस्तेन च घृतव्यञ्जनादि ॥ ७९.१३ ॥

तैजसानि पात्राणि दद्यात् ॥ ७९.१४ ॥

विशेषतो राजतानि ॥ ७९.१५ ॥

खड्गकुतपकृष्णाजिनतिलसिद्धार्थकाक्षतानि च पवित्राणि रक्षोघ्नानि च निदध्यात् ॥ ७९.१६ ॥

पिप्पलीमुकुन्दकभूस्तृणशिग्रुसर्षपसुरसासर्जकसुवर्चलकूश्माण्डालाबुवार्ताकपालक्योपोदकीतण्डुलीयककुसुम्भपिण्डालुकमहिषीक्षीराणि वर्जयेत् ॥ ७९.१७ ॥

राजमाषमसूरपर्युषितकृतलवणानि च ॥ ७९.१८ ॥

कोपं परिहरेत् ॥ ७९.१९ ॥

नाश्रु पातयेत् ॥ ७९.२० ॥

न त्वरां कुर्यात् ॥ ७९.२१ ॥

घृतादिदाने तैजसानि पात्राणि खड्गपात्राणि फल्गुपात्राणि च प्रशस्तानि ॥ ७९.२२ ॥

अत्र च श्लोको भवति ॥ ७९.२३ ॥

सौवर्णराजताभ्यां च खड्गेनौदुम्बरेण वा ।
दत्तमक्षय्यतां याति फल्गुपात्रेण चाप्यथ ॥ ७९.२४ ॥