०७८

सततमादित्येऽह्नि श्राद्धं कुर्वन्नारोग्यमाप्नोति ॥ ७८.१ ॥

सौभाग्यं चान्द्रे ॥ ७८.२ ॥

समरविजयं कौजे ॥ ७८.३ ॥

सर्वान् कामान् बौधे ॥ ७८.४ ॥

विद्यामभीष्टां जैवे ॥ ७८.५ ॥

धनं शौक्रे ॥ ७८.६ ॥

जीवितं शनैश्चरे ॥ ७८.७ ॥

स्वर्गं कृत्तिकासु ॥ ७८.८ ॥

अपत्यं रोहिणीषु ॥ ७८.९ ॥

ब्रह्मवर्चस्यं सौम्ये ॥ ७८.१० ॥

कर्मसिद्धिं रौद्रे ॥ ७८.११ ॥

भुवं पुनर्वसौ ॥ ७८.१२ ॥

पुष्टिं पुष्ये ॥ ७८.१३ ॥

श्रियं सार्पे ॥ ७८.१४ ॥

सर्वान् कामान् पैत्र्ये ॥ ७८.१५ ॥

सौभाग्यं भाग्ये ॥ ७८.१६ ॥

धनमायमणे ॥ ७८.१७ ॥

ज्ञातिश्रैष्ठ्यं हस्ते ॥ ७८.१८ ॥

रूपवतः सुतांस्त्वाष्ट्रे ॥ ७८.१९ ॥

वाणिज्यसिद्धिं स्वातौ ॥ ७८.२० ॥

कनकं विशाखासु ॥ ७८.२१ ॥

मित्राणि मैत्रे ॥ ७८.२२ ॥

राज्यं शाक्रे ॥ ७८.२३ ॥

कृषिं मूले ॥ ७८.२४ ॥

समुद्रयानसिद्धिमाप्ये ॥ ७८.२५ ॥

सर्वान् कामान् वैश्वदेवे ॥ ७८.२६ ॥

श्रैष्ठ्यमभिजिति ॥ ७८.२७ ॥

सर्वान् कामान् श्रवणे ॥ ७८.२८ ॥

लवणं वासवे ॥ ७८.२९ ॥

आरोग्यं वारुणे ॥ ७८.३० ॥

कुप्यद्रव्यमाजे ॥ ७८.३१ ॥

गृहमाहिर्बुध्न्ये ॥ ७८.३२ ॥

गाः पौष्णे ॥ ७८.३३ ॥

तुरङ्गमानाश्विने ॥ ७८.३४ ॥

जीवितं याम्ये ॥ ७८.३५ ॥

गृहं सुरूपाः स्त्रियः प्रतिपदि ॥ ७८.३६ ॥

कन्यां वरदां द्वितीयायाम् ॥ ७८.३७ ॥

सर्वान् कामांस्तृतीयायाम् ॥ ७८.३८ ॥

पशूंश्चतुर्थ्याम् ॥ ७८.३९ ॥

सुरूपान् सुतान् पञ्चम्याम् ॥ ७८.४० ॥

द्यूतविजयं षष्ठ्याम् ॥ ७८.४१ ॥

कृषिं सप्तम्याम् ॥ ७८.४२ ॥

वाणिज्यमष्टम्याम् ॥ ७८.४३ ॥

पशून्नवम्याम् ॥ ७८.४४ ॥

वाजिनो दशम्याम् ॥ ७८.४५ ॥

पुत्रान् ब्रह्मवर्चस्विन एकादश्याम् ॥ ७८.४६ ॥

कनकरजतं द्वादश्याम् ॥ ७८.४७ ॥

साउभाग्यं त्रयोदश्याम् ॥ ७८.४८ ॥

सर्वान् कामान् पञ्चदश्याम् ॥ ७८.४९ ॥

शस्त्रहतानां श्राद्धकर्मणि चतुर्दशी शस्ता ॥ ७८.५० ॥

अपि पितृगीते गाथे भवतः ॥ ७८.५१ ॥

अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः ॥ ७८.५२ ॥

मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् ।
कार्त्तिकं सकलं मासं प्राक्छाये कुञ्जरस्य च ॥ ७८.५३ ॥